________________
च संभाव्यं प्रेषितानामप्रोषितजीवितानामगमनं तु दूरापेतमेव । गत्वापि दयिततमतनयवार्ताश्रवणलालसस्य राज्ञो देव्या आर्यशुकनासस्य दुःखप्लुताक्षीण्युद्वीक्ष्य मुखानि निर्विकारवदनानामस्माकमैवस्थानमशक्यमेव' इति विज्ञापिता तैः 'एवमेतत्' इत्युक्त्वा कादम्बरी मेघनादमवादीत् - 'मेघनाद, वेद्मि संस्तुतजनस्यैतदनुचितमिति । तथापि गुरूणां चेतःपीडार्मैवेक्ष्यमाणया मयैवमभिहितम् । इतरदपि दुःखमायाति । कीदृशं भवति किं पुनरिदं महावज्रपतनसदृशम् । तदेतदपि भवतु । एभिः सहापरः कचिच्छ्रद्धेयवचाः प्रत्यक्षदृष्टसकलवृत्तान्तः संप्रत्ययाय व्रजतु' इति ।
एवमादिष्टस्तु मेघनादो व्यज्ञापयत् - 'देवि, राजलोके तु का कथा । भृत्यवर्गोऽपि सकल एवायं कन्दमूलफलाशी निश्चयं कृत्वा स्थितो यथास्माकं मध्यादेकेनापि देवपादान्विना न प्रतीपं गन्तव्यमिति । भृत्या अपि त एव ये संपत्तेर्विपत्तौ सविशेषं सेवन्ते । समुन्नम्यमानाः सुतरामवनमन्ति । आलाप्यमाना न समालापाः संजायन्ते । स्तूयमाना -
***********
तानां प्रहितानामप्रोषितजीवितानाममृतानामगमनं तु दूरापेतमेव दूरापास्तमेव । द्वितीयं पक्षं प्रतिक्षिपन्नाह गत्वेति । तत्र गत्वापि दयिततमोऽतिवल्लभो यस्तनयः सुतस्तस्य वार्ता प्रवृत्तिस्तस्याः श्रवणमाकर्णनं तत्र लालसस्य सस्पृहस्य राज्ञो देव्या आर्यशुकनासस्य दुःखेन प्लुतानि ब्रुडितान्यक्षीणि येष्वेवंविधानि मुखानि वक्त्राण्युट्प्राबल्येन वीक्ष्य निरीक्ष्य निर्विकारवदनानां शोकादिविकृतिवर्जितानामस्माकमवस्थानमशक्यमेव दुष्करमेव । तैर्लेखहारकैरिति विज्ञापितेति निवेदिता एवमेतत्सत्यमेवेदमित्युक्त्वा कादम्बरी मेघनादमवादीदब्रवीत् । किं तदित्याह - मेघनादेति । हे मेघनाद, अहं वेद्मि जानामि संस्तुतजनस्य परिचितजनस्यैतदनिवेदनरूपमनुचितमयोग्यमिति । तथापि गुरूणां श्वशुरादीनां चेतःपीडामवेक्ष्यमा॑णया विलोक्यमानया मयैतत्पूर्वोक्तमभिहितं कथितम् । इतरदप्येतद्भिन्नमपि दुःखमायाति तदा कीदृशं महावज्रपतनसदृशं महापविपाततुल्यं भवति । किं पुनरिदं दुःखम् । तदेतदपि 'तुष्यतु दुर्जनः' इति न्यायेन वज्रपतनोपमं दुःखमपि भवति पततु । परमेभिर्लेखहारकैः सह श्रद्धेयं मान्यं वचो यस्य स तथा प्रत्यक्षं दृष्टोऽवलोकितः सकलवृत्तान्तः समग्रोदन्तो येनैवंविधोऽपर एतद्भिन्नः कश्चित्संप्रत्ययाय विश्वासाय व्रजतु गच्छतु ।
-
एवमादिष्टस्त्वेवं प्रोक्तस्तु मेघनादो व्यज्ञापयत् । हे देवि राजलोके नृपवर्गे तु का कथा का वार्ता कथ्यते । सकल एवायं भृत्यवर्गोऽपि सेवकसमूहोऽपि कन्दमूलफलान्यश्नातीत्येवंशील इति निश्चयं निर्णयं कृत्वा स्थितोऽस्ति निषिद्धोऽस्ति । कोऽयं निश्चय इत्यपेक्षायामाह - यथेति । यथास्माकं मध्यादेकेनापि देवपादांश्चन्द्रापीडचरणान्विना न प्रतीपं विलोमं गन्तव्यं न व्याघुट्य यातव्यमिति । भृत्या अपि अनुचरा अपि त एव ये संपत्तेः संपत्तितः विपत्तौ विपदि सविशेषं पूर्वतोऽधिकं सेवन्ते सपर्यां कुर्वन्ति । समुन्नम्यमानाः समुन्नतिं प्राप्यमाणाः सुतरामत्यर्थमवनमन्ति नम्रीभवन्ति । आलाप्यमानाः संभाष्यमाणाः सम आलापो येषां ते समालापाः सदृशभाषिणो न संजायन्ते न भवन्ति । स्तूयमाना नूयमाना नोत्सिच्यन्ते नोत्सेकं गच्छन्ति ।
टिप्प० - 1 ‘अवेक्षमाणया' इति स्थाने अयं पाठो लेखकदोष एव । 2 'इतरदपि दुःखमतर्कितं कीदृशं भवति, ( अर्थात् साधारणप्रियवियोगजनितदुःखमेव अनिर्वाच्यं भवति), इदं (पुत्रवियोगजम्) तु किं पुनः ? अयमेव पाठः ।
पाटा० - १ संभाष्य २ अगमनं दूरत एव ३ अवस्थानमनुचितमशक्यमेव. ४ अवेक्षमाणया; अपेक्षमाणया ५ आपतति; अतः ६ श्रद्धेयवाक्यः ७ व्रजतु संप्रत्ययायेति. ८ भृत्यवर्गेऽपि.
(तत्स्वीकृत्य तैः सह त्वरितकप्रेषणम्
उत्तरभागः ।
645