SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ यस्याः करस्पर्शेनाप्यायितमेतदविनाशि सैव वधूः पार्थेऽस्य तिष्ठतु' इत्यादिश्य निर्जगाम । निर्गत्य चोपकल्पितं निजावासमगत्वैव तपस्विवासोचितेऽन्यतमस्मिन्नासन्न एवाश्रमस्य शुचिशिलातलसनाथे तरुलतामण्डपे समुपविश्य निर्विशेषदुःखं सकलमेव राजचक्रमाहूयाहूय सबहुमानमवादीत् - 'न, भवद्भिरवगन्तव्यं यथाद्य शोकावेगादेवैतदहमङ्गीकरोमि' इति । पूर्वचिन्तित एवायमों यथा वधूसमेतस्य चन्द्रापीडस्य वदनमालोक्य संक्रामितनिजभरेण मया क्वचिदाश्रमपदे गत्वा पश्चिमं वयः क्षपयितव्यमिति । स चायं मे भगवता कृतान्तेन, पुराकृतैः कर्मभिर्वा विरूपैरेवं समुपनमितः । किमपरं क्रियते ? अनतिक्रमणीया नियतिः । अप्रापणीयं नानुभूतमात्मचेष्टाकृतं वत्सस्य सुखम् । प्रजापरिपालनफेलं तु पुनर्भवद्धजेष्वेवमक्षतेष्व॑विरहितमस्त्येव । अन्यथापि हि चेष्टमानेष्वस्मासु सर्वमेष्वेवावस्थितम् । तदिच्छामि चिरकाङ्कितं मनोरथं पूरयितुम् । धन्याश्च जरापीतसारतनवस्तनयेष्वात्मभरमासज्य लघुशरीराः परलोकगमनं साधयन्ति । येच्च बलाद्गले पादमाधाय यदा तदानिच्छतोऽप्या - *********** यितं शीतलीभूतं सैव वधूः स्नुषास्य चन्द्रापीडस्य पार्थे तिष्ठत्ववस्थानं करोतु । इत्यादिश्याज्ञां दत्त्वा निर्जगाम निर्ययौ । निर्गत्य च निर्गमनं कृत्वा चोपकल्पितं विहितं निजावासं स्वकीयसौधमगत्वैव तत्र गमनमविधायैव तपस्विवासोचिते मुनिजननिवासयोग्य आश्रमस्य महाश्वेताया आसन्न एव समीपवर्तिनि शुचिभिः पवित्रैः शिलातलैः सनाथे सहितेऽन्यतमस्मिंस्तरुलतामण्डपे तरूणां लता एव वल्ली एव मण्डपाकारेण मण्डपसदृशाकारेण व्यवस्थितास्तरवश्च लताश्च छत्राकारेण स्थिता रोहितास्तरुलतामण्डपा वा तस्मिन्समुपविश्यास्थाय निर्गतो विशेषो यस्मादेतादृशं दुःखं यस्मिन्नेवंभूतं सकलमेव समग्रमेव राजचक्रं नृपसमूहमाहूयाहूय सबहुमानं ससत्कारमवादीदब्रवीत् । । भवद्भिर्नावगन्तव्यं न ज्ञातव्यम्, यथाद्य शोकावेगादेतद्वनवासलक्षणमहमङ्गीकरोमि स्वीकुर्व इति । अयमर्थः पूर्वं चिन्तित एव प्रागालोचित एव प्रथममालोचित एव । तदेव विशदयति प्रकटयति - यथेति । यथा वधूसमेतस्य चन्द्रापीडस्य वदनमाननमास्यं आलोक्य निरीक्ष्य संक्रामितोऽन्यत्र स्थापितो निजभरो राज्यभारो येनैवभूतेन मया क्वचिदनिर्दिष्टनामन्याश्रमपदे मुनिस्थानस्थले गत्वा पश्चिमं प्रान्तं वयः क्षपयितव्यं परिपूर्णतां नेयमिति । स चायमर्थः कृतान्तेन यमेन लोकपालत्वाद्भगवता ज्ञानवता पूज्येन, पुराकृतैः पूर्वभवाचीणैर्विरूपैरशुभैः कर्मभिर्वैवं पूर्वोक्तप्रकारेण समुपनमितोऽधरीकृतः । अपरं द्वितीयं किं क्रियते, यतोऽनतिक्रमणीयानुल्लङ्घनीया नियतिर्ब्रह्मनिर्मितिरदृष्टं वा । आत्मचेष्टात्मप्रयत्नस्तेन कृतं वत्सस्य चन्द्रापीडस्य सुखमप्रापणीयं प्राप्तुमयोग्यं नानुभूतं नानुभवविषयीकृतम् । प्रजापरिपालनसुखफलं तु पुनरक्षतेष्वखण्डितेषु भवद्भुजेष्वेव सत्स्वविरहितं न वियोगमापनमस्त्येव । अन्यथापि ह्यस्मासु चेष्टमानेषु क्रियमाणेषु सर्वमेतेष्वेव भवद्भुजेष्वेवावस्थितं स्थितिमापनम् । तदिति हेत्वर्थे । इच्छामि चिरकाङ्कितं चिरवाञ्छितं मनोरथं पूरयितुं परिपूर्णीकर्तुम् । धन्याश्च कृतकृत्याच जरया विससया पीतं गृहीतं सारं बलं यासामेवंभूतास्तनवो येषां ते तथा तनयेषु पुढेष्वात्मभरमासज्य न्यस्य अत एव लघुशरीराः परलोकगमनं भवान्तरगति साधयन्ति निष्पादयन्ति । यच्च बलाद्धठाद् गले निगरणे पादं चरणमाधाय स्थापयित्वा दत्त्वा यदा तदा यस्मिंस्तस्मिन्कालेऽनिच्छतोऽप्यनभिलषतोपि कृतान्तेन - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 अस्मासु अन्यथा चेष्टमानेष्वपि (इत्थं सर्वपरित्यागेन आश्रमपदमधितिष्ठत्स्वपि) सर्वं प्रजारक्षणादिकम्, एषु (भवद्भुजेषु, एवावस्थितम्) भवद्धलायत्तमिति स्पष्टोऽर्थः । - पाठा० - १ अविनाशि शरीरम्. २ मुखम्. ३ फलं बल. ४ अविहतम्. ५ अन्यत्. ६ तच्च. (670 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy