SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ हृदये स्पृशन्ती 'समाश्वसिहि मातः, त्वया विनाऽद्य प्रभृति केन संधारितं वत्सस्य मे चन्द्रापीडस्य शरीरम् ? मातः, त्वममृतमयीव जातासि, येन वत्सस्य पुनर्वदनमालोकितम्' इत्यवादीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तैनिर्विशेषवृत्तिना विलासवतीशरीरस्पर्शेन लब्धसंज्ञापि लज्जावनम्रमुखी प्रतिपत्तिमूढा मदलेखयाङ्कादवतार्य परवत्येव यथाक्रममकार्यत वन्दना गुरूणाम् । 'आयुष्मति, दीर्घकालमविधवा भव' इति कृताशीर्वादा च शनैरुत्थाप्यातिनिकटे विलासवत्याः पृष्ठतः समुपवेश्याधार्यत । अथ प्रत्यापन्नचेतनायां चित्ररथतनयायां चन्द्रापीडमेवोज्जीवितं मन्यमानो राजा चिरमिवास्य गाढमङ्गमालिङ्ग्य चुम्बंश्च पश्यश्च स्पृशंश्च स्थित्वा मदलेखामाहूयाहूयादिदेश - 'दर्शनसुखमात्रकमस्माकं विधीयमानम्, तँच्चास्माभिरासादितम् । तद्यादृशेनैवोपचारेणैतावतो दिवसानुपचरितवती वधूर्वत्सस्य शरीरम्, स एवोपचारो नास्मद॑नुरोधाल्लज्जया वा मनागपि परिहरणीयः । वयं निष्प्रयोजना द्रष्टार एव केवलम् । किमस्माभिरिह स्थितैर्गतैर्वा । *********** स्तात्तु स्याच्चिबुकं स्याद्गल्लः सृक्कणः परः । गल्लात्परः कपोलश्च परो गण्डः कपोलतः' इति हैमकोशः । चन्द्रापीडस्पर्शशिशिरेण शीतलेन च पाणिना करेण हृदये वक्षसि स्पृशन्ती स्पर्श कुर्वन्ती । हे मातः, यथा पुत्रे तात इति प्रयोगस्तथा पुत्रीसमायां सुतातुल्यायां स्नुषायामपि मातृशब्दप्रयोगः । त्वं समावसिह्याश्वासनां कुरु । यतस्त्वया भवत्या विनाद्यप्रभृत्येतद्दिनादारभ्य मे मम वत्सस्य सुतस्य चन्द्रापीडस्य शरीरं वर्ष केन संधारितं धृतम् । हे मातः, त्वममृतमयीव पीयूषनिर्मितेव संजाता । येन कारणेन वत्सस्य वदनं सुतस्य वदनं पुनर्वितीयवारमवलोकितं निरीक्षितमित्यवादीदित्यब्रवीत् । कादम्बरी तु तेन चन्द्रापीडनामग्रहणेन तेन च तस्माच्चन्द्रापीडस्पर्शानिर्विशेषवृत्तिना तत्सदृशेन विलासवतीशरीरस्पर्शेन (संज्ञां चेतना लेभे प्राप्तवती ।) लब्धसंज्ञापि प्राप्तचेतनापि लब्धा प्राप्ता संज्ञा चैतन्यं यया सैवंविधापि लज्जयावननं मुखं यस्याः सा प्रतिपतिः सेवा तस्यां मूढाज्ञाधोमुखी नीचैर्मुखी मदलेखयाकादुत्सङ्गादक्तार्यावतारणं कृत्वा परवत्येव परायत्तेव गुरूणां चन्द्रापीडमातृपितृणां यथाक्रममनुक्रमेण वन्दनामकार्यत व्यधाप्यत । 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः । हे आयुष्पति हे चिरजीविते, दीर्घकालमविधवा वैधव्यरहिता भवेति कृत आशीर्वाद आशीःप्रदानं यस्याः सा तथा कृताशीर्वादा च शनैरुत्थाप्यातिनिकटेऽतिसमीपे विलासवत्याः पृष्ठतः पश्चाद्भागे समुपवेश्य सखीजनैरधार्यत । अथेति । तदनन्तरं प्रत्यापनचेतनायां प्राप्तचैतन्यायां तु चित्ररथतनयायां कादम्बर्यां चन्द्रापीडमुज्जीवितमेव मन्यमानो जानानः । तस्या उज्जीवनादिति भावः । राजा तारापीडश्चिरमिव चिरकालमिवास्य चन्द्रापीडस्य गाढं दृढमङ्गमालिङ्ग्य परिष्वज्य चुम्बंश्चुम्बनं कुर्वन्पश्यन्चिलोकयन्स्पृशन्स्पर्शं कुर्वंच स्थित्वा च कियत्कालं कतिपयकालं मदलेखामाहूयाह्वानं कृत्वादिदेशादिष्टवान् । दर्शनसुखमात्रक केवलमवलोकनसुखमस्माकं विधीयमानं क्रियमाणं तच्चास्माभिरासादितं प्राप्तम् । तदिति हेत्वर्थे । यादृशेन वोपचारेण प्रतिक्रिययैतावतो दिवसान्वधः स्नुषा वत्सस्य शरीरमुपचरितवत्युपचारं कृतवती स एवोपचारोऽस्मदनुरोधादस्मत्प्रतिबन्धाल्लज्जया त्रपया वा मनागपीषदपि न परिहरणीयो न परिहार्यः । वयं निष्प्रयोजना निरर्थकाः केवलं द्रष्टार एव विलोकयितार एव । अस्माभिरिह स्थले स्थितैरवस्थितैर्गतैर्वा किम् । यस्या भवत्याः करस्पर्शेनैतदविनाश्यविनश्वरमाप्या - .- - - - - - - - - - - - - - टिप्प० - 1 व्याख्याया अस्या मूलाक्षराणि न प्राप्यन्ते । 2 प्रतिपत्तिमूढा किंकर्तव्यमिति ज्ञानविकला। पाठा० - १ हृदयम्. २ हेमातः. ३ निर्विशेष. ४ शनैः शनैस्तैरुत्थाप्य; तैरुत्थाप्यमाना; शनैरुत्थाप्यमाना. ५ आलिङ्गन्. ६ आहूय. ७ यत्. ८ उपरोधात्. ९ परिहारणीयः, १० वयं तु. - - - - - -- - - - - - - कादम्बर्या दर्शनमालापश्च उत्तरभागः। 669
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy