SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ परिष्वज्य ताम्, तदनु हर्षपरवशो विलासवती कण्ठेऽवलम्ब्य, जराभङ्गवलिपरिशिथिलितमूलेन बाहुनोत्क्षिप्तोत्तरीयांशुकाञ्चलः, स्वयमेवाशिक्षितलयविसंष्ठुलैः पदैर्नृत्यन्निवोत्फुल्लवदननरपतिसहसपरिवृतोऽम्भोजाकर इव मलयमारुतप्रे खोलनाविवर्तितः, मदलेखां 'क्वासौ क्वासौ' इति पुनः पुनः पृच्छन्पुनःपुनर्निर्विशेषहर्षवृत्तिं शुकनासं कण्ठे संभावयस्तत्रैवागच्छत् । दृष्ट्वा च तथा पुण्डरीककण्ठे लग्नं चन्द्रापीडमानन्दनिर्भरः शुकनासमवादीत्-'दिष्ट्या, मया नैकाकिना तनयप्रत्युज्जीवनोत्सवसुखमनुभूतम्' इति । चन्द्रापीडस्तु तथा हर्षपरवशं पितरमालोक्य ससंभ्रमोन्मुक्तपुण्डरीकः पुरेव पृथ्वीतलनिवेशितशिराश्चरणयोरपतत् । अथ सत्वरोपसृतस्तं तथा प्रणतमुन्नमय्य तारापीडोऽभ्यधात् - 'पुत्र, यद्यपि पिताहं तव शापदोषात्स्वपुण्यैर्वा संजातः, तथापि जगद्वन्दनीयो लोकपालस्त्वम् । अपि च मय्यपि नमस्यो योंऽशः सोऽपि मया त्वय्येव संक्रामितः । तदुभयथापि त्वमेव नमस्कार्यः' इत्यभिदधदेव समं राजपुत्रलोकसहसैः प्रतीपमस्य पादयोरपतत् । विलासवती तु तथा पित्रा प्रणते तस्मिन्परितोषेण स्वाङ्गेष्विवासंमान्ती, तं पुनः शिरसि पुनर्ललाटे पुनश्च कपोलयो - *********** - - - - - बाहुभ्यां तां परिष्वज्याश्लिष्य तदनु पश्चाद्धर्षपरवशः प्रमोदपरतन्त्रः कण्ठे विलासवतीमवलम्ब्यावलम्बनं कृत्वा ....... हे पुत्र हे सुत, यद्यपि शापदोषात्स्वपुण्यैर्वाहं तव पिता संजातः, तथाप्येव सत्यपि त्वमेव जगतां वन्दनीयो नमस्कार्यः । यतो लोकपालस्त्वम् । अपि युक्त्यन्तरे । मय्यपि मयि विषयेऽपि नमस्यो योंऽशः । जात्येकवचनम् । सोऽपि मया त्वय्येव संक्रामितस्तदुभयथापि लोकपालत्वेन मदंशसंक्रमणेन च त्वमेव भवानेव नमस्कार्यो नमस्करणीय इत्यभिदधदेवेति कथयन्नेव राजपुत्रलोकसहसैः समं प्रतीपं विलोममस्य चन्द्रापीडस्य पादयोरपतत्पतितवान् । विलासवती तु तथा तेन प्रकारेण पित्रा तारापीडेन प्रणते नते तस्मिंश्चन्द्रापीडे परितोषेण हर्षेण स्वाङ्गेष्विवासमान्ती प्रवेशमलभमाना । एतेन प्रमोदातिरेकः सूचितः । तं सुतं पुनः शिरस्युत्तमाङ्गे, पुनर्ललाटेऽलिके भालस्थले, पुनः - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 टीकासापेक्षोंऽशः - जरसा भङ्गेन (अभिभवेन) या वल्यः चर्मसंकोचलहर्यः ताभिः शिथिलितं मूलं यस्य, ईदृशेन बाहुना उत्क्षिप्तः (स्कन्धोपरि निहितः) उत्तरीयाञ्चलो येन सः । उत्फुल्लनयनेन नरपतिसहसेण परिवृतः । न शिक्षितः (अनुवर्तितुं नाऽभ्यस्तः) यो लयः (वायादिगत्या सह स्वरस्य साम्यम्) तेन विसंस्थुलैः विषमगतिभिः पदैः (पदन्यासैः) नृत्यनिव, अत एव मलयमारुतद्वारा या प्रेखोलना (संचालनम्) तेन विवर्तितः (क्षोभं प्रापितः) अम्भोजाकर इव कमलखण्ड इव, (नृत्यन् राजा पवनतरलजलाशयस्थानीयः, उत्फुल्लानि नरपतिमुखानि कमलस्थानीयानि, इति कमलाकरसाम्यम) । हर्षेण निर्विशेषा (अभिना, समाना) वृत्तिर्यस्य ईदृशं शुकनासं पुनः पुनः कण्ठालिङ्गनेन समानयन् । दिष्ट्या (भाग्याभिनन्दनस्यावसरः) तनयप्रत्युज्जीवनस्य सुखं न मया एकाकिना, अपि तु त्वयाप्यनुभूतम् । ससंभ्रमम् उन्मुक्तः (कण्ठग्रहात् दूरीकृतः) पुण्डरीको येन । पुरेव पूर्वमिव (उज्जयिन्यां तारापीडं पितरं मत्वा यथा प्राणसीत्तथा) भूतलन्यस्तमस्तकः । सत्वरं शीघ्रम् उपसृतः (समीपमागतः) तारापीडः अभ्यधात् अभाषत । 2 तव शापदो पिता जातः) 3 अहं नरपाल इति यो नमनीयत्वांशः - 'अष्टानां लोकपालानां मात्राभिर्निर्मितो नृपः' इति, सोपि त्वयि संक्रमितः, राज्यं दत्तमित्यर्थः । 4 अवकाशमलभमाना, इत्यर्थ उचितः । पाठा० - १ जरामित्यारभ्य-तारापीडोऽभ्यधादित्यन्तं व्याख्यायां त्रुटितोंऽश इति ज्ञेयम्. 704 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy