________________
चुम्बित्वा गाढतरं सुचिरमालिलिङ्ग । उन्मुक्तश्च मात्रोपसृत्य पुनः पुनः कृतनमस्कारः शुकनासं प्रणनाम । आशीःसहसाभिवर्धितश्च तेनात्मनोपसृत्य यथानुक्रम पित्रोः शुकनासस्य मनोरमायाश्चैष वो वैशम्पायन इति पुण्डरीक विनयविलक्षावनम्रवदनमदर्शयत् ।।
तस्मिन्नेव च प्रस्तावे समुपसृत्य कपिञ्जलः शुकनासमवादीत् - ‘एवं संदिष्टमार्यस्य भगवता श्वेतकेतुना । अयं खलु पुण्डरीकः संवर्धित एव केवलं मया । आत्मजः पुनस्तव । अस्यापि भवत्स्वेव लग्नः स्नेहः । तद्वैशम्पायन एवायमित्येवमवगत्याविनयेभ्यो निवारणीयः । परोऽयमिति कृत्वा नोपेक्षणीयः । यच्चापगतशापोऽप्यात्मसमीपं नानीतस्तत्तवैवायम्, इति । अन्यच्चात्मानमस्मित्राचन्द्रकालीनायुषि स्थापयित्वा कृतार्थः । संप्रत्यस्मादिव्यलोकादप्युपरिष्टाद्गन्तुमुद्यतं मे सत्त्वाख्यं ज्योतिः' इति । शुकनासस्तु विनयावनतं पुण्डरीकं पाणिनांऽसेऽवलम्ब्य कपिञ्जलं प्रत्यवादीत् - 'कपिञ्जल, सकलजगदाशयज्ञेन सता भगवता किमित्यादिष्टम् । सर्वथा स्नेहस्यायमसंतोषः' इति । — एवंविधैश्च पूर्वजन्मवृत्तान्तानुस्मरणालापैः परस्परावलोकनसुखोत्फुल्ललोचनानां सर्वेषा -
***********
कपोलयोर्गलात्परप्रदेशयोश्चुम्बित्वा चुम्बनं कृत्वा गाढतरमतिदृढं सुचिरं बहुकालमालिलिङ्ग । आलिङ्ग्य उन्मुक्तश्च मात्रा विलासवत्या, उपसृत्य समीपे गत्वा पुनः पुनः कृतनमस्कारो विहितनमस्कृतिः शुकनासं प्रणनाम नमस्कृतिं चक्रे । तेन शुकनासेनाशीःसहसैर्माङ्गल्याभिवादनसहसैरभिवर्धितोऽभिनन्दितश्चात्मना स्वयमुपसृत्योपसरणं कृत्वा यथानुक्रम यथाक्रम पित्रोः शुकनासस्य मनोरमायाश्चैष वो युष्माकं वैशम्पायन इति पुण्डरीक विनयेन विलक्षं विस्मयान्वितम् । 'विलक्षो विस्मयान्विते' इत्यमरः । अवनम्रमवनतं वदनं यस्य स तमदर्शयद्दर्शयामास ।
तस्मिन्नेव प्रस्तावे समये समुपसृत्य पार्थे समागत्य कपिञ्जलः शुकनासमवादीदवोचत् । आर्यस्य भवतः श्वेतकेतुना भगवतैव संदिष्टं कथित वर्तते । खल्विति निश्चये । अयं पुण्डरीकः केवलं मया संवर्धित एव वृद्धि प्रापित एव । आत्मजः पुत्रः पुनः पुनस्तव भवतः । अस्यापि पुण्डरीकस्यापि भवत्स्वेव स्नेहो लग्नः संबद्धः । तदिति हेत्वर्थे । वैशम्पायन एवायं पुण्डरीक इत्येवमवगत्य ज्ञात्वाऽविनयेभ्यो निवारणीयो दूरीकार्यः । अयं परोऽन्य इति ज्ञात्वा नोपेक्षणीयो नोपेक्षाविषयीकर्तव्यः । यच्चापगतशापोऽप्यात्मसमीपं स्वसविधं नानीतो न प्रापितस्तस्मात्तवैव भवदीय एवायमिति । अन्यच्च चन्द्रकालश्चन्द्रापीडावस्थानलक्षणस्तत्र भवमायुस्तस्मिन् । 'आत्मा वै जायते पुत्रः' इति श्रुतेः । आत्मानं पुत्रं स्थापयित्वा यावत्कालं चन्द्रापीडः स्थास्यति तावत्कालमयमिति भावः । अत एव कृतार्थः कृतकृत्यः । संप्रतीदानीमस्माद्दिव्यलोकादप्युपरिष्टाद् गन्तुं मे मम सत्त्वाख्यं ज्योतिरुद्यतं कृतप्रयत्नमिति । शुकनासस्तु सुष्टु विनयादवनतं नम्रीभूतं पुण्डरीकं पाणिना हस्तेनांसे स्कन्धेऽवलम्ब्य कपिजलं प्रत्यवादीप्रत्यवोचत् । तदेव दर्शयन्नाह - कपिजलेति । हे कपिञ्जल, सकलजगतः समग्रविश्वस्याशयज्ञेनाभिप्रायवेदिना सता भगवता पूज्येन किमित्यादिष्टं कथितम् । सर्वथा स्नेहस्यायं पुण्डरीकोऽसंतोषोऽधृतिस्थानम् । कदाचिदस्मिन्स्नेहो न निवर्तित इति भावः ।
इत्येवंविधैच पूर्वजन्मवृत्तान्तस्य भवान्तरोदन्तस्यानुस्मरणानि तेषामालापैः संभाषणैः परस्परमन्योन्यमवलोकनं वीक्षणं तस्य सुखं तेनोत्फुल्ललोचनानां संफुल्लनेत्राणाम् । 'प्रफुल्लोत्फुल्लसंफुल्लव्याकोशविकचस्फुटाः' इत्यमरः । टिप्प० - 1 आशीर्वचनसहसैः । 2 आचन्द्रकालिकम् आयुर्यस्य ईदृशे अस्मिन् (पुण्डरीके) आत्मानं निजस्वरूपम् (निजतत्त्वम्) स्थापयित्वा, इत्यर्थः । 3 स्नेहस्य अपरितृप्तिः । सर्वज्ञतया ममाशयं जानतापि महर्षिणा यदेतत्संदिष्टं तत् केवलमस्मासु स्नेहप्रकटनमिति भावः । पाठा० - १ सविनयवैलक्ष्य. २ एव. ३ आचन्द्रसमकालीनायुषि. ४ अस्मत्. ५ संस्मरण.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(कपिञ्जलद्वारा श्वेतकेतुसंदेशः
उत्तरभागः।
705