SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ विधो मय्यकस्मादेव कोपो यदेवं परित्यज्य स्थितोऽसि ? गतोऽप्यागच्छ । शिरसा प्रसादयामि त्वाम् । कोऽपरोऽस्ति मे ? देशान्तरपरिचयान्मुक्तो नामास्मासु स्नेहः ? क्षणमप्यनन्तरितदर्शनस्य चन्द्रापीडस्योपरि कथं तवेदृशी निःस्नेहता जाता ? तात, न भद्रक त आपतितम् । सर्व एव सुखं स्थापनीयो गुरुजनो दुःखं स्थापितः । न जानाम्येवं कृत्वा किं त्वया प्राप्तव्यम् । एतानि चान्यानि चान्तर्भवनगतां प्रत्यग्रतनयविरहविह्वलां स्वयं देव्या विलासवत्या संस्थाप्यमानामपि मनोरमां विप्रलपन्तीमश्रौषीत् । तेन चातिकरुणेन तत्प्रलापविषेण विह्वल इव निद्रागमेनेव धूर्णमानो निश्चेतनतामनीयत । कथंकथमपि सहजसत्त्वावष्टम्भेनैव संस्तम्भितात्मा प्रविश्य पितुरपि लज्जमानो वदनमुपदर्शयितुमधोमुख एव निस्पन्दसर्वाङ्गेण मन्दराद्रिणेव शुकनासेन सह मथनावसानस्तिमितमिव महार्णवं प्रणम्य पितरं दूरत एवोपाविशत् । उपविष्टं च तं क्षणमिव दृष्ट्वा राजान्तर्बाष्पभरगद्गदेन ध्वनिनाभ्यर्णवर्ष इव जलधरोऽभ्यधात् - 'वत्स चन्द्रापीड, जानामि ते स्क्जीवितादपि समभ्यधिकां भ्रातुरुपरि प्रीतिम् । पीडा च सुखैकहेतोर्वल्लभजनादेवासंभाव्यायासेमु - *********** दिनादारभ्य न दृष्टमेव न निरीक्षितमेव, तस्य ते तवाकस्मादेव निर्निमित्तादेव मयि विषय एवंविध एतादृशोऽयं कोपः कुतः । यद्यस्माद्धेतोरेवं पूर्वोक्तप्रकारेण परित्यज्य विहाय स्थितोऽसि । त्वं गतोऽपि सन्त्रागच्छैहि । त्वां भवन्तं शिरसा मस्तकेन । पादपतनेनेत्यर्थः । प्रसादयामि प्रसन्नीकरोमि । अपरोऽन्यः को मे ममास्ति । नामेति कोमलामन्त्रणे । एकस्माद्देशादन्यो देशो देशान्तरं तस्य परिचयः संस्तवस्तस्मादस्मासु मनोरमाप्रभृतिषु स्नेहः प्रेम मुक्तस्त्यक्तः । क्षणमपि समयमप्यनन्तरितमव्यवहितं दर्शनं यस्यैवंविधस्य चन्द्रापीडस्योपरीदृशी कथं तव निःस्नेहता निःप्रेमता जाता प्रादुर्भूता । तात पुत्र, ते तव भद्रक कल्याणं नापतितं न जातम् । सर्व एव दुःखं स्थापितो गुरुजनः सुखं स्थापनीयः । एवं कृत्वैवं विधाय किं त्वया प्राप्तव्यं प्रापणीयम्, एवमहं न जानामि नाकलयामि । अन्तर्भवनं मध्यगृहं तत्र गतां प्राप्तां प्रत्यग्रो नवीनो यस्तनयविरहः सुतवियोगस्तेन विह्वलां विधुराम् । मनोरमाया विशेषणे । मनोरमां विप्रलपन्तीमश्रौषीदित्यन्वयस्तु प्रागेवोक्तः । तेनेति । तेन पूवोक्तेनातिकरुणेनातिदीनेन तस्य मनोरमायाः प्रलापविषेण विलापरूपगरलेन विह्वल इव विधुर इव निद्रागमेनेव प्रमीलागमेनेव घूर्णमानो निश्चेतनतामनीयताप्राप्यत । कथंकथमपि महता कष्टेन सहजं निसर्गजं यत्सत्त्वं धैर्यं तस्यावष्टम्भेनैवाश्रयणेनैव संस्तम्भित आत्मा येनैवंभूतः प्रविश्य प्रवेशं कृत्वा पितुरपि जनकादपि वदनमाननमुपदर्शयितुमवलोकनं कारयितुं लज्जमानस्वपमानोऽधोमुख एव नीचैर्मुख एव निस्पन्दं निश्चेष्टं सर्वाङ्ग समग्र शरीरं यस्यैवविधेन मन्दराद्रिणेव स्वर्गिगिरिणेव शुकनासेन सह मथनस्यावसानं प्रान्तस्तेन स्तिमितो निश्चलो यो महार्णवः समुद्रस्तं रूपकमेवंभूतं पितरं जनकं प्रणम्य नमस्कृत्य दूरत एवोपाविशनिषण्णो बभूव । उपविष्टं निषण्णं च तं क्षणमिव समयसदृशं दृष्ट्वा विलोक्यान्तर्बाष्पो मध्यनेत्राम्बु तस्य भरस्तेन गद्गदेन ध्वनिना शब्देनाभ्यणे समीपे वर्षो यस्यैवंभूतो जलधरो मेघ इव राजा तारापीडोऽभ्यधादवादीत् । हे वत्स हे चन्द्रापीड, अहं जानाम्याकलयामि ते तव स्वजीवितादपि स्वप्राणितादपि भ्रातुर्वैशम्पायनस्योपरि समभ्यधिकामुत्कृष्टां प्रीतिम् । पीडा च सुखस्यैकोऽद्वितीयो हेतुर्निदानमेवंविधादल्लभजनादेवासंभाव्यायांसमतर्कित - टिप्प० - 1 समुद्रस्तत्सदृशमित्यर्थः । 2 'वल्लभजनादेवाऽसंभाव्या समुत्पद्यते, तयैव हि न किञ्चिन्न क्रियते ? ' इति पाठः । सुखहेतोवल्लभजनात् असंभावनीया या पीडा समुत्पद्यते तयैव किञ्चित्र क्रियते इति न, अपि तु सर्वं क्रियते (जनेन) इति तदर्थः । पाटा० - १ समापतितम्. २ विरहशोकविह्वलम्. ३ स्तिमितमहार्णवम्. ४ गद्गद. ५ संभवति. - - - 568 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy