SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ त्पद्यते । तथैव हि न किंचिन्न क्रियते । तज्जन्मनः स्नेहस्य वयसः शीलस्य श्रुतस्य गुरुजनानुशासनस्य विनयाधानस्य च सर्वस्यैवानुचितमिमं भ्रातुः सुहृदश्च ते वृत्तान्तमाकर्ण्य त्वद्दोषमाशङ्कते मे हृदयम् । इत्येवंवादिनो नरपतेर्वचनमाक्षिप्य युगपच्छोकामर्षाभ्यामन्धकारिताननः प्रावृडारम्भ इव तडिल्लतादुष्प्रेक्ष्यो विस्फूर्जितेनेव स्फुरिताधरेण शुकनासोऽब्रवीत् - 'देव, यदि चन्द्रमस्यूष्मा, दहने चातिशीतलत्वम्, अंशुमालिनि वा तमः, तमस्विन्यां वा दिवसः, महोदधौ वा शोषः, क्षितेरधारणं वा शेषे, परार्थानुद्यमो वा साधोः, अप्रियवचननिर्गमो वा स्वजनमुखात्संभाव्यते, ततो युवराजेऽपि दोषः । तत्किमेवमेवानिरूप्य तस्यानात्मजस्य मूढप्रकृतेर्दुर्जातस्य राजापथ्यकारिणो मातृपितृघातिनो मित्रद्रुहः कृतघ्नस्य कर्मचण्डालस्य महापातकिनः कृते कृतयुगावतारयोग्यमात्मनोऽपि गुणवन्तमत्युदारचरितं चन्द्रापीडमेवं संभावयति देवः । न ह्यतः परमपरं कष्टतमं किंचिदपि पीडाकारणम्, यद्गुणेषु वर्तमानो - *********** प्रयास यथा स्यात्तथोत्पद्यते संजायते । तथैव तेन प्रकारेणैव । हीति निश्चितम् । किंचिन्न क्रियते । अपि तु सर्वं क्रियत एव । यथैव प्रीतिस्तथैव दुःखमपि वल्लभजनादेवातर्कितं जायत इति भावः । तत्तस्माद्धेतोस्ते तव भ्रातुर्बान्धवस्य सुहृदो मित्रस्य च वृत्तान्तमुदन्तमाकर्ण्य श्रुत्वा त्वद्दोष त्वद्वैगुण्यं मे मम हृदयं चेत आशङ्कत आरेकते । कीदृशं त्वद्दोषम् । जन्मन उत्पत्तेः, स्नेहस्य प्रेम्णः, वयसोऽवस्थायाः, शीलस्य स्वभावस्य, श्रुतस्य ज्ञानस्य, गुरुजनानुशासनस्य गुरुशिक्षायाः, विनयाधानस्य प्रश्रयस्थापनस्य, सर्वस्यैव समग्रस्यैवेममनुचितमयोग्यम् । इत्येवंवादिनो ब्रुवतो नरपते राज्ञो वचनं वाक्यमाक्षिप्य निराकृत्य युगपत्समकालं शोकः शुक्, अमर्ष ईर्ष्या, ताभ्यामन्धकारितमन्धकारवदाचरितमाननं मुखं यस्यैवंभूतो विस्फूर्जितेन दीप्तिमता स्फुरितः कम्पितो योऽधर ओष्ठस्तेन शुकनासोऽब्रवीदवोचत् । स्फुरितसाधादाह - तडिल्लता विद्युल्लता तया दुष्प्रेक्ष्यो दुरालोकनीयः प्रावृडारम्भ इव वर्षाप्रारम्भ इव ।। किमुवाचेत्याह - देवेति । हे देव, यदि चन्द्रमसि चन्द्र ऊष्मा तापः, दहनेऽग्नावतिशीतलत्वमतिशिशिरत्वम्, अंशुमालिनि सूर्ये वा तमोऽन्धकारम्, तमस्विन्यां त्रियामायां वा दिवसः, महोदधौ समुद्रे वा शोषो जलनाशः, शेषेऽनन्ते क्षितेः पृथिव्या अधारणमवहनम्, साधोः सज्जनाता परस्यान्यस्यार्थः कृत्यं तत्रानुद्यमोऽनुद्योगः, स्वजनमुखादात्मीयलोकवदनादप्रियवचनस्यानिष्टवाक्यस्य निर्गमो निःसरणम् । एतेभ्यो यद्येतानि संभाव्यन्ते संभावनाविषयीक्रियन्ते, ततो युवराजेऽपि चन्द्रापीडेऽपि दोषः संभाव्यते । तत्किमेवमेवानिरूप्याज्ञात्वा नात्मानं जानातीत्यनात्मज्ञस्तस्य, मूढा प्रकृतिः स्वभावो यस्य स तस्य, दुर्जातस्य दुर्भवस्य, राज्ञो नृपस्यापथ्यकारिणो हितविघातिनो मातृपितृघातिनो जननीजनकविध्वंसिनो मित्रद्रुहः सुहृद्धातिनः कृतं हन्तीति कृतघ्नस्तस्य कर्मणैव चण्डालः श्वपचस्तस्य महापातकिनो महापापकारिण एवंभूतस्य वैशम्पायनस्य कृते कृतयुगे योऽवतारोऽवतरणं तस्य योग्यमुचितमात्मनोऽपि भवतोऽपि गुणवन्तमौदार्यादिगुणयुक्तमत्युदारचरितमत्युत्कृष्टचरित्रं चन्द्रापीडं देव एवं संभावयति संभावनां करोति । न हीति । अतोऽदोषेषु दोषोद्भावनतः परमन्यदपरं किंचिदपि वस्तु कष्टतम पीडाकारणं न । तदेव दर्शयन्नाह - यदिति । यद्गुणेषु वर्तमान इतरजनेनापि पाम - टिप्प० - 1 'तडिल्लतादुष्प्रेक्ष्यः प्रावृडारम्भ इव (स्थितः) विस्फूर्जितेनेव वज्रनिर्घोषणेव स्फुरिताधरेण (स्वरेण) शुकनासोऽब्रवीत् । इत्यर्थः । 'स्फूर्जथुर्वज्रनिर्घोष' इत्यमरः । 2 अतः परं न किंचिदपि पीडाकारणं यद् गुणेषु वर्तमानो (जनः) इतरजनेनापि दोषेषु संभाव्यते (दोषसंबद्धत्वेन तय॑ते), गुरुजनेन तु संभाव्येतैव इति स्पष्टम् । - - - - - - - - - - - - - - - - - पाठा० - १ तया. २ युगपदाक्षिप्य वचनम्. ३ एव. ४ वा शीतलत्वम्. ५ च. ६ महोदन्वति. ७ सज्जन. ८ अराजपथ्यकारिणः. ९ चाण्डालस्य. १० कष्टतरम्. (पितुश्चन्द्रापीडोपरि सदेहः । उत्तरभागः। 569
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy