SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ धयः, दोषेषु संभाव्यत इतरजनेनापि, किं पुनर्गुरुजनेन ? यो गुणी गुणैरेवाराधनीयः । कस्यापरस्यात्मा गुणवाननेन ज्ञापनीयः ? अपि च जन्मनः प्रभृति देवस्य देव्या विलासवत्याश्चाङ्कलालनया यो न गृहीतस्तस्य मरुत इव दुर्ग्रहप्रकृतेश्चन्द्रापीडोऽपि किं करोतु ? स्वयमेवोत्पद्यन्त एवंविधाः शरीरसंभवा महाकृमयः, सर्वदोषाश्रया महाव्याअन्तर्विषा महाव्यालाः, विनाशहेतवो महोत्पाताः, भुजङ्गवृत्तयो महावातिकाः, वक्रचारिणो महाग्रहाः, तमोमयाः प्रदोषाः, मलिनात्मकाः कुलपांसवः, निःस्नेहाः खलाः, निर्लज्जाः कृपणकाः, निःसंज्ञाः पशवोऽपि च, अकाष्ठा दहनाः, निर्गुणा जालिनः, अतीर्था जलाशयाः, निर्गौरवाः खरप्रकृतयः, अशिवमूर्तयो महाविनायकाधिष्ठिताः, सकलङ्काः कृपाणा इव स्नेहेनैव पारुष्यं लभन्ते । मलिनस्वभावाः करिकपोला इव दानेनैव मलिनतरतामापद्यन्ते । निर्वर्तयो मणि - 1 ये रलोकेनापि दोषेषु संभाव्यते । गुरुजनेनापि पितृलोकेनापि तु तत्संभावने किं पुनर्भण्यते किं पुनः कथ्यते । कर्तव्योपदेशमाह - य इति । यो गुणी गुणवान्स गुणैरेवाराधनीयः सेवनीयः । अनेन गुणिजनेन कस्यापरस्यात्मा स्वयं गुणवाञ्ज्ञापनीयः प्रकाशनीयः । अपि चेति । अपि च युक्त्यन्तरे । जन्मनः प्रभृत्युत्पत्तेरारभ्य देवस्य तारापीडस्य देव्या विलासवत्याश्चाङ्कलालनया क्रोडपरिपालनया यो न गृहीतो न स्वायत्तीकृतस्तस्य वैशम्पायनस्य मरुत इव वायोरिव दुर्ग्रहा प्रकृतिः स्वरूपं यस्यैवंभूतस्य चन्द्रापीडोऽपि किं करोतु । किं कुर्यादित्यर्थः । अथ वैशम्पायनोत्पत्तिवैगुण्यमाविष्कुर्वन्नाह - स्वयमेवेति । एवंविधा एतादृशाः शरीरसंभवा देहोत्पन्ना महाकृमयः क्षुद्रजन्तवः, सर्वदोषाणामाधारभूता महाव्याधयो महारोगाः, अन्तर्मध्ये विषं येषामेवंविधा व्यालाः सर्पाः, विनाशस्य विध्वंसस्य हेतवः कारणानि महोत्पाताः क्षितिकम्पनादिरूपाः, भुजङ्गवत्सर्पवद्वृत्तिर्वर्तनं येषामेवंविधा महावाता एव महावातिकाः स्वार्थे कः । वक्रगामित्वेन भुजङ्गसादृश्यम् । वक्रचारिणः कुटिलगामिनो महाग्रहा राहुप्रभृतयः, तमोमया अन्धकारप्रचुराः प्रदोषा यामिनीमुखानि, मलिनाः कश्मला आत्मानो येषां ते कुलस्यान्चयस्य पांसवो रेणवो दोषजनकाः, निस्नेहाः प्रीतिवर्जिताः खलाः, निर्लज्जा निस्त्रपाः कृपणका निष्कृपाः, निःसंज्ञा हेयोपादेयादिज्ञानविकलाः पशवोऽपि च तिर्यञ्चोऽपि च, अकाष्ठा दहना वह्नयः, निर्गुणा औदार्यादिगुणरहिता जालिनो वागुरिकाः, अतीर्था उत्तरणमार्गविकला जलाशयाः पानीयस्थानानि, निर्गौरवा महत्त्ववर्जिताः खरप्रकृतयः कठिनस्वभावाः, अशिवमूर्तयोऽकल्याणमूर्तयो महाविनायकैर्महाविघ्नैरधिष्ठिताः । इयं विरोधोक्तिः । येऽशिर्वमूर्तयो भवन्ति ते महाविनायकाधिष्ठिता न भवन्तीति महाविरोधः । एते सर्वेऽपि स्वयमेवात्मनैवोत्पद्यन्ते जायन्ते । तथा वैशम्पायनोऽपि, नतु मददृष्टस्य कारणतेत्यर्थः । ये जनाः कृपाणा इव खङ्गा इव सकलङ्काः । जनपक्षे जनापवादाश्रयाः, खङ्गपक्षे सचिह्नाः । स्नेहेनैव प्रेम्णा तैलादिना च पारुष्यं कठिनतां भजन्त आश्रयन्ति । 'स्नेहस्तैलादिकरसद्रव्ये स्यात्सौहृदेऽपि च' इति विश्वः । करिकपोला इव हस्तिगल्लात्परदेशा इव मलिनस्वभावाः कश्मलप्रकृतयः । दानेनैव मदेनैव । पक्षे वितरणेनैव । मलिनतरतामतिकृष्णतामापद्यन्ते प्राप्नुवन्ति । 'दानं गजमदे त्यागे' इति विश्वः । निर्वर्तयो वर्तिरहिता मणि - टिप्पo - 1 ये निर्गुणाः (गुण ( सूत्र ) रहिताः) ते जालिनः (जालयुक्ताः ) कथं भवेयुः, जाले सूत्राणामपेक्षितत्वात् इति विरोधः । एते तु गुण (विनयादि) रहिताः जालिनः कपटकारिणश्च । 2 शिवमूर्तिभिन्नाः । पाठा० - १ अवबोधनीयः २ असंभवाः ३ क्षपणकाः. *** 570 कादम्बरी । कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy