SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रदीपा इव प्रसादेनैव ज्वलन्ति । अङ्गलग्ना भुजङ्गा इव दाक्षिण्यपरिग्रहेणैवेतरे वामाः संजायन्ते । गुणमुक्ताः सायका इव सपक्षाश्रयेण फलेनैव दूरं विक्षिप्यन्ते । सरागाः पल्लवा इव दिवसारूढ्यैवापरज्यन्ते । भूतिपरामृष्टा दर्पणा इवाभिमुखेन सर्वं प्रतीपं गृह्णन्ति । अन्तरस्वच्छवृत्तयः सलिलाशया इव गाढावगाहनेनैव कालुष्यमुपयान्ति । ये च स्निग्धेष्वपि रूक्षाः, ऋजुष्वपि वक्राः, साधुष्वप्यसाधवः, गुणवत्स्वपि दुष्टप्रकृतयः, भर्तर्यप्यभृत्यात्मानः, रागिष्वपि क्रुद्धाः, निरीहादप्यादित्सवः, मित्रेष्वपि द्रोहिणः, विश्वस्तानामपि घातकाः, भीतेष्वपि प्रहारिणः, प्रीतिपरेष्वपि द्वेषिणः, विनीतेष्वप्युद्धताः, दयापरेष्वपि निर्दयाः, स्त्रीष्वपि शूराः भृत्येष्वपि क्रूराः, दीनेष्वपि दारुणाः । येषां च विपरीतानां गुरव एव लघवः, - *********** प्रदीपा इव रत्नसदृशेन्धना इव प्रसादेनैव प्रसन्नतयैव ज्वलन्ति दीप्यन्ते । 'प्रसादोऽनुग्रहे काव्यप्राणस्वास्थ्यप्रसत्तिषु' इति विश्वः । अङ्गलग्नाः शरीरसंसृष्टा भुजङ्गा इव सर्पा इव । इतरे पामरजना वामाः प्रतिकूलाः संजायन्ते । केन । दाक्षिण्यं लज्जा तेन परिग्रहः स्वीकारस्तेनेव । गुणः प्रत्यञ्चा औदार्यादिश्च । 'गुणः प्रदानरूपादौ मौर्यां सूदे वृकोदरे' इति विश्वः । ताभ्यां मुक्ता रहिताः सायका इव बाणा इव सह पक्षेण पिच्छेन स्वजनवर्गेण च वर्तमानः सहितः सपक्षः । स एवाश्रयो यस्यैवंभूतेन फलेन लोहादिमयेन साध्येन च । दूरं विक्षिप्यन्ते विकीर्यन्ते । ‘पक्षो मासार्धके पार्चे ग्रहे साध्यविरोधयोः । केशादेः परतो वृन्दे बले सखिसहायके' इति विश्वः । रागो रक्तिमा प्रीतिश्च ताभ्यां सहवर्तमानाः सरागाः पल्लवा इव किसलया इव दिवसारूढ्यैव दिनवृद्धैवापरज्यन्ते विरक्तीभवन्ति । 'रागोऽनुरक्ते मात्सर्ये क्लेशादौ लोहितादिषु' इति विश्वः । भूतिभस्म संपच्च ताभ्यां परामृष्टा आलिङ्गिता दर्पणा इवादर्शा इव । आभिमुख्येन संमुखत्वेन हेतुना सर्वं प्रतीपं पराङ्मुखं गृह्णन्ति ग्रहणं कुर्वन्ति । 'भूतिर्मातङ्गश्रृङ्गारे जातौ भस्मनि संपदि' इति विश्वः । 'वाम प्रसव्यं प्रतीपं प्रतिलोममपष्टु च इति हैमः । अन्तरे विचाले स्वच्छा निर्मला वृत्तिर्येषामेवंविधाः सलिलाशया इव पानीयाश्रया इव गाढमत्यर्थमवगाहनेनैवावलोकनेनैवातिपरिचयेनैवं च कालुष्यं कलुषतामुपयान्ति गच्छन्ति । ये च स्निग्धेष्वपि स्नेहलेष्वपि रूक्षा अस्निग्धाः, ऋजुष्वपि सरलेष्वपि वक्रा वामाः, साधुष्वपि सज्जनेष्वप्यसाधवो दुष्टाः, गुणवत्स्वपि गुणोपयुक्तेष्वपि दुष्टप्रकृतयोऽशुभस्वभावाः, भर्तर्यपि स्वामिन्यप्यभृत्यात्मानोऽसेवकाः, रागिष्वपि रक्तेष्वपि क्रुद्धाः कोपवन्तः, निरीहादपि निःस्पृहादप्यादित्सवो ग्रहणेच्छवः मित्रेष्वपि सुहृत्स्वपि द्रोहिणो द्रोहकर्तारः, विश्वस्तानामपि विश्वासप्रतिपनानामपि घातका हिंसकाः, भीतेष्वपि त्रस्तेष्वपि प्रहारिणः प्रहारकारिणः, प्रीतिपरेष्वपि स्नेहपरेष्वपि द्वेषिणो द्वेषवन्तः, विनीतेष्वपि विनयवत्स्वप्युद्धता दुर्विनीताः, दयापरेष्वपि कृपातत्परेष्वपि निर्दया निःकृपाः, स्त्रीष्वपि प्रमदास्वपि शूराः सुभटाः, भृत्येष्वपि सेवकेष्वपि क्रूराश्चण्डाः, दीनेष्वपि दुःखितेष्वपि दारुणा भीषणाः । येषां चेति । येषां विपरीतानां वामवृत्तीनां गुरुव एव - - - - टिप्प० - 1 मणिरूपाः प्रदीपाः प्रसादेन स्वच्छतया ज्वलन्तीत्यर्थो बोध्यो विवेकिभिः । 2 'अङ्गलग्ना भुजा इव' इत्येव पाठः । अङ्गसंबद्धा भुजा यथा एकस्य दाक्षिण्य (दक्षिणत्व) व्यपदेशेन तदितरे अपरे भुजाः वामा वामभागवर्तिनो जायन्ते, तथैव इतरे पामरजनाः सारल्यस्वीकारेण प्रतीकूला जायन्ते । 3 अन्तः अभ्यन्तरे अस्वच्छा कलुषा सपका च वृत्तिर्येषां ते सलिलाशया इव गाढावगाहनेन अतिप्रणयेन अतिविलोडनेन च कालुष्यं मालिन्यम् आविलत्वं च भजन्त इत्यर्थः । पाटा० - १ भुजाः. २ निक्षिप्यन्ते. शुक०चन्द्रा०प्रशंसा, वैश०तिरस्कारः उत्तरभागः ।
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy