SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नीचा एवोच्चैः, अगम्या एव गम्याः, कुदृष्टिरेव सदर्शनम्, अकार्यमेव कार्यम्, अन्याय एव न्यायः, अस्थितिरेव स्थितिः, अनाचार एवाचारः, अयुक्तमेव युक्तम्, अविद्यैव विद्या, अविनय एव विनयः, दौःशील्यमेव सुशीलता, अधर्म एव धर्मः, अनृतमेव सत्यम् । येषां च क्षुद्राणां प्रज्ञा पराभिसंधानाय न ज्ञानाय श्रुतम्, पराक्रमः प्राणिनामुपघाताय नोपकाराय, उत्साहो धनार्जनाय न यशसे, स्थैर्य व्यसनासङ्गाय न चिरसंगताय, धनपरित्यागः कामाय न धर्माय । किं बहुना सर्वमेव येषां दोषाय न गुणाय । तदसावपीदृश एक कोऽप्यपुण्यवानुत्पन्नो यस्यैवं कुर्वतो मित्रमहं चन्द्रापीडस्य कथं तस्य द्रोहमाचरामीति नोत्पन्न चेतसि । एवं कृते चलितवृत्तानां शासिताऽवश्यं तारापीडो देवः पीडितान्तरात्मा मयि कोपं करिष्यतीत्येवमपि नाशङ्कितं मनसा । मातुरहमेवैको जीवितनिबन्धनम्, कथं मया विना वर्तिष्यत इत्येतस्य नृशंसस्य हृदये नापतितम् । पिण्डप्रदोवंशसंतानार्थमहमुत्पादितः पित्रों कथमननुज्ञातस्तेन सर्वपरित्यागं करोमीत्येतदपि यथाजातस्य - *********** शास्तार एव लघवो लघिष्ठाः, नीचा एवाधोवर्तिन एवोच्चैरुच्चाः, अगम्या एवासेव्या एव गम्याः सेव्याः, कुदृष्टिरेव कुदर्शनमेव सद्दर्शन शोभनतमम्, अकार्यमेवाकृत्यमेव कार्यं कृत्यम्, अन्याय एवानीतिरेव न्यायो नीतिः, अस्थितिरेवामर्यादैव स्थितिमर्यादा, अनाचार एवानाचरणमेवाचार आचरणम्, अयुक्तमेवान्याय्यमेव युक्तं न्याय्यम्, अविद्यैवाज्ञानमेव विद्या ज्ञानम्, अविनय एवाप्रश्रय एव विनयः, दौःशील्यमेव दुःस्वभाव एव सुशीलता सुस्वभावता, अधर्म एवापुण्यमेव धर्मो वृषः, अनृतमेवासत्यमेव सत्यं सूनृतम् । येषां च क्षुद्राणां तुच्छबुद्धीनां श्रुतं ज्ञानं प्रज्ञा प्रतिभा तस्यां पर उत्कृष्ट इत्यभिसंधानाय ज्ञानाय न ज्ञापनाय तत्त्वज्ञानाय, पराक्रमो बलं प्राणिनामुपघाताय विनाशाय नोपकाराय नोपकृतये, उत्साहः प्रगल्भता धनार्जनाय द्रव्यार्जनाय न यशसे न श्लोकाय, स्थैर्य स्थिरता व्यसनानि मद्यादीनि तेषामासङ्गायासक्तये न चिरसंगताय न चिरमैत्रीहेतवे, धनपरित्यागो धनविसर्जनं कामाय मैथुनाय न धर्माय न सुकृताय । किं बहुना किं बहूक्तेन येषां दुरात्मनां सर्वमेव दोषाय वैगुण्याय न गुणाय हिताय । तत्तस्माद्धेतोरसावपि वैशम्पायन ईदृश एव पूर्वोक्तसदृश एव कोऽप्यपुण्यवान्पापवानुत्पन्नः संजातः, यस्य वैशम्पायनस्यैवं कुर्वतश्चन्द्रापीडस्याहं मित्रं तस्य चन्द्रापीडस्य कथं द्रोहमाचरामि कुर्वे इति चेतसि नोत्पन्नं नागतम् । एवं कृते सति चलितवृत्तानां भ्रष्टाचाराणां शासिता शिक्षादायकस्तारापीडो देवोऽवश्यं पीडितान्तरात्मा संतापितस्वान्तो मयि विषये कोपं करिष्यति विधास्यतीत्येवमपि मनसा हृदयेन नाशङ्कितं नारेकितम् । मातुर्मनोरमाया जीवितनिबन्धनं प्राणितदानमहमेक एव । कथं तर्हि मया विना मद्व्यतिरेकेण वर्तिष्यते वर्तनं करिष्यतीत्येतस्य वैशंपायनस्य नृशंसस्य निर्दयस्य हृदये चेतसि नापतितं नागतम् । वंशसंतानार्थमन्वयपरम्परायै अहं वैशम्पायनः पिण्डप्रदः पित्रा जनकेनोत्पादितो निष्पादितस्तेन पित्राननुज्ञातोऽदत्ताज्ञः सर्वपरित्यागं (कथम्) करोमि प्रण - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 प्रज्ञा श्रुतं चेत्येकस्मिन्वाक्ये न संगृहीतम् । 'न ज्ञानाय एतदुत्तरम् 'श्रुतं मायाजालाय, नोपशमाय । इति पाठः । शास्त्रज्ञानं कपटप्रपञ्चाय न शान्तये, इति तदर्थः । 2 जीवितस्य निबन्धनं कारणमिति भावः । पाटा० - १ तेषाम्. २ ज्ञानं पराति. ३ मायाजालाय; मालजालाय. ४ अपुण्य एवानुत्पन्नः नोपशमाय. ५ चलितवृत्तीनाम्. ६ पित्राहम्. 572 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy