________________
दुःखमात्मीयं श्रावितम्, सैवाहं मन्दभाग्या महाभाग, जीवितव्यसनिनी निर्लज्जा निघृणा च दुःश्रवणमपि श्रावयामि दुःखमिदम् । श्रूयताम् । केयूरकाद्भवद्गमनमाकर्ण्य विदीर्यमाणमनसा न मया चित्ररथस्य मनोरथः पूरितः, न मदिरायाः प्रार्थना कृता, नात्मनः समीहितं संपादितम्, न गृहाभ्यागतस्य चन्द्रापीडस्य प्रियमनुष्ठितम्, न चापि हृदयवल्लभसमागमनिर्वृता प्रियसखी कादम्बरी वीक्षितेत्युत्पन्नानेकगुणवैराग्या गाढबन्धान्कादम्बरीस्नेहपाशानपि छित्त्वा पुनः कष्टतरतपश्चरणायात्रैवायाता, यावदत्र महाभागस्येव तुल्याकृतिमुन्मुक्तमिवान्तःकरणेन शून्यशरीरमुत्तरलमुखमुत्प्लुताबद्धलक्ष्यशून्यया दृष्ट्या प्रणष्टमिव किमपीतस्ततो विलोकयन्तं ब्राह्मणयुवानमपश्यम् । स तु मामुपसृत्यानन्यदृष्टिदृष्टपूर्वोऽपि प्रत्यभिजाननिव, असंस्तुतोऽपि चिरपरिचित इव, असंभावितोऽप्युपारूढप्रौढप्रणय इव, अस्निग्धोऽपि परवानिव, प्रेम्णा शून्योऽपि किमप्यनुस्मरनिव, दुःखिताकारोऽपि -
***********
स्वकीयं दुःखमसातं श्रावितं श्रवणगोचरीकारितम् । हे महाभाग, सैवाहं मन्दभाग्या हीनादृष्टा जीवितव्ये व्यसनमासक्तिर्यस्याः सा तथा निर्लज्जा निस्त्रपा निघृणा निष्करुणा चेदं दुःखं दुष्टं श्रवणमाकर्णनं यस्येति दुःश्रवणमेतादृशमपि श्रावयामि श्रुतिगोचरीकारयामि श्रूयतामाकर्ण्यतामिति । केयूरकाद्भवद्गमनं तव प्रस्थानमाकर्ण्य विदीर्यमाणं मनो मानसं यस्याः तया । स्फुटमानहृदययेत्यर्थः । मया महाश्वेतया चित्ररथस्य पितुर्मनोरथोऽभिलाषो न पूरितो न पूर्णीकृतः । नापि मदिराया मातुः प्रार्थना याञ्चा कृता । नात्मनः स्वकीयस्य समीहितं वाञ्छितं संपादितं निष्पादितम् । न गृहाभ्यागतस्य स्वकीयसदनागतस्य चन्द्रापीडस्य प्रियमिष्टमनुष्ठितमादरितम् । न चापि हृदयस्य चेतसो वल्लभो जनस्तस्य समागमेन निर्वृता संजातसंतोषा, एतादृशी प्रियसखी वल्लभवयस्या कादम्बरी वीक्षिता विलोकितेति हेतोरुत्पन्न प्रादुर्भूतं यदनेकगुणमुत्कृष्टं वैराग्यं विरागता तस्यासमन्ताद्गाढबन्धोऽत्युग्रग्रन्थिस्तस्मात्कादम्बरीस्नेहपाशानपि छित्त्वा छेदं विधाय पुनर्द्धितीयवार कष्टतरमत्युग्रतरं यत्तपश्चान्द्रायणादि तस्य चरणायासेवनायात्रैव गुम्फायामेव यावत् आयातागता तावत्, अत्र महाभागस्य भवतस्तुल्याकृति सदृशाकारमन्तःकरणेन चित्तेनोन्मुक्तमिव त्यक्तमिव, अत एव शून्यशरीरमिन्द्रियव्यापाररहितदेहमुत्तरलमुखमुत्कम्यं मुखं यस्य स तमुत्प्लुतमुत्पतितमाबद्धं यल्लक्ष्यं वेध्यं तेन शून्यया निरवधानया दृष्ट्या दृशा प्रणष्टमिव गतमिव किमपि किंचिदितस्ततोऽपि विलोकयन्तं पश्यन्तं ब्राह्मणयुवानमपश्यं व्यलोकयम् । स तु मामुपसृत्य मत्समीपमागत्य नान्यस्मिन्दृष्टिर्यस्य स तथादृष्टपूर्वोऽप्यनिरीक्षितपूर्वोऽपि प्रत्यभिजानन्निव सोऽयं देवदत्त इति प्रत्यभिज्ञानप्रत्यक्षेणावगच्छनिव, असंस्तुतोऽप्यपरिचितोऽपि चिरपरिचित इव बहुकालविहितपरिचितिरिव, असंभावितोऽप्यसंभावनाविषयीकृतोऽप्युपारूढोऽङ्कुरितः प्रौढो महान्प्रणयः स्नेहो यस्मिनेतादृश इव, अस्निग्धोऽप्यवत्सलोऽपि परवानिव पराधीन इव । 'परतन्त्रः पराधीनः परवानाथवानपि' इत्यमरः । प्रेम्णा स्नेहेन शून्योऽपि किमप्यनुस्मरन्निव किंचित्स्मृतिगोचरीकुर्वनिव, दुःखितो दुःखं प्राप्त आकारो यस्यैवंविधोऽपि सुखमिवाचरतीति सुखायते -
- - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चित्ररथ-मदिरे कादम्बर्याः पिता च माता च । 2 यस्याः सा, ईदृश्यहमिति व्याख्यातव्यम् । 3 गाढो बन्धो येषाम् अतिनिबिडो ग्रन्थिर्येषां तान्, इति व्याख्या बोद्धव्या । 4 उत्प्लुता बाष्पाच्छन्ना, अबद्धलक्ष्या (अस्थिरा) निर्विषया या (दृष्टिः) तया । 5 सुखं वेदयनिवेति सुखायमान इव, सुखं मम संजातमिति प्रकटयनिवेत्याशयः । 'सुखादिभ्यः कर्तृवेदनायाम्' इति क्यङ् ।
पाठा० - १ निष्करुणापि. २ श्रूयताम्. ३ भवतो गमनम्। भवदागमनम्. ४ विदीर्णमानसा. ५ गृहात्प्रत्यागतस्य. ६ निवृत्ता. ७ भित्त्वा. ८ तुल्यवयसमाकृतिमन्तम्.
HOBaaaaaaaaaaaaM कादम्बरी । MA
कथायाम् )