SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ सुखायमान इव, तूष्णीमपि स्थितः प्रार्थयमान इव, अपृष्टोऽप्यावेदयन्निवात्मीयामेवावस्थाम्, अभिनन्दन्निव, अनुशोचन्निव, हृष्यन्निव, कृष्यन्निव, विषीदन्निव, बिभ्यदिव, अभिभवन्निव, हृत इव, आकाङ्क्षन्निव, अनुस्मरन्निव विस्मृतम्, अनिमेषेण निश्चलस्तब्धपक्ष्मणान्तर्बाष्पपूराद्रेण कर्णान्तचुम्बिना विकसितेनेवामुकुलिततारकेण चक्षुषा मत्त इवाविष्ट इव वियुक्त इव पिबन्निवाकर्षन्निवान्तर्विशन्निव च सुचिरमालोक्याब्रवीत् - ‘वरैतनु, सर्व एव हि जगति जन्मनो वयस आकृतेर्वा सदृशमाचरन्न वचनीयतामेति । तव पुनरेकान्तवामप्रकृतेर्विधेरिव विसदृशानुष्ठाने कोऽयं प्रयत्नः ? यदियमक्लिष्टमालतीसुकुमारा मालेव कण्ठप्रणयैकयोग्या तनुरनुचितेनामुना केष्टतरतपश्चरणपरिक्लेशेन ग्लानिमुपनीयते । रूपवयसोरनुरूपेण सुमनोहारिणी लतेव रसाश्रयिणा फलेन कथं न संयोज्यते । जातस्य हि रूपगुणविहीनस्यापि जन्मोपनतानि जीवलोकसुखान्यनुभूय शोभते परत्रसंबन्धी - वेति सुखायमान इव । तूष्णीमपि स्थितो मौनमाधाय स्थितोऽपि प्रार्थयमान इव याञ्चां कुर्वन्निव । ' तूष्णीकं तु स्मृतं मौने मौनं शीले त्वनव्ययम्' इति विश्वः । अपृष्टोऽप्यप्रश्नीकृतोऽप्यात्मीयां स्वकीयामेवावस्थां दशामावेदयन्निव ज्ञापयन्निव, अभिनन्दन्निव श्लाघां कुर्वन्निव अनुशोचन्निवं शुचं विदधदिव, हृष्यन्निव हर्षन्निव, कृष्यन्निव विलिखन्निव, विषीदन्निव विषादं प्राप्नुवन्निव, बिभ्यदिव भयं प्राप्नुवन्निव, अभिभवन्निव तिरस्कुर्वन्निव, हृत इव मुषित इब, आकाङ्क्षन्निव वाञ्छन्निव, विस्मृतमनुस्मरन्निव, अनिमेषेण निमेषरहितेन निश्चलं निष्कम्पं स्तब्धं पक्ष्म नेत्ररोम यस्य तत्तथा तेनान्तर्बाष्पो मध्यागताश्रु । क्वचित् 'क्षरद्वाष्प' इति पाठः । तस्य पूरः समूहस्तेनार्द्रेणोन्नेन कर्णान्तं श्रोत्रान्तं चुम्बतीत्येवंशीलेन कर्णान्तचुम्बिना । अत एव विकसितेनेव विनिद्रेणेवामुकुलिता कुड्मलिता तारका कनीनिका यस्मिंस्तत्तथा तेन । एवंविधेन चक्षुषा नेत्रेण मत्त इव क्षीब इव, आविष्ट इव भूतग्रस्त इव, वियुक्त इव विभिन्न इव, पिबन्निव पानं कुर्वन्निव । अत्यादरेणावलोकनं पानमिति प्राञ्चः । आकर्षन्निवाकर्षणं कुर्वन्निव, अन्तर्विशन्निव मध्ये प्रवेशं विदधदिव च, सुचिरं बहुकालमालोक्य निरीक्ष्याब्रवीदवोचत् । *** हे वरनु प्रशस्तदे, सर्व एव हि जनो जगति लोके जन्मन उत्पत्तेर्वयसोऽवस्थाया आकृते रूपस्य वा सदृशमनुरूपमाचरन्कुर्वाणो न वचनीयतां निन्द्यतामेति गच्छति । तव भवत्याः पुनरेकान्तेन निश्चयेन वामा प्रतिकूला प्रकृतिः स्वभावो यस्यैवंभूर्तस्य विधेरिव विधा विसदृशानुष्ठानेऽसदृशाचरणे कोऽयं प्रयत्नः प्रयासः । यद्यस्मादियं तनुः शरीरमक्लिष्टाऽव्यथिता या मालती जातिस्तद्वत्सुकुमारा सुकोमला मालेव सगिव कण्ठे यः प्रणयो रक्षणस्नेहस्तत्रैकाद्वितीया केवलं वा योग्योचिताऽमुनानुचितेनायोग्येन कष्टतरं यत्तपश्चरणं तस्य परिक्लेशः परिश्रमस्तेन ग्लानिं ग्लानिमुपनीयते प्राप्यते । रूपं सौन्दर्यं वयोऽवस्थाविशेषस्तयोरनुरूपेण योग्येन रसं माधुर्यादिर्लक्षणमाश्रयतीत्येवंशीलेन फलेन साध्येन कथं न संयोज्यते संयुक्तीक्रियते । केव । लतेव वल्लीव । यथा लता फलेन संयोज्यते । उभयोः साम्यमाह - • सुमनोहारिणी सुमनसः पुष्पाणि ताभिर्हारिणी रुचिरा तनुः । पक्षे सुमनसः सज्जनास्तेषां हारिणी मनोज्ञा । हि यस्मात्कारणाद्रूपगुणादिविहीनस्यापि सौन्दर्यगुणरहितस्यापि जातस्योत्पन्नस्य जन्तोर्जन्मन्युपनतानि प्राप्तानि जीवलोकसुखानि सांसारिकसौख्यान्यनुभूय - टिप्प० - 1 यथा विधिर्वामस्वभावस्तथा त्वमपि विलासपरित्यागात् वयसोननुरूपस्य तपसश्चाचरणात् वामस्वभावेत्युपमा । 2 रसाश्रयिणा रसाधिष्ठानभूतेन (रसिकेन) फलेन यौवनोपभोगस्य फलस्वरूपेण न संयोज्यते तनुरिति स्पष्टीकरणीयम् । पाठा० - १ अभिनिन्दन्. २ क्षरद्वाष्प ३ सुतनु. ४ विधोः ५ कष्टतमेन तपश्चरण ६ ग्लानिम् ७ फलसंबन्धी. (तस्या वैशम्पायनवृत्तकथनम् उत्तरभागः । 609
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy