SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ तत्र च प्रविशन्त्रेवावतीर्य महाश्वेतावलोकनकुतूहलात्पश्चादाकृष्टेनेन्द्रायुधपरिजनेनानुगम्यमानो विवेश । प्रविश्य च गुहाद्वार एव धवलशिलातले समुपविष्टामधोमुखीमसह्यमन्युवेगोत्कम्पितसर्वावयवामनवरतनयनजलवर्षिणीमुच्चण्डवाताहतां लतामिवोद्वाष्पदीनदृष्ट्या कथंकथमपि तरलिकया विधृतशरीरां महाश्वेतामपश्यत् । दृष्ट्वा च तां तादृशीमस्योदपादि हृदये - ‘मा नाम देव्याः कादम्बर्या एव किमप्यनिष्टमुत्पन्नं भवेत् । येनेयमीदृश्यवस्था हर्षहेतावपि मदागमनेऽनुभूयते महाश्वेतया ।' इत्याशङ्काभिन्नहृदयोऽयमुड्डीनैरिव प्राणैः पदे पदे स्खलन्निव पतन्निव मुह्यन्निवोपसृत्योपविश्य च तस्यैव शिलातलस्यैकदेशे प्रोद्वाष्पविषण्णवदनः किमेतदिति तरलिकामपृच्छत् । सा तु तथावस्थाया अपि महाश्वेताया एव मुखमवलोकितवती । कैिमियमावेदयति अथानुपसंहृतमन्युवेगापि गद्गदिकावगृह्यमाणकण्ठा महाश्वेतैव प्रत्यवादीत् - "महाभाग, वराकी । यया दुःखाभिघातैककठिनहृदयया पुर्नरप्यदुःखश्रवणार्हेऽपि - तत्र च तदाश्रमे प्रविशन्त्रेव प्रवेशं कुर्वन्नेवावतीर्यावतरणं कृत्वा । अश्वादिति शेषः । महाश्वेताया अवलोकनं निरीक्षणं तस्मिन्यत्कुतूहलमाश्चर्यं तस्मात्पश्चादाकृष्टेनाकर्षितेनेन्द्रायुधस्य परिजनः परिच्छदस्तेनानुगम्यमानोऽनुयायमानो विवेश प्रवेशं कृतवान् । प्रविश्य च प्रवेशं कृत्वा च गुहाद्वारे या धवलशिला तस्यास्तले समुपविष्टां निषण्णामधोमुखीं नीचैर्मुखीं महाश्वेतामपश्यद् व्यलोकयत् । कीदृशीम् । असह्यो विसोढुमशक्यो यो मन्युः क्रोधः शोको वा । 'मन्युशोकौ तु शुक् स्त्रियाम्' इत्यमरः । तस्य वेगो रयस्तेनोत्कम्पिता उच्चलिताः सर्वावयवाः समग्रापघना यस्याः सा ताम् । अनवरतं निरन्तरं नयनजलं नेत्राम्बु वर्षतीत्येवंशीला सा ताम् । अत एवोटप्रेक्ष्यते - उच्चण्डोऽत्युग्रो यो वातो वायुस्तेनाहतां ताडितां लतामिव । ‘उच्चण्डस्त्वतिकोपनः' इति हैमः । उद्बाष्पोद्गताश्रुरेवंविधा दीना दुःखिता दृष्टिर्दृग्यस्या एतादृश्या तरलिकया कथंकथमपि महता कष्टेन विधृतं धारितं शरीरं यस्याः सा ताम् दृष्ट्वा च निरीक्ष्य च तादृशीं तथावस्थां महाश्वेताम् अस्य चन्द्रापीडस्य हृदय उदपाद्युत्पन्नम् । तदेव प्रकटयन्नाह - नामेति कोमलामन्त्रणे । देव्याः कादम्वर्या एव किमप्यनिर्दिष्टनामकमनिष्टमशिवमुत्पन्नं प्रादुर्भूतं भवेत् । येन हेतुनेयं प्रत्यक्षोपलभ्येदृश्येतत्प्रकारावस्था दशा महाश्वेतया हर्षहेतावपि प्रमोदनिदानभूतेऽपि मदागमने अनुभूयतेऽनुभवविषयीक्रियते इत्याशङ्कारेका तया भिन्नं विदीर्णं हृदयं चेतो यस्यैवंभूतोऽयं चन्द्रापीड उड्डीनैरिवोड्डीयगतैरिव प्राणैरसुभिरत एव पदे पदे स्खलन्निव स्खलनां प्राप्नुवन्निव, पतन्निव, भ्रश्यन्निव, मुह्यन्निव मोहं गच्छन्निव, उपसृत्य समीप आगत्य तस्यैव शिलातलस्यैकदेश एकप्रदेश उपविश्य च प्रोद्बोष्पेण प्रकृष्टाश्रुणा विषण्णं विलक्षं वदनमाननं यस्यैवंभूतः किमेतदिति तरलिकामपृच्छदप्रश्नयत् । सा तरलिका । तु पुनरर्थे । तथावस्थाया अपि तथाविधदुःखदग्धाया अपि महाश्वेताया एव मुखमाननमवलोकितवती निरीक्षितवती । अथेति । तदनन्तरम् । अनुपसंहृतोऽदूरीकृतो मन्युवेगो यया सैवंविधापि गद्गदिकया गद्गदध्वनिनावगृह्यमाणो रुध्यमानः कण्टो यस्याः सा महाश्वेतैव प्रत्यवादीत्प्रत्यब्रवीत् । हे महाभाग, किमियं वराकी शोचनार्हा । ' वराकः संगरे शोच्ये' इति विश्वः । आवेदयति कथयति । दुःखस्याभिघातः प्रहारस्तेनैकमद्वितीयं कठिनं कठोरं हृदयं भुजान्तरं यस्या एवंविधया यया मया पुनरप्यदुःखश्रवणीर्हेऽपि दुःखं श्रोतुमयोग्येऽप्यात्मीयं - टिप्पo - 1 प्रोद्वाष्पः प्रकृष्टाश्रुरित्येवोचितम् । 2 'अदुःखश्रवणार्हः' इति प्रथमान्तमेवोचितम् । पाटा० - १ तत्र च प्रवेश एव; तत्राप्रविशत्रेव २ इन्द्रायुधेन परिजनेन च; इन्द्रायुधेन परिजनेन राजपुत्रैश्च. ३ किमिति नावेदयते; किमपि नावेदयते ४ पुनरदुःखश्रवणार्होऽप्यात्मीयदुःखं प्रापितः पुनरप्यदुःखश्रवणार्होऽप्यात्मीयदुःखं श्रावितः महाश्वेताश्रमे गमनम् उत्तरभागः । 607
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy