SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ समासादितेन चात्र कथं मया वदनं दर्शयितव्यम्, पृष्टेन वा किमुत्तरं दातव्यम् ? अथापि कथंचिदेवनियोगानिःसृतोऽस्मि, तथाप्यनायासनीयं तातमेवं महीयस्यायासे, तातप्रसादाददृष्टदुःखामम्बां वा निजापक्रमणशोकार्णवे पातयता किं कृतं भवत्यपुण्यवता ? अपि च सुबहुदिवसप्रवासोपतप्तः स्कन्धावारोऽपि मेऽद्यापि न परापतति, तेनापरसंविधानादर्धपथादेव निवृत्य पुनः प्रेधावितव्यम् । अथावेद्य तातस्याम्बायाश्च ताभ्यां च विसर्जितः संविधानेन गच्छामि, तत्रापि किमिति कथयामि - 'मम स्नेहँदुःखिता गन्धर्वराजपुत्री कादम्बरी मामुद्दिश्य मकरकेतुनायास्यमाना दुःखं तिष्ठतीति । 'किं वा बलवान्मे तस्यामनुरागः । ने तया विनाहं प्राणान्संधारयामीति । 'कि तस्या मम च द्वयोरपि जीवितनिबन्धनहेतुभूतया महाश्वेतया तत्परिणयनाय मे संदिष्टमिति 'किं वा तद्दुःखमपारयन्सोढुमयं केयूरकस्तद्भक्त्या मामानेतुमागत इति । 'अपरोऽपि वा कश्चिद्व्यपदेशो न शक्यत एव पुनर्गमनाय कर्तुम् । संप्रत्येव समधिकाद्वर्षत्रयात्प्रसाध्य - *********** समासादितेन च पुनः प्राप्तेन च मया कथं वदनं दर्शयितव्यमन्येभ्यः प्रकाशयितव्यम् । पृष्टेन वा प्रश्नविषयीकृतेन मया किमुत्तरं प्रतिवचो दातव्यं प्रदेयम् । अथापीति । अथेति विचारणान्तरे । कथंचिदपि महता कष्टेनापि दैवनियोगाद्विधिनिदेशानिःसृतोऽस्मि निर्गतोऽस्मि । तथापि निःसृतेनाप्येवमनायासनीयमखेदनीयं तातं पितरं महीयस्यत्यन्तदीर्घ आयासे प्रयासे, तातप्रसादात्पितुरनुग्रहाददृष्टदुःखामनवलोकितकृच्छ्रामम्बां मातरं वा निजस्य स्वस्यापक्रमणं निर्गमनं तस्माद्यः शोकः शुक्स एवार्णवः समुद्रस्तस्मिन्पातयताक्षेपयताऽपुण्यवता पापिना मया किं कृतं भवति किमाचरितं स्यात् । अपि चेति । अपि च युक्त्यन्तरे । सुबहवश्च ते दिवसाश्च सुबहुदिवसास्तान्यावत्प्रवासो देशान्तरे स्थितिस्तेनोपतप्तो व्याकुलीकृत एतादृशो मे मम स्कन्धावारोऽपि सैन्यनिवेशोऽप्ययापीदानीमपि न परापतति नागच्छति । तेन हेतुनार्धपथादर्धमार्गानिवृत्य व्याघुट्यापरसंविधानादेपरसैन्यग्रहणाद्धेतोः पुनः कालान्तरे मया प्रधावितव्यम् । त्वरितगत्या गन्तव्यमिति भावः । अथेति विचारान्तरे । तातस्य पितुः, अम्बायाश्च मातुः, आवेद्य निवेद्य ताभ्यां च मातृपितृभ्यां विसर्जितो गमनाय दत्ताज्ञः संविधानेनोत्तमप्रकारेण गच्छामि व्रजामि । तत्रापीति । तत्राप्यावेदने किं किमिति कथयामीति ब्रवीमि । इति वाच्यमाह - ममेति । मम स्नेहेन मन्त्रीत्या दुःखिता दुःखं प्राप्ता गन्धर्वराजपुत्री देवगायननृपाङ्गजा कादम्बरी मां चन्द्रापीडमुद्दिश्याश्रित्य मकरकेतुना कंदर्पणायास्यमाना खेदं प्राप्यमाणा दुःखं यथा स्यात्तथा तिष्ठति निषीदति । 'किंवा बलवान्' इत्यारभ्य ‘महाश्वेतया तत्परिणयनाय मे संदिष्टम्' इत्यन्तं स्पष्टम् । किं वेति । किंवा इति कथयामीति पूर्वेण संबन्धः । इति किम् । तद्दुःखं कादम्बर्या दुःखं सोढुं तितिक्षितुमपारयन्नशक्नुवन् । अयं प्रत्यक्षः केयूरकस्तस्या गन्धर्वपुत्र्या भक्त्यान्तरस्नेहेन मां चन्द्रापीडमानेतुं तत्र प्रापयितुमागतः समायातः । अपरोऽपीति । अपरोऽप्येतद्भिन्नोऽपि कश्चिदन्यो व्यपदेशो मिषं पुनर्गमनाय कर्तुं न शक्यत एव न पार्यत एव । संप्रत्येति । सांप्रतमेव समधिकात्किंचिदधिकवर्षत्रयात्सव - -------- - - - - - टिप्प० -1 सकलराजकसैन्यानुधावनस्य कारणं चन्द्रापीडपलायनमुक्तम् । ततश्च मम पुनः प्रवासे सति अपरसंविधानात् अपरस्मानवीनाद् मम गमनरूपघटनाविशेषात् अर्धमार्गादेव परावर्तमानेन मम स्कन्धावारेण पुनः प्रधावितव्यमित्यर्थः । - - - - - - - - - - - - - - - - - - - पाठा० -१ पातयसि. २ स बहु. ३ धावितव्यम्. ४ स्नेहेन. ५ नानया. ६ किं च. ७ विबन्ध. यात्रार्थं चन्द्रापीडस्य विचारः उत्तरभागः। 1527)
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy