SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ अपसर्पत्स्विवारण्येषु, विस्तार्यमाणास्विव ग्रामसीमासु, उत्तानीभवत्स्विव सलिलाशयेषु, अवच्छिद्यमानेष्विव शिखरिषु, उद्भियमाणायामिव मेदिन्याम्, अदृश्यतामिव यान्तीषु कुमुदिनीषु, तिरोधानकारिणीं नीलतिरस्करिणीमिव करैरुत्सार्य तिमिरमालां विरहविधुरां कमलिनीमिवालोकयितुमुदयगिरिशिखरमारूढे भगवति सप्तलोकैकचक्षुषि सप्तवाहे, विहायस्तलमुद्रास्य दिगन्तराण्युद्धासयन्तीषु सकलजगद्दीपिकासु दिवसकरदीधितिषु, दृष्टिप्रसरक्षमायां वेलायां सहसैवाग्रतोऽर्धगव्यूतिमात्र इव रात्रिप्रयाणकायातम् अन्तःक्षोभभीतेन रसातलेनेवोद्गीर्यमाणम्, असोढसंघातभरया मेदिन्येव विक्षिप्यमाणम्, अपर्याप्तप्रमाणाभिर्दिग्भिरिव संह्रियमाणम्, अपरिमाणरजोनिरोधाशङ्कितेन गीर्वाणवर्त्मनेवावकीर्यमाणम्, अर्कावलोकेनेव सह विस्तीर्यमाणम्, आयासितायततरदृष्टिभिरप्यदृष्टपर्यन्तम्, अनुजीविभूभृच्छतसहस्त्रकल्पिता - *********** यमाणास्विव । तज्ज्ञापकनक्षत्राणां तिरोधानादिति भावः । ग्रामसीमासूपशल्येषु विस्तार्यमाणासु । अरण्येषु वनेष्वपसर्पत्स्विवापसरणीक्रियमाणेष्विव । सलिलाशयेषु जलाश्रयेषुत्तानीभवत्स्विवोझैभवत्स्विव । शिखरिष्वद्रिष्ववच्छिद्यमानेष्विव खण्डशः क्रियमाणेष्विव । मेदिन्यां वसुधायामुध्रियमाणायामिवोत्पाद्यमानायामिव । कुमुदिनीषु कैरविणीष्वदृश्यतामचाक्षुषतां यान्तीष्विव गच्छन्तीष्विव । करैः किरणैस्तिमिरमालामन्धकारश्रेणीमुत्सार्य दूरीकृत्य । कृष्णसाादुटप्रेक्षते - तिरोधानकारिणीमन्तर्धाजनिकां नीलतिरस्करिणीमिव नीलजवनिकामिव । 'प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा' इत्यमरः । विरहविधुरां वियोगविह्वलां कमलिनी पद्मिनीमालोकयितुं विलोकयितुमिवोदयगिरेः पूर्वादः शिखरं सानुमारूढे प्राप्ते भगवति माहात्म्यवति सप्तलोकस्यैकचक्षुरिव चक्षुस्तस्मिन्सप्तवाहास्तुरंगा यस्य स तस्मिन् । सहसकिरण इत्यर्थः । विहायस्तलं व्योम्नस्तलमुद्धास्य प्रकाश्य दिगन्तराणि दिशां विचालान्युद्धासयन्तीषु प्रकाशयन्तीषु सकलजगतां सकलविश्वानां दीपिकासु प्रकाशिकासु दिवसकरस्य सूर्यस्य दीधितिषु कान्तिषु सत्सु । दृष्टिप्रसरे क्षमायां समर्थायां वेलायामवसरे सहसैवैकपद एव । अग्रेति । अग्रतः पुरोऽर्धगव्यूतिमात्रेऽर्धकोशमात्र इव स्कन्धावारं सैन्यमद्राक्षीद्व्यलोकयत् । 'वरूथिनी चमूचक्र स्कन्धावारोऽस्य तु स्थितिः' इति हैमः । इतः स्कन्धावारं विशेषयन्नाह - रात्रीति । रात्रिप्रयाणकेन निशागमनेन आयातमागतम् । अन्तर्मध्ये यः क्षोभस्वासस्तेन भीतं चकितमेवंविधेन रसातलेन वडवामुखेनोद्गीर्यमाणमिवोद्गम्यमानमिव । असोढोऽक्षमितः संघातस्य समुदायस्य भरो ययैवंविधया मेदिन्या वसुधया विक्षिप्यमाणमिवेतस्ततः क्रियमाणमिव । यदि वासोढसंघातभरया मेदिन्येव संक्षिप्यमाणं समासीक्रियमाणम् । अपर्याप्तप्रमाणाभिप्राप्तेयत्ताभिर्दिग्भिः ककुब्भिः संहियमाणमिव संगृह्यमाणमिव । अपरिमाणमसंख्यं यद्रजस्तेन निरोधोऽवकाशरोधस्तेनाशङ्कितेनारेकितेन गीर्वाणवर्त्मनेवाकाशेनेवावकीर्यमाणं विक्षिप्यमाणम् । अर्कावलोकेनेव सूर्यावलोकेनेव सह विस्तीर्यमाणं विस्तारं प्राप्यमाणम् । आयासिता आयासं प्रापिता आयततरा दीर्घतरा या दृष्टयस्ताभिरप्यदृष्टोऽनवलोकितः पर्यन्तः प्रान्तो यस्य तत्तथा । अनुजीविनां सपर्याकारिणां - - - - - - - टिप्प० - 1 इयत्तया गृह्यमाणेष्विव । 2 रसातलेन स्कन्धावारः पूर्वं स्वान्तभृतः, परम् बलानामन्तः क्षोभेन भीतत्वात्स स्कन्धावारस्तेन उद्गीर्णः (उद्वान्तः) इत्याशयः । -- - - - - - - - - - - - - - - - - - - - - पाठा० - १ चावसर्पत्सु; अपसार्यमाणेषु. २ उपयान्तीषु. ३ सप्तलोकचक्षुषि. ४ पर्याप्त. ५ संभ्रियमाणम्. ६ अर्क किरणावलोकेन; अर्ककिरणालोकेन. ७ विस्तीर्णम्. ८ अतिजीव; अनिर्जीव. ९ कलित. 546 कादम्बरी। कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy