________________
वष्टम्भं संचारिणं द्वितीयमिव मेदिनीसंनिवेशम्, अजलवाहिनीप्रवेशगम्भीरं प्राणिमयमपरपारमष्टममिव महासमुद्रम्, उद्रिक्तरजःसंतेतिदूरतया चापरिस्फुटविभाव्यसर्ववृत्तान्तमपीतस्ततो वलितधवलकदलिकोद्भासितानेककरिघटासहससंकुलम् अविरलबलाकावलीविभाजिताम्भोदसंघातं मूर्तिमन्तमिव मेघसमयारम्भम्, आवासभूमिग्रहणसंभ्रमाभिप्रधावितासंख्यकरितुरगनरपरम्परोर्मिसंबाधतया मन्दमन्दरास्फालनलुलितकल्लोलजालाकुलस्य महाजलधेर्लीलया निविशमानं स्कन्धावारमद्राक्षीत् ।
दृष्ट्वा चाकरोच्चेतसि - 'अहो भद्रकं भवति, यद्यचिन्तितागमन एव प्रविश्य वैशम्पायनं पश्यामि' इति । एवं चिन्तयित्वा छत्रचामरादिभिः स्वचिद्वैः सह निवारिताशेषराजपुत्रलोको जवविशेषग्राहिभिस्त्रिचतुरैस्तुरङ्गमैरनुगम्यमानो मूर्धानमावृत्योत्तरीयेण, रयविशेषग्राहिणेन्द्रायुधेन नानाव्यापारव्यग्रसकललोकमचिन्तित एव स्कन्धावारमाससाद । प्रविशंश्च -
***********
भूभृतां राज्ञां पर्वतानां च यच्छतसहसं लक्षं तेन कल्पितोऽवष्टम्भ आश्रयो यस्य तत्तथा । संचारिणं संचरणशीलं द्वितीयमपरं मेदिन्या वसुधायाः संनिवेशमिव रचनाविशेषमिव । न विद्यते जलं यस्यामेवंविधा वाहिनी सेना तस्याः प्रवेशेनागमनेन गम्भीरं गभीरं प्राणिमयं प्राणिभिर्निष्पन्नम् । न विद्यते परः पारो यस्य तत्तथा । अत एवोत्प्रेक्षते - अष्टमं महासमुद्रमिव महाजलधिमिव । उद्रेकाद्रजःसंततेर्दूरस्य भावो दूरता तया चापरिस्फुटोऽप्रकटो विभाव्यो ज्ञेयः सर्ववृत्तान्तोऽखिलोदन्तो यस्मिंस्तत्तथा । एवंविधमपीतस्ततो वलिता वायुना पश्चादलिता या धवलकदलिकाः श्वेतवैजयन्त्यः । 'कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः । ताभिरुद्भासिताः शोभिता एतादृशा अनेके ये करिणो हस्तिनस्तेषां घटाः समुदायास्तासां सहसं तेन संकुलं संकीर्णम् । श्वेतकदलिकासाम्यादुप्रेक्षते - अविरला निबिडा या बलाकावली बिसकण्ठिकाश्रेणिस्तया विभाजितः शोभितोऽम्भोदसंघातो जलदसमूहो यस्मिन्नेवंभूतं मूर्तिमन्तं मेघसमयारम्भमिव जलदकालप्रारम्भमिव । आवासार्थं यद्भूमिग्रहणं तत्र संभ्रमेणाभिप्रधावितास्त्वरितगत्या चलिता असंख्याः संख्यातुमयोग्या ये करितुरगनरा हस्त्यश्वमनुष्यास्तेषां परस्परं मिथ ऊर्मिवत्कल्लोलकवत्संबाध आघातो यस्मिंस्तस्य भावस्तत्ता तया मन्दं शनैर्यन्मन्दरस्य मेरोरास्फालनमासमन्ताद् भ्रमणं तेन लुलितमेकीभूतं कल्लोलजालं तरंगपटलं तेनाकुलस्य व्याकुलीभूतस्य महाजलधेर्महासमुद्रस्य लीलया क्रीडया निविशमानं स्थाप्यमानं सैन्यमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः ।
दृष्वा च विलोक्य च चेतसि चित्तेऽकरोत् । अहो इत्याश्चर्ये । भद्रक क्षेमं भवति जायते, यद्यचिन्तितमतर्कितमागमनं यस्यैवंभूतोऽहं प्रविश्य प्रवेशं कृत्वा वैशम्पायनं पश्याम्यवलोकयामि । एवममुना प्रकारेण चिन्तयित्वा मनसि कृत्वा छत्रचामरादिभिरातपवारणवालव्यजनप्रमुखैः स्वचिद्वै राजलक्ष्मभिः सह सार्धं निवारितः प्रतिषिद्धोऽशेषराजपुत्रलोको येनैवभूतो जवविशेषग्राहिभिर्गतिविशेषगामिभिस्त्रयश्च चत्वारश्च त्रिचतुरास्तैस्तुरङ्गमैरश्चैरनुगम्यमानोऽनुयायमान उत्तरीयेणोपरिवस्त्रेण मूर्धानमुत्तमाङ्गमावृत्याच्छाद्य रयविशेषग्राहिणा जवविशेषगामिनेन्द्रायुधेनाधेन नानाव्यापारेण व्यवहारेण व्यग्रो व्याकुलः सकललोको यस्मिनेवंभूतं स्कन्धावारं सैन्यनिवेशमचिन्तित एवाससाद प्राप्तवान् । प्रविशंश्च प्रवेशं कुर्वंच प्रत्यावासक प्रत्यावासं वहन्नेव व्रजन्नेव कस्मि -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 'उद्रिक्तरजःसंततिपूरतया' इत्येव पाठः । उदिक्तः (अतिशयितः) रजःसंततीनां (धूलिनिवहानाम्) पूरः प्रवाहो यस्मिन् तत्तया, इति तदर्थः । 2 मन्दरास्फालनेऽपि 'मन्दम्' इति कथनं मन्दतैव । 'अमन्दम् (अतिमात्रम्) इत्युचितम् ।
पाठा० - १ जल. २ अपरम्; अपरमपारम्. ३ संततेः पूरतया; संततिपूरतया. ४ बलबलाक. ५ अभिधावित. ६ अमन्द.
(स्कन्धावारदर्शनम् ।
उत्तरभागः।
547