SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ दिश्य, 'यदाज्ञापयति देवः' इति कृतनमस्कृतीत्वरितगमनसंविधानाय निष्क्रान्ते मेघनादे 'देव, किमतःपरं विलम्बेन' इत्यभिधाय, मेघनादनिर्गमानन्तरं गमनप्रणामोत्थितं केयूरक सस्नेहमाहूय, सबाष्पया दृष्ट्या पुनःपुनरालोक्य, परिष्वज्य च सपुलकाभ्यां दोाम्, आत्मकर्णादपनीयानेकवर्णरुचिरं सदेशमिव कर्णाभरणमस्य कर्णे कृत्वा कण्ठागेतबाष्पगद्गदिकागृह्यमाणाक्षरमवादीत् - 'केयूरक, त्वया तु मे देवीसंदेशो नानीत एव । तत्किं तव हस्ते तदनुरूपं संदिशाम्यपूर्वम् ? विज्ञापयितव्या देवी । तत्रापि किमलीकलज्जाजलभारोबहनेन त्वामायासयामि । यात्येव पत्रलेखा देवीपादमूलम् । इयं विज्ञापयिष्यति' इत्यभिदधदेवातर्कितोपनतात्मविरहपीडाम्, अमङ्गलशङ्कया कृतयत्नामपि बाष्पवेगमपारयन्तीं संधारयितुम्, उत्प्लुताबद्धलक्षशून्यदृष्टिसंचारणां चरणपाताभिमुखी पत्रलेखा प्रणयेनाभिमुखो भूत्वा बद्धाञ्जलिरभाषत - 'पत्रलेखे, साञ्जलिबन्धेन शिरसा प्रणम्य मदीयेन विज्ञाप्या - *********** जिभिः । करणे तृतीया । परागतः समागत इति । यदाज्ञापयत्याज्ञां ददाति देव इत्यादिश्य कथयित्वा कृता नमस्कृतिः प्रणामो येनैवंभूते त्वरितं शीघ्रं यद्गमनं यानं तस्य संविधानं करणं तस्मै निष्कान्ते बहिर्निर्गते मेघनादे, हे देव, अतःपरं विलम्बेन किमित्यभिधायोक्त्वा मेघनादनिर्गमादनन्तरमव्यवहितं गमनाय यात्रायै यः प्रणामः प्रणतिस्तस्मा उत्थितं केयूरक सस्नेहं सप्रीति यथा स्यात्तथाहूयाह्वानं कृत्वा सबाष्पया सरोदनजलया दृष्ट्या दृशा पुनःपुनरिवारमालोक्य निरीक्ष्य सपुलकाभ्यां सरोमाञ्चाभ्यां दोर्थ्यां भुजाभ्यां परिष्वज्य चालिङ्ग्य चात्मकर्णात्स्वकीयश्रवणादपनीय दूरीकृत्यानेकवर्णे रक्तपीतादिभी रुचिरं मनोहरम् । अत एवोत्प्रेक्षते - विविधवगैरक्षरै रुचिरं सदेशमिव वाचिकमिव । एवंविधं कर्णाभरणं श्रवणभूषणमस्य केयूरकस्य कर्णे श्रोत्रे कृत्वा कण्ठागतो यो बाष्पो रोदनं तस्माद्या गद्गदिका गद्गदेत्यव्यक्तध्वनिस्तया गृह्यमाणान्युच्चार्यमाणान्यक्षराणि यथा स्यात्तथावादीदवोचत् । किं तदित्याह - केयूरक इति । हे केयूरक, त्वया भवता । तु पुनरर्थे । मे मम देव्याः कादम्बर्याः सदेश उदन्तो नानीत एव न प्रापित एव । तत्तस्माद्धेतोस्तव हस्ते तस्याः कादम्बर्या अनुरूपं योग्यमपूर्वं नवीनं किं संदिशामि प्रतिवाचिकं यच्छामि । देवी कादम्बरी त्वया विज्ञापयितव्या विज्ञप्तिविषयीकार्या । तत्राप्यपूर्वविज्ञापनेऽलीका या लज्जा त्रपा तस्या जालं समूहस्तस्य भारो वीवधस्तस्योद्घहनेन त्वामायासयामि परिश्रममुत्पादयामि । पत्रलेखा देवीपादमूलं कादम्बरीचरणसमीपं यात्येव व्रजत्येव । अत इयमेव विज्ञापयिष्यति विज्ञप्तिं करिष्यति । इत्यभिदधदेवेति कथयन्नेव प्रणयेन स्नेहेनाभिमुखो भूत्वा संमुखीभूय बद्धाञ्जलिः, पत्रलेखामभाषताब्रवीदित्यन्वयः । पत्रलेखां विशेषयन्नाह - अतर्कितेति । अतर्किताऽचिन्तितोपनता प्राप्तात्मनः स्वस्य विरहपीडा वियोगव्यथा यस्याः सा ताम् । पुनः किं कुर्वन्तीम् । अमङ्गलशङ्कयाऽशुभारेकया कृतयत्नामपि विहितोद्यमामपि बाष्पवेगं नेत्राम्बुप्रवाहं संधारयितुं संस्थापयितुमपारयन्तीमशक्नुवन्तीम् । उत्प्लुताबद्धलक्षाऽविषयीकृतविषयात एव शून्या या दृष्टि क् तस्याः संचारणं यस्याः सा ताम् । चरणपातोऽभिवादनं तं प्रत्यभिमुखीं संमुखीम् । किमुवाचेत्याह - पत्रलेखे इति । हे पत्रलेखे, मदीयेन मामकीनेन साञ्जलिबन्धेनाञ्जलिबन्धेन सहवर्तमानेन शिरसोत्तमाङ्गेन प्रणम्य नमस्कृत्य देवी - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'अनुत्फुल्लाबद्धलक्ष्य०' इति पाठः । अनुत्फुल्लम् अविकस्वरम् (अविशदप्रकटनपरत्वादितिभावः), तथा अबद्धलक्ष्यं विषयमलक्ष्यीकृत्य प्रवृत्तम् (विरहदुःखस्यात्यन्तमुत्पीडनात्), अत एव शून्यं निर्विषयं दृष्टिसंचारणं यस्यास्तामिति तदर्थः । - - - - - - - - - - पाठा० - १ यथा. २ निर्गमन. ३ गद्गदिकाक्षरम्. ४ प्रतिसंदिशानि. ५ उत्फुल्ल. (532 कादम्बरी। । कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy