SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ देवी कादम्बरी, येन सर्वखलानां धुरि लेखनीयेन तथा प्रथमदर्शनेऽपि वत्सलत्वात्स्वभावस्य दर्शितप्रसादातिशयां देवीं प्रणामेनाप्यसंभाव्य गच्छता प्रज्ञाजडतया, ज्ञानं मौढ्येन, धीरता तरलत्वेन, स्नेहलता रौक्ष्येण, गौरवं लघुतया, प्रियंवदता पारुष्येण, मृदुहृदयतानैष्ठुर्येण, स्थैर्य चञ्चलतया, दयालुता निस्त्रिंशत्वेन, आर्जवं मायाजालेन, सत्यवादितालीककाकुसंपादनेन, दृढभक्तितावज्ञानेन, पेशलता कौटिल्येन, लज्जा धार्थेन, औदार्यं क्षुद्रतया, दाक्षिण्यममहानुभावतया, प्रश्रयोऽभिमानेन, कृतज्ञता कृतघ्नतया, शीलं पौरोभाग्यतया, सर्वगुणा एवं दोषैः परिवृताः । स कमिवापरं गुणमवलम्ब्य पुनः परिग्रहाय विज्ञापयतु । केन चाङ्गीकरोतु देवी । किमुपदर्शितालीकात्मार्पणेन न प्रतारितं देव्या हृदयमिति, किं प्रकृतिपेशलं हृदयमपहृत्य नापक्रान्तोऽस्मीति, किमियं प्राणसदेहकारिणि निष्करुणेन शरीरावस्था नोपेक्षितेति, किमहमस्या न कारणमित्येतत्सर्वदोषाश्रयेणाप्यनुवृत्त्या चरणावाराधि - *********** कादम्बरी विज्ञाप्या विज्ञप्तिविषयीकार्या । किं तदित्याह - येनेति । स्वभावस्य प्रकृतेर्वत्सलत्वाद्धितकारित्वाप्रथमदर्शनेऽप्याद्यावलोकनेऽपि तथा तेन प्रकारेण दर्शितः प्रकाशितः प्रसादातिशयः प्रसन्नताधिक्यं ययैवंविधां देवीं कादम्बरी प्रणामेनापि नमस्कृत्याप्यसंभाव्यासंभावनाविषयीकृत्य गच्छता व्रजता येन सर्वखलानां समग्रदुर्जनानां धुर्यादौ लेखनीयेन गणनीयेन मया सर्वगुणा ऐश्वर्यादयो दोषैर्वैगुण्यैः परिवृताः । स्वस्वरूपमापादिता इत्यर्थः । तदेव दर्शयन्नाह - प्रज्ञेति । प्रज्ञा प्रतिभा जडतया मूर्खतया, ज्ञानं मौढ्येन मूढतया, धीरता धैर्यं तरलत्वेन तरलतया, स्नेहलता रौक्ष्येण रूक्षतया, गौरवं गुरुता लघुतया लघुत्वेन, प्रियंवदता मिष्टभाषित्वं पारुष्येण काठिन्येन, मृदुहृदयता सकुमारचित्तता नैष्टुर्येण निष्ठुरत्वेन, स्थैर्य स्थिरता चञ्चलतया चाञ्चल्येन, दयालुता कृपालुता निस्त्रिंशत्वेन निष्कृपत्वेन, आर्जवमृजुत्वं मायाजालेन निकृतेर्जालतया, सत्यवादिता अलीकभाषित्वमलीकासत्या या काकुर्वक्रोक्तिस्तस्याः संपादनेन निष्पादनेन, दृढभक्तिता स्थिराराध्यताऽवज्ञानेनावगणनेन, पेशलता हृद्यता कौटिल्येन कुटिलतया, लज्जा त्रपा धायन धृष्टतया, औदार्यमुदारता क्षुद्रतया तुच्छतया, दाक्षिण्यं सरलत्वममहानुभावतयाऽमाहात्म्यतया, प्रश्रयो विनयोऽभिमानेनाहंकृत्या, कृतज्ञता कृतवित्त्वता कृतघ्नतयाऽकृतज्ञतया, शीलमाचारः पौरोभाग्यतया दोषैकदृक्तया । ‘दोषैकदृक्पुरोभागी निकृतस्त्वनृजुः शठः' इत्यमरः । सर्वगुणा एव दोषैः परिवृता इत्यन्वयस्तु प्रागेवोक्तः । स इति । स चन्द्रापीडः कमिव कथमिव कथमपरं पूर्वोक्तगुणेभ्यो भिन्नं गुणमवलम्ब्यावलम्बनीकृत्य पुनर्द्धितीयवारं परिग्रहाय स्वीकाराय विज्ञापयतु विज्ञप्ति कारयतु । केन च गुणेन देवी कादम्बर्यङ्गीकरोतु स्वीकरोतु । मामिति शेषः । किमिति । उपदर्शितं यन्मिथ्यात्मार्पणमलीकं मिथ्यात्मनोऽर्पणं प्रदानं तेन देव्याः कादम्बर्या हृदयं चेतः किं न प्रतारितं न वञ्चितमिति । प्रकृत्या स्वभावेन पेशलं हृद्यं हृदयमपहृत्याहृत्य किं नापक्रान्तोऽस्मि न गतोऽस्मीति । इयं प्राणसदेहकारिणी शरीरावस्था देहदशा निष्करुणेन निष्कृपेण किं नोपेक्षितोपेक्षाविषयीकृता । अहं किमस्या अवस्थाया न कारणं न निदानमित्येतत्सर्वदोषाश्रयेणापि सर्ववैगुण्याधारभूतेनाप्यनुवृत्त्यानुकूल्येन चरणौ पादावाराधितौ सेविताविति वा । तदेवमात्मना सर्वप्रकारेण सर्वगुणहीनस्यापि समग्रगुण - - - - - - - - - - - - टिप्प० - 1 'परिवर्तिताः' इत्यपि पाठः । प्रज्ञा जडतया परिवर्तिता, ज्ञानं मौढ्येन परिवर्तितम, इत्यादि लिङ्गवचनव्यत्ययेन योजनीयम् । यस्मिन् स्थिता प्रतिभा पर्यवसाने जडतारूपेण परिणतेत्येव सर्वत्र तात्पर्य बोध्यम् । 2 स्नेह लातीति स्नेहलः तद्भावः स्नेहलता, स्निग्धता । 3 देव्याः कादम्बर्या इत्यर्थः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ येन सर्वाभिलाषणीयेन तथा. २ प्रथमदर्शनेन. ३ असंभाव्यागच्छता सर्वखलानां धुरि लेखनीयेन प्रज्ञा. ४ तारल्येन. ५ धैर्य भीरुतया दयालुता. ६ मायामन्त्रेण. ७ पौरोभाग्येन. ८ एवम्. ९ परिवर्तिताः; परावृत्ताः. १० वा. ११ अस्याः संदिशामि न कारणम्. १२ अन्तर. (कादम्बर्यर्थं पत्रलेखायै संदेशः उत्तरभागः। 533
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy