________________
ताविति वा । तदेवंमात्मना सर्वगुणहीनंस्यापि मे देवीगुणा एवावलम्बनम् । इयमेव ते स्वभावसरसा दूरस्थैि मदनहुतभुजा दह्यमानं रक्षत्येव सरलता, मुहुर्मुहुराह्वयत्येव स्नेहलता, आनयत्वेव स्थिरप्रतिज्ञता, ढौकयत्येव दक्षिणता, अभिपद्यत एव वत्सलता, चरणपतितं न निर्भर्त्सयत्येव मृदुहृदयता, उत्थाप्य संभावयत्येव महानुभावता, आलपत्येव प्रियवादिता, ददात्येव हृदयेऽवकाशमत्युदारता । यच्च तथापि गत्वा निर्लज्जहृदयः पुनर्वदनदर्शनदानसाहसमङ्गीकरोमि, अत्रापि सत्प्रकृतयो देवीप्रसादा एव कारणम् । एते हि विशदत्वादुदारभावात्संगतत्वाच्च क्षणपरिचिता अपि समारोपितजीवितप्रत्याशा न किंचिन्न कारयन्ति । स्मारयन्ति सेव्यताम्, देव्याश्चरणपरिचर्यायै समुत्साहयन्ति, शिक्षयन्ति सेवाचातुर्यम् उपदिशन्त्याराधनोपायान्, चाटुकारो भवेत्यसकृदाज्ञापयन्ति, एवं स्थीयतामिति स्वयमेवोपदर्शयन्ति, मुखावलोकिनामकालोपसर्पणकोपेऽनुनयन्ति, परितोषावसरेऽनुगृह्णन्ति गुणानुवादेन, लज्जापसृतं हटादाकृष्योपसर्पयन्ति, नान्यत्र क्षणमपि ददत्यवस्थातुम् ।
***
रहितस्यापि मे मम देवीगुणा एव कादम्बरीगुणा एवावलम्बनमाश्रयः । इयमिति । इयमेव ते तव स्वभावेन प्रकृत्या सरसी स्निग्धा दूरस्थमपि दविष्ठमपि मदनहुतभुजा कंदर्पाग्निना दह्यमानं ज्वलमानं सरलता ऋजुता रक्षत्येव पालयत्येव । मुहुर्मुहुर्वारंवारं स्नेहलता स्नेहलस्य भावः स्नेहलताह्वयत्येव निमन्त्रयत्येव । स्थिरप्रतिज्ञता दृढसंगरतानयत्येव प्रापयत्येव । दक्षिणता चातुर्यता ढौकयत्येव प्राभृतीकरोत्येव । वत्सला हितकारिताऽभिपद्यत एवाङ्गीकरोत्येव । मृदुहृदयतार्जवचित्तता चरणपतितं पादप्रणतं जनं न निर्भर्त्सयत्येव न तिरस्करोत्येव । महानुभावता साधुस्वभावतोत्थाप्योत्थानं कारयित्वा संभावयत्येव प्रीणयत्येव । प्रियवादिता मिष्टवक्तृताऽऽलपत्येव संभाषयत्येव । अत्युदास्तातिवितरणा हृदये चित्तेऽवकाशमन्तरं ददात्येव प्रयच्छत्येव । यच्चेति । यत्तथा गत्वापि निर्लज्जहृदयो निस्त्रपचेताः पुनर्द्वितीयवारं वदनदर्शनस्य दानं तस्मिन्साहसं धैर्यमङ्गीकरोमि स्वीकरोमि । अत्रापि वदनदर्शनेऽपि सत्प्रकृतयः शोभनस्वभावा देव्या गन्धर्वपुत्र्याः प्रसन्नता लक्ष्येणानुग्रहा एव कारणं निमित्तम् । एते हीति । हीति निश्चितम् । एते प्रसादा विशदत्वान्निर्मलत्वादुदारभावात्सरलत्वेन संगतत्वाच्च मिलितत्वाच्च क्षण समयमात्र परिचिता अपि परिचितविषयीभूता अपि समारोपिताः स्थापिताः जीवितस्य प्राणितस्य प्रत्याशा वाञ्छा यैरेवंविधाः किंचिन्न कारयन्तीति न, अपि तु कारयन्त्येव । तदेवाह - स्मारययन्तीति । सेव्यतां सपर्यायोग्यताभावं स्मारयन्ति स्मरणविषयीकारयन्ति । देव्याः कादम्बर्याश्चरणपरिचर्यायै क्रमसेवायै समुत्साहयन्त्युत्साहं कारयन्ति । सेवाचातुर्यं सपर्यादक्षतां शिक्षयन्ति पाठयन्ति । आराधनोपायान्समाराधनहेतूनुपदिशन्ति कथयन्ति । चाटुकारश्चटुकृत्त्वं भवेत्यसकृद्धारंवारमाज्ञापयन्त्याज्ञां ददति । एवममुना प्रकारेण स्थीयतामास्यतामिति स्वयमेवात्मनैवोपदर्शयन्ति प्रकाशयन्ति । मुखावलोकिनामास्यनिरीक्षकाणामकालेऽप्रस्तावे उपसर्पणमागमनं तज्जनितो यः कोपस्तस्मिन्ननुनयन्ति प्रसादयन्ति । परितोषावसरे संतुष्टिक्षणे गुणानुवादेन गुणकथनेनानुगृह्णन्त्यनुग्रहं कुर्वन्ति । लज्जया त्रपयापसृतं पश्चाद्गतं हठाद्धलादुपसर्पयन्ति समीप आनयन्ति । अन्यत्रान्यस्मिन्स्थले क्षणमप्यवस्थातुमवस्थानं कर्तुं न ददति न -
टिप्पo - 1 ते स्वभावसरसा सरलता दूरस्थमपि मदनहुतभुजा दह्यमानं (माम्) रक्षत्येवेत्यन्वयो बोद्धव्यः । 2 चतुरता, (भाववाचिनः पुनर्भावप्रत्ययो नोचित इति चातुर्यताऽचातुर्यमेव । 3 महाहृदयता । वितरणकथा तु क्षुद्रा । 4 मुखावलोकितमिति पाठे तु मुखावलोकितं मुखावलोको जातो यस्मिन् ( मुखावलोकजनितम्) मम दुर्जनस्येति शेषः । मम मुखदर्शनजनितमकालोपसर्पणप्रभवं कोपम् अनुनयन्ति उपशमयन्ति इत्यर्थः ।
पाटा० - १ एव. २ विहीन. ३ अपि मामू. ४ स्थिरप्रकृतिता; स्थिरप्रज्ञता. ५ अभ्युपपद्यते ६ प्रियंवादिता; प्रियवेदिता. ७ स्मरयतिः स्मरयन्ति ८ चाटुकारा भवन्तु ९ मुखावलो - कितम् १० कोपम्. ११ अनुतपन्ति.
534
कादम्बरी |
कथायाम्