________________
दर्शितप्रसादश्चन्द्रापीडःप्रत्युवाच - 'किमुच्यते ? कस्यापरस्येदृशोऽस्मदुःखासहिष्णुरनपेक्षितस्वशरीरशक्तिरुत्साहः ? कस्यापरस्येदृशी देशकालज्ञता ? को वापरोऽस्मास्वेवं निर्व्याजभक्तिः ? तत्साधु चिन्तितम् । गम्यतां देव्याः प्राणसंधारणाय, ममागमनप्रत्ययार्थं च पत्रलेखाप्यग्रतस्त्वयैव सह यौतु देवीपादमूलम् । इयमपि प्रसादभूमिरेव देव्याः । इमामप्यालोक्य कियत्यपि धृतिरवश्यमुत्पद्यत इति मे चेतसि । अपि चास्या अपि देव्यामस्त्येव स्नेहो भक्तिश्च' इत्यभिधाय पृष्ठत उपविष्टामेवे तां पत्रलेखामद्राक्षीत् । सा तु किंचिदवनतमुखी 'निजाज्ञाक्षराणि प्रयच्छतु देवः' इति व्यज्ञपयत् । कृतप्रस्थितिनिश्चयायां च तस्यां मेघनादाह्वानाय प्रतीहारीमादिदेश ।
आदेशानन्तरमेव चागतं दूरतः प्रणतमाज्ञाप्रतीक्षं स्वयमेवाहूय सोपग्रहमादिदेश - ‘मेघनाद, यस्यां भूमौ पत्रलेखानयनाय मया त्वं प्रस्थापितस्तां भूमिमेव पत्रलेखामादाय केयूरकेण सहाग्रतो गच्छ । अहमपि वैशम्पायनमालोक्यानुपदमेव ते तुरङ्गमैः परागतः' इत्या -
***********
प्रकाशितः प्रसादः प्रसन्नता येनैवंभूतश्चन्द्रापीडः प्रत्युवाच प्रत्यब्रवीत् । किं तदित्याह - किमिति । किमुच्यते किं कथ्यते । कस्येति । कस्यापरस्यान्यस्येदृश एतादृगस्माकं यदुःखं तस्यासहिष्णुरसहनशीलोऽनपेक्षिताऽवाञ्छिता स्वशरीरस्य निजदेहस्य शक्तिः सामर्थ्य यस्मिन्नेवंविध उत्साहः प्रगल्भता । कस्येति । कस्यानिर्दिष्टनाम्न, ईदृश्यनिर्वचनीया देशः प्रदेशः कालः समयस्तयोर्जता ज्ञातृता । को वेति । को वापरो जनोऽस्मास्वस्मद्विषयेष्वेवं पूर्वोक्तप्रकारेण निर्व्याज निर्दम्भं यथा स्यात्तथा भक्तिर्यस्य स तथोक्तः । तदिति हेत्वर्थे । तस्माद्धेतोः साधु यथा स्यात्तथा चिन्तितमालोचितम् । चिन्तितस्य विशेषणं वा । साधु शुभं चिन्तितम् । चिन्ताविषयीकृतमित्यर्थः । गम्यतामिति । देव्याः कादम्बर्याः प्राणसंधारणायासुधृतये । ममागमनं तत्र यानं तस्य प्रत्ययो विश्वासस्तदर्थं च त्वया गम्यतां व्रज्यताम् । देव्याः कादम्बर्याः पादमूलं चरणसमीपं पत्रलेखापि त्ययैव सहाग्रतः पुरतो यातु व्रजतु । इयमिति । इयमपि पत्रलेखापि देव्याः कादम्बर्याः प्रसादभूमिरेवानुग्रहस्थानमेव । इमामिति । इमां पत्रलेखामप्यालोक्य निरीक्ष्य कियत्यपि कियन्मात्रा नतु समग्रा धृतिः संतुष्टिरवश्यं निश्चयेन । कादम्बर्या भाविनीति शेषः । इति मे मम चेतसि चित्त उत्पद्यत उद्भाव्यते । बुद्ध्येति शेषः । अपि चेति । अपि चेति प्रकारान्तरे । अस्याः पत्रलेखाया अपि देव्या कादम्बर्यां स्नेह आभ्यन्तप्रीतिभक्तिश्चाराध्यत्वेन ज्ञानमस्त्येव । एवकारोऽयोगव्यवच्छेदार्थः । इति पूर्वोक्तमभिधाय कथयित्वा पृष्ठतः पृष्ठे । सार्वविभक्तिकस्तस् । उपविष्टां स्थितामेव पत्रलेखामद्राक्षीद्व्यलोकयत् । सा त्विति । सा पत्रलेखा । तु पुनरर्थे । विलोकनानन्तरमित्यर्थः । किंचित्स्वल्पमवनतं ननं मुखमाननं यस्या एवंविधा सती निजाया आत्मीयाया आज्ञाया निदेशस्याक्षराणि वचनानि देवो भवान्प्रयच्छतु ददातु । त्वं व्रजेति स्वमुखेन कथयेत्यर्थः । इति व्यज्ञपयद्विज्ञप्तिमकार्षीत् । कृतेति । कृतो विहितः प्रस्थितेर्गमनस्य निश्चयो यस्या एवंविधायां च तस्यां पत्रलेखायां सत्यां मेघनादस्यात्मसेवकस्याह्वानमाहूतिस्तस्मै प्रतीहारी द्वारपालिकामादिदेशादिष्टवान् ।
आदेशानन्तरमेव नियोगाव्यवहितमेवागतं च दूरतः प्रणतं प्रविष्टप्रदेशात्रतमाज्ञां यावत्प्रतीक्षा विलम्बो यस्यैवंभूतं स्वयमेवात्मनैवाहूयाह्वान कृत्वा सोपग्रह सादरमादिदेशादिष्टवान् । हे मेघनाद, यस्यां भूमौ पत्रलेखाया आनयनायानयनकृते मया त्वं पूर्व स्थापितो न्यस्तस्ता भूमि यावत्पत्रलेखामादाय गृहीत्वा केयूरकेण सह सार्धमग्रतो गच्छ व्रज । अहमपि वैशम्पायनमालोक्य निरीक्ष्य ते तवानुपदमेवानुचरणन्यासमेव तुरङ्गमै -
पाटा० - १ चन्द्रप्रसारः. २ मदागमन. ३ प्रयातु. ४ उत्पस्यते. ५ समुपविष्टम्. ६ एवं नेति पत्रलेखामप्राक्षीत्. ७ आगतं च. ८ स्थापितः. ९ भूमिं यावत्पत्र.
पत्रलेखया सह केयरकस्याग्रतो विसर्जनम
उत्तरभागः।