________________
| लसल्लालित्यराजिः कादम्बरी
कोशशतसंघीकृतक्लिष्ट शब्दसंस्तरतया चातिशयपृथुलपदावलीतया च सुकुमारमतीनां प्रस्वेदजननीयं कादम्बरी लसल्लालित्यराजिः कविचूडामणिना बाणभट्टेन परिकल्पिता काव्यगात्रेषु पिण्डीकृता च ।
मन्दमतीनां मतेरगोचराऽप्यसौ विदुषां चित्तरञ्जनाय रचितशपथैवाऽऽभाति । कल्पनाधरणीसमुद्गतापीयं पाठकहृदयं विकसद्वास्तवव स्पृशति । कविद्वयेन परिपूर्णीकृताऽप्येषा यावदान्तिम्यं प्रथमपदाद् रसैकतानतां बिभर्ति । एवं प्रत्यक्षाश्चमत्कृतयः, प्रगटा विरोधाद्य लङ्कारसंततिः, विद्वद्विनोदननन्दितजन्मन्यां कादम्बर्याम् ।
नाऽत्र छन्दसां बाधा, नाडत्र व्यस्तपदसमारचनसंश्रमः, भूरि रसप्राचूर्यम्, स्फूर्तिमती प्रतिपादन शैलिः, नावीन्यमयी प्रस्तावपद्धती, रुचिरं कथावस्तु, गद्यात्मकः प्रबन्धः, परम-प्रौढिमा च शब्दार्थयोः, एवमत्र गणनातीतगुणगणा विराजन्ते ।
प्रद्योतयत्पाण्डित्यमरीचिना कविना बाणभट्टेन प्रारब्धाऽसौ कादम्बरी तदपत्यभूषणभट्टेन समापितेति विश्वासार्हा वृद्धोक्तिः । काव्यगुम्फनक्रियां प्रारभ्य मध्य एव महाकविर्दिवंगतः । तत्पश्चात् तादृशसामर्थ्यविधुरेणाऽपि भूषणभट्टेनाऽवशिष्टा कथा तात भक्त्या - नुसन्धिता ।
विबुधसंप्रदायः बाणपुत्रं 'भूषणभट्ट' इति नाम्ना परिचाययति किन्त्वस्मिन् विषये पौर्वात्येषु ग्रन्थेषु मतान्तरा अप्यवलोक्यन्ते । तिलकमञ्जरीरचयित्रा धनपालेन बाणपुत्रः 'पुलिन्द' इत्यभिधया परिचायितः । अन्ये 'पुलिन' इत्याह्वमपि प्रचारयन्ति । अस्तु. नैतन्निर्णेतुं नोऽभिरुचिः ।
ख्रिष्टीयकालगणनासु प्रायः सप्तमशताब्द्याः मध्ययुगो महाकवेर्बाणस्य कर्मसमयः । राजाहर्षवर्धनो बाणेन साकं परां मैत्रीमदधत् । बाणविनिर्मिता कादम्बरी पञ्चसु महाकाव्येषु लब्धाऽस्पदा । दण्डी सुबन्धुश्च बाणस्य पुरोयायिनौ, एतौ द्वावपि गद्यकवी प्रतिभाभारभू बभूवतुः । तदनुयायी कविवतंसोबाणोऽपूर्वगद्यप्रबन्धनिर्माणेन स्फूर्जत्प्रतिभया च द्वावपि पुरोगामिनौ विजित्य साहित्यसृष्टौ परां निषद्यां लेभे ।
बाणोद्भुतायां कादम्बर्यां बह्व्यो वृत्तयः निरीक्ष्यन्ते, तासु प्राथम्यं जैनोपाध्याययुगलविनिर्मितायाः टीकायाः । महोपाध्याययुगोऽसौ शाही श्री अकब्बर-जलालुद्दीननरेश्वरसमर्पित-'जगद्गुरु' बिरुदशालिनां, जिनशासनशिरोमुकुटानां, पूज्यपाद-हीरविजयसूरीश्वराणां कृपापात्रता मलप्सीद् । नाम्ना श्रीभानुचन्द्र - सिद्धिचन्द्रगणिवरौ, सहस्रशो जनसमूहैर्निसेवितचरणौ, पृथुलविद्याधनौ, निर्वर्तितमन्मथरुपगर्वी,. साक्षात्कन्दर्परुपौ, समासादितब्राह्मीप्रसादौ, स्वकीयचातुरीपटाच्छादितदिशान्तौ, निधूतपरमतवादिमदरजसौ बाणग्रथितां कादम्बरीमवलम्ब्य सुसमृद्धां वृत्तिं निरमीमाताम् ।
अहो, आकस्मिकीय घटना!, यथा कादम्बरीग्रथनकाले कृतिमसमाप्यैव बाणभट्टोयमसाद्भूतस्तथाऽकब्बरनृपानुरोधाद् वृत्तिमिमामारब्धवान् भगवान् भानुचन्द्रमहोपाध्यायवर्थोऽपि वृत्तावपूर्णायां कालसाज्जातः । बाणान्वयेन भूषणभट्टेन यथाऽवशिष्टा कादम्बरी परिपूर्णतामिता तथाऽवशिष्टामेतां वृत्तिं भगवद्भानुचन्द्रगणिवराणां विनेयवरः सुगृहीतनामधेयो महोपाध्याय श्रीमत्सिद्धिचन्द्रगणी पारितवान् । निर्मातृद्वन्द्वतायारेवं यथामूलं वृत्तावप्यनुवृत्तिः ।