________________
प्रसीद । नार्हस्यखेदाए हृदयखेदकारिणं संतापमङ्गीकर्तुम् । संहर मन्युवेगम् । एषाहमादाय चन्द्रापीडमागतैव' इति । अथानेन देवनामग्रहणगर्भेण मद्वचसा विषापहरणमन्त्रेण विषमूर्छितेव झटित्युन्मील्य नयने सस्पृहं मामवलोक्य 'कः प्रदेशेऽस्मिन्' इति परिजनमपृच्छत् ।
अथ धवलवसनोल्लासितगात्रयष्टयः, द्वारप्रदेशसंपिण्डिताङ्ग्यः, परशुरामशरविवरविनिर्गता इव राजहंसपङ्क्तयः, कलहंसकलालापमधुररवैः प्रतिवाचमिव प्रयच्छद्भिपुरैः पतत्कर्णपूरपल्लवोल्लासितैश्चाज्ञाश्रवणाय धावद्भिरिव श्रवणैर्मीक्तिककुण्डलांशुजालकानि स्कन्धदेशनिक्षिप्तानि चामराणीव वहन्त्यः समाहतकपोलस्थलैः कुण्डलैर्बलादिव वाह्यमानाः, वाचालैः कर्णोत्पलमधुकरैः 'समाज्ञापय' इति व्याहरन्त्यः कन्यकाः समधावन् । आज्ञाप्रतीक्षासु च मुखक -
***********
योग्या त्वं हृदये स्वान्ते खेदं करोतीत्येवंशीलं संतापमङ्गीकर्तुं नार्हसि न योग्या भवसि । तथा मन्युः क्रोधस्तस्य वेगं रयं संहर त्यज । कोपवृद्धिं मा कुर्वित्यर्थः । एषाहं पत्रलेखाख्या सखी चन्द्रापीडमादाय गृहीत्वागतैव । अथेति । तच्छ्रवणानन्तरं विषमूर्छिता विषापहरणमन्त्रेणेव । अनेन देवनाम भवन्नामग्रहणं गर्भेयस्मिन्नेवंविधेन मम पत्रलेखाया वचसा वाक्येन झटिति शीघ्र नयने नेत्रे उन्मील्योद्घाट्य सस्पृहं स्पृहायुक्तं यथा स्यात्तथा मां पत्रलेखामवलोक्य निरीक्ष्येति परिजनं सेवकलोकमपृच्छत्पप्रच्छ । इतीति किम् । अस्मिन्नासत्रप्रदेशे समीपस्थले कः । तिष्ठतीति शेषः ।
अथेति । तदनन्तरं कन्यका कुमार्यः समधावंस्त्वरितं चेलुः । कन्यका विशेषयन्नाह - धवलेति । धवलैः शुभैर्वसनैर्वस्त्रैरुल्लासिताः शोभिता गात्रयष्टयो देहलता यासां ताः । द्वारेति । द्वारप्रदेशे प्रतोलीदेशे संपिण्डितानि संकोचितान्यङ्गानि शरीराणि याभिस्ताः । उत्प्रेक्षते - परशुरामस्य जामदग्न्यस्य शरविवरेण बाणच्छिद्रेण विनिर्गता राजहंसानां पङ्क्तय इव । शुभ्रवस्त्रावृतत्वेन तासां हंसपङ्क्तिसाम्यं । तदुक्तं काव्यप्रकाशे - 'साधर्म्यमुपमाभेदे' इति । किंविशिष्टाः कन्यकाः । नूपुरैश्चरणभूषणैरुपलक्षिता ज्ञाताः । उपलक्षणे तृतीया । नूपुराणि विशेषयन्नाह - कलेति । कलहंसानां कादम्बानाम् - 'कादम्बास्तु कलहंसाः' इति हैमः । तेषां कला मनोहरा य आलापाः शब्दास्त इव मधरा मिष्टा ये रखाः शब्दास्तैः प्रतिवाचं प्रत्यत्तरं प्रयच्छद्भिर्ददद्भिरिख । च पनरर्थे । पनः किंविशिष्टाः । श्रवणैः कर्णेरुपलक्षिताः । किंविशिष्टैः श्रवणैः । पतन्तो भ्रश्यन्तो ये कर्णपरस्य कर्णाभरणस्य पल्लवाः किसलयास्तैरुल्लासितैरुद्भासितैः । अतएवोत्प्रेक्षते श्रवणैः कीदृशैरिव । आज्ञाया निदेशस्य श्रवणं श्रुतिस्तदर्थं धावद्भिरिव त्वरितं गच्छद्भिरिव । पुनः किं कुर्वन्त्यः । वहन्त्यो धारयन्त्यः । कानि । मौक्तिकैर्मुक्ताफलैः खचितानि कुण्डलानि कर्णभूषणानि तेषामंशवः किरणास्तेषां जालकानि समूहाः । स्वार्थे कः । 'जालं समूह आनायगवाक्षक्षारकावपि' इत्यमरः । उप्रेक्षते - स्कन्धदेशे भुजशिरःप्रदेशे निक्षिप्तानि स्थापितानि चामराणीव वालव्यजनानीव । पुनः किंविशिष्टाः । समाहतानि ताडितानि कपोलस्थलानि गलात्परप्रदेशा यैरेवंविधैः कुण्डलैर्बलाद्धाद्वाह्यमाना इवोत्पाद्यमाना इव । पुनः किं कुर्वन्त्यः । कर्णोत्पलानां श्रवणकुवलयानां वाचालैर्मधुकरैभ्रमरैरिति व्याहरन्त्य इति वदन्त्य इव । इतीति किम् । समाज्ञापय । आज्ञा देहीत्यर्थः । आज्ञेति । कादम्बरी मरकतशिलातलेऽश्मगर्भदृषदुपरि न्यषीदत् । अतिष्ठदिति क्रियासंटङ्कः । किं कुर्वन्ती । - - - - - - - - - - - - --
- - टिप्प० -1 कार्तिकेयस्य स्पर्धया, शरेण कौञ्चपर्वतविवरं विधाय तद्वारेण अवरुद्धा हंसपङ्क्तयो निःसारिता जामदग्न्येनेति महाभारतकथाऽनुसंधेया । 2 कर्णैः (करणैः) मौक्तिककुण्डलांशुजालकानि वहन्त्य इति स्पष्टोऽर्थः । अस्तु. 3 बलपूर्वकं गमनाय प्रेर्यमाणा इत्यर्थः ।
पाठा० - १ बहुलसित. २ समुल्लसित. ३ द्वारदेशसंदण्डिताः; द्वारप्रदेशप्रवेशसंपिण्डिताङ्ग्यः . ४ कलहंस. ५ कलापमधुरालापैः. ६ समन्तात्समधावन्. ७ आज्ञा प्रतीक्षमाणासु.
(कादम्बर्या वृत्तान्तश्रवणम् ।
उत्तरभागः ।
493