________________
अपि च तस्याश्चन्दनपरिमल इव दक्षिणानिलेन सह समागच्छति मोहः । चक्राह्वशाप इव निशया सहापतति प्रजागरत्रासः । प्रतिरुतानीव वलभीकपोतकूजितैः सहाविर्भवन्ति दुःखानि । मधुकर इवोपवनकुसुमामोदेन सहोपसर्पति मरणाभिलाषः । तथा च जलकणिकेव पद्मिनीपलाशस्थिता कम्पते । प्रतिच्छायेव स्फटिकोपलसलिलमणिदर्पणमणिकुट्टिमतलेषु दृश्यते । नलिनीव शशिकरस्पर्शेन म्लायति । हंसीव सरसमृणालिकाहारव्यतिकरेण जीवति । शरदिव कुमुदकुर्वलयसंपर्कमनोहरगन्धवहा सकुसुमबाणा च विजृम्भते । चन्द्रमूर्तिरिव कमलप्रकरस्खलितपादपल्लवा संचरन्ती निशां नयति । कुमुदिनीव रजनिकरकिरणकृतजागरा दिवसमलीकनिद्रयातिवाहयति । मुररिपुजलशयनलीलेव मन्दोच्छसितशेषा -
***********
अपि चेति युक्त्यन्तरे । तस्याः कादम्बर्याश्चन्दनपरिमल इव मलयजामोद इव दक्षिणानिलेनावाचीमारुतेन सह मोहो मूर्छा समागच्छति । चक्राह्मेति । निशया त्रियामिन्या सह चक्राह्वो रथाङ्गाह्वयस्तस्य शापः पृथग्भवनलक्षणस्तद्वदिव प्रजागरत्रासो जागरणभयमापतत्यागच्छति । प्रतीति । वलभी गृहोपरिभागस्तस्यां कपोताः पारावतास्तेषां कूजितै रटितैः सह प्रतिरुतानीव प्रतिश्रुतानीव दुःखान्यसुखान्याविर्भवन्ति प्रकटीभवन्ति । मधुकर इति । उपवनस्य कुसुमानि पुष्पाणि तेषामामोदो दूरगामी गन्धस्तेन सह मधुकर इव । जात्येकवचनम् । मरणाभिलाषो मृत्युवाञ्छोपसर्पति समीपमायाति । प्रकारान्तरेण तां वर्णयबाह - तथा चेति । पद्मिनी कमलिनी तस्याः पलाशानि पत्राणि तेषु स्थिता जलकणिकाऽम्भोबिन्दुरिव कम्पते चलते । एतेनोभयोः साधर्म्यमाविष्कृतमिति भावः । प्रतीति । स्फटिकोपलश्च सलिलं च मणिदर्पणश्च मणिकुट्टिमतलानि च तेषु प्रतिच्छायेव प्रतिबिम्बमिव दृश्यते । जनैरिति शेषः । नलिनीति । शशिकराश्चन्द्रकिरणास्तेषां स्पर्शः संयोगविशेषस्तेन नलिनीव म्लायति म्लानिं प्राप्नोति । नलिन्याः सूर्यविकासित्वेन, अस्याच विरहव्याकुलितचित्तत्वेन शशिकरस्पर्शादेव म्लानिरिति भावः । हंसीवेति । सरसा रसोपयुक्ता या मृणालिन्यः कमलिन्यस्तासां हारा मुक्ताप्रालम्बास्तेषां व्यतिकरण संबन्धेन हंसीव वरटेव जीवति प्राणिति । हंसीपक्षे मृणालिकाया आहारो भोजनं तेन प्राणवृत्तिं करोतीत्यर्थः । शरदिवेति । कुमुदं श्वेतकमलं सूर्यविकासिं, कुवलयं चन्द्रविकासि, एतेषां संपर्कः संबन्धस्तस्माद्यो मनोहरगन्धस्तं वहतीति वहाँ । सुकुसुमबाणा चेति । सह कुसुमेन पुष्पेण वर्तमाना बाणा वृक्षविशेषा यस्याः यस्यां वा । एवंविधा सती शरदिव घनात्यय इव सा विजृम्भते । इतस्ततः प्रसरतीत्यर्थः । चन्द्रमूर्तिरिति । कमलानां नलिनानां प्रकरः समूहस्तस्मिन्स्खलिताः स्खलनां प्राप्ताः पादा अङ्ग्रयः किरणा वा त एव पल्लवा यस्याः सैवंविधा चन्द्रमूर्तिरिव संचरन्ती व्रजन्ती निशां नयति । रात्रिं गमयतीत्यर्थः । कुमुदिनीति । रजनिकरश्चन्द्रस्तस्य किरणैरंशुभिः कृतो विहितो जागरो जागरणं यस्याः सैवविधा कुमुदिनीव कैरविणीवालीकनिद्रया दिवसमतिवाहयति । गमयतीत्यर्थः । अत्रालीकनिद्रत्वं नेत्रकुमुदिन्योर्निद्राभावेन संकोचमात्रापेक्षया मन्तव्यम् । मुररिपुरिति । मुररिपुः कृष्णस्तस्य जलशयनलीलेव मन्दं मन्दमुच्छसितमेव शेषो यस्याः सा कादम्बरी किमप्यनिर्वचनीयस्वरूपं चिन्तयति ध्यायति । जलशयनलीलापक्षे मन्दं मन्दमुच्छासित उच्छासं प्राप्तः । संजातोच्छास इति यावत् ।
- - - - - - - - - - - - --- टिप्प० - 1 पारवतकृजितैः सह यथा तेषां प्रतिरुतान्याविर्भवन्ति तथा तस्या दुःखानि प्रकटीभवन्तीत्याशयः । 2 कातिशयात् सा प्रतिच्छायेव दृश्यते । अथवा विरहतपवशादेतेषु पदार्थेषु सा निपतति, अत एव प्रतिच्छायेव । 3 शरतपक्षे कुमुदादिसंपर्केण मनोहरो गन्धवहो यस्याम् । 4 कादम्बरी तु सकुसुमबाणा कुसुमबाणेन कामेन सहिता । 5 कुमुदिन्याः किरणैर्जागरः विकासो भवतीति ज्ञेयम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ दर्पणकुट्टिम; दर्पणतलकुट्टिम. २ कुवलयकमल. ३ प्रजागार.
516
कादम्बरी।
कथायाम