SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ इत्युक्तवति मेघनादे घनसमयवर्धिताभोगमकरध्वजार्णवमेध्यपातिनीं स्वानुमानात्कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य विक्लवीभवतः पैर्यवर्त्यन्त इवास्य जलधराः कालपुरुषैः, तडितो मदनानलशिखाभिः, अवस्फूर्जितं प्रेतपतिपटहस्वनैः, आसारधाराः स्मरेषुभिः, औमन्द्रगर्जितं मकरध्वजधनुर्ज्यागुञ्जिताभोगेन, कलापिकेकाः कालदूतालापैः, केतकामोदो विषपरिमलेन, खद्योताः प्रलयानलस्फुलिङ्गराशिभिः, अलिवलयानि कालपाशैः, बलाकाश्रेणयः प्रेतपतिपताकाभिः, आपगाः बलं सर्वक्षयमहापूरप्लवैः, दुर्दिनानि कालरात्र्या, कुटजतरवः कृतान्तहासैः । अपि च शरीरेऽपि सत्त्वं कातरतया, क्षामतया, कान्तिर्वैवर्ण्येन, मतिर्मोहेन, धैर्यं विषादेन, हसितं शुचा, नयनमश्रुणा, आलपनं मौनेन, अङ्गान्येसहतया, करणान्यपाटवेन, सर्वमेवारत्या । ** मेघनाद उक्तवति कथितवति सति घनसमयो वर्षाकालस्तेन वर्धितो वृद्धिं प्रापित आभोगो विस्तारो यस्यैवंभूतो यो मकरध्वज एवार्णवः समुद्रस्तस्य मध्यपातिनीं तदन्तर्गतां स्वानुमानादपि । यथा तस्या दुःखेन विरहेणाहं दुःखवान्, तथा मद्विरहेण सापि भविष्यतीत्यनुमानं तस्मादित्यर्थः । कादम्बरीमुत्प्रेक्ष्योत्प्रेक्ष्य हृदयवर्तिनीं विलोक्य विलोक्य विक्लवीभवतो विह्वलीभवतोऽस्य चन्द्रापीडस्य जलधरा मेघाः कालपुरुषैर्यमकिंकरैः पर्यवर्त्यन्त इवात्मसात्क्रियन्त इव । स्वस्वरूपमापाद्यन्त इवेति यावत् । अतो जलधराः कालपुरुषा एव बभूवुरित्यर्थः । एवमग्रेऽपि पर्यवर्त्यन्त इवेति यथायोग्यं योज्यम् । तडितो विद्युतो मदन एवानलो वह्निस्तस्य शिखाभिर्ज्यालाभिः पर्यवर्त्यन्त इव । अवस्फूर्जितं करालगर्जितं प्रेतपतिर्यमस्तस्य पटहो ढक्का तस्य स्वनैः शब्दैः पर्यवर्त्यत इव । क्वचित् 'प्रेतपुरीपटहस्वनेन' इत्यपि पाठः । आसारधारा वेगवदृष्टिधाराः स्मरस्य कंदर्पस्येषवो बाणास्तैः पर्यवर्त्यन्त इव । आमन्द्रगर्जितं गम्भीरस्तनितं मकरध्वजधनुषो ज्या प्रत्यञ्चा तस्या गुञ्जितं शब्दितं तस्याभोगेन विस्तारेण पर्यवर्त्यत इव । कलापिकेका मयूरवाण्यः कालदूता यमप्रहितजनास्तेषामालापैः संभाषणैः । केतकस्य क्रकचच्छदस्यामोदः परिमलो विषं गरलं तस्य परिमलेन । खद्योता ज्योतिरिङ्गणाः प्रलयस्य कल्पान्तस्यानलो वह्निस्तस्य स्फुलिङ्गा अग्निकणास्तेषां राशिभिः समूहैः पर्यवर्त्यन्त इव । 'खद्योतो ज्योतिरिङ्गणः' इति हैमः । अलिवलयानि भ्रमरकर्टकानि कालपाशैर्यमबन्धनैः । बलाकाश्रेणयो बिसकण्ठिकासमूहाः प्रेतपतिर्यमस्तस्य पताकाभिर्वैजयन्तीभिः । आपगा नद्यः सर्वेषां क्षयो विनाशो येभ्य एवंविधैर्महापूरस्य प्लवैः प्रवाहैः । दुर्दिनानि मेघजनिततमांसि कालरात्र्या मृत्युप्रदनिशया 'कादम्बिनी मेघमाला दुर्दिनं मेघजं तमः' इति हैमः । कुटजतरवो गिरिमल्लिकाः कुटजवृक्षपुष्पाणि कृतान्तस्य यमस्य हासैः स्मितैः । पर्यवर्त्यन्त इवेत्यर्थः । अपि चेति । अन्यदपि शरीरेऽपि देहेऽपि सत्त्वं साहसं कातरतया भीरुकतया, बलं स्थामं क्षामतया क्षीणतया, कान्तिद्युतिः । शरीरस्येति शेषः । वैवर्ण्येन कालिकया । विच्छायतयेत्यर्थः । मतिर्बुद्धिर्मोहेनाज्ञानेन, धैर्यं धीरिमा विषादेनावसादेन, हसितं हास्यं शुचा शोकेन, नयनं नेत्रमश्रुणा बाष्पेण, आलपनं जल्पनं मौनेन जोषेण, अङ्गानि प्रतीका असहतयाक्षमतया, करणानीन्द्रियाण्यपाटवेनापटुतया, सर्वमेव समग्रमेवारत्योद्वेगेन कृत्वा । मेघनादसदेशेन विषादः *** टिप्पo - 1 पर्यवर्त्यन्त परस्परं विनिमयं प्राप्यन्तेव, जलधराः कालपुरुषा अबुध्यन्तेत्याशयः । एवं तडितो मदनानलशिखा अज्ञायन्तेत्यादिः सर्वत्रार्थो बोद्धव्यः । 2 भ्रमरसमूहा इत्यर्थः । 3 पर्यवर्त्यत, साहसस्य परिवर्ते कातरत्वमभवदित्यर्थः । पाटा० - १ मध्यपातिनी. २ परिवर्तन्ते; परिवर्त्यन्ते ३ आमन्द्रम् ४ रश्मिभिः ५ असहितया ६ सर्वं च ७ रजन्या. उत्तरभागः । 603
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy