________________
कामपरता जाता । मरणं च मदनवेगसंज्वरासहिष्णोस्तथोपनतम् । अधुनापि तादृश एवाल्पायुरयम् । शापावसानानन्तरकालं यदस्याक्षयेणायुषा योगो भविष्यति' इति ।
एतच्छ्रुत्वा पुनरवनितलनिवेशितशिराः प्रणम्य भगवन्तं व्यज्ञापयम् - 'भगवन्, अहमपुण्यवानस्यां तिर्यग्योनौ वर्तमानः स्वयं सर्वस्यैवाक्षमः । वागपि मे भगवतः प्रसादात्संप्रत्येवानने संभूता । भूतपूर्वं च ज्ञानमन्तरात्मनि । शरीरं पुनरायुःसंवर्धककर्मयोग्यं भगवतः प्रसादादन्यस्मिञ्जन्मनि यदि भवेत्, तत्केन प्रकारेणाक्षयं तन्मे महाकर्मसाध्यमाविर्भविष्यतीत्येतदाज्ञापयतु भगवान्' इत्येवं विज्ञापितस्तु मया, दिक्षु विक्षिप्य चक्षुर्भगवानाज्ञापितवान् ‘एतदपि यथा, तथा ज्ञास्यस्येव । तावदियं कथास्ताम् । रसाक्षेपादचेतितैवास्माभिः प्रभातप्राया रजनी । प्रभाविरहादनुन्म॒ष्टरजतकुंम्भाभमिदर्मपरान्तावलम्बि वर्तते रजनिकरबिम्बम् । यथायथोद्गमविस्तारिणी जरत्तामरसपत्रारुणा पाण्डुच्छविरुल्लसति सीमन्तयन्ती तमःकेशसंघातमिव पूर्वस्याः ककुभोऽरुणाग्रकरालोकततिः । इमाः सशेषतिमिरत -
***********
तत्तस्मात्कारणादयमीदृश एवोत्पन्नो येन कारणेनास्य पुण्डरीकस्य तादृशी कामपरता मदनायत्तता जाता । मरणं च मृत्युं च मदनवेगात्कदर्परयायः संज्वरः संतापस्तस्यासहिष्णोरसहनशीलस्य तथाप्रकारेणोपनतं प्राप्तम् । अधुनापि सांप्रतमपि तादृश एव तथावस्थ एवायं शुकोऽल्पायुः स्वल्पजीवितः । शापस्यावसानं प्रान्तस्तस्मादनन्तरं कालमव्यवहितकालं यदस्याक्षयेणायुषा सह योगो भविष्यतीति ।
एतच्छ्रुत्वा पुनरवनितलनिवेशितशिरा भगवन्तं प्रणम्य व्यज्ञापयं विज्ञप्तिं कृतवान्विज्ञप्तिं चकार अहम् । किं तदित्याह - भगवनिति । हे भगवन्, अहं त्वपुण्यवान् । अस्यां तिर्यग्योनौ वर्तमानः स्वयमात्मना सर्वस्यैव कार्यस्याक्षमोऽसमर्थः । वागपि वाचापि मे मम भगवासादात्संप्रत्येव सांप्रतमेवानने संभूता जाता । पूर्वं भूतं भूतपूर्वं क्वचिदमान्यं तस्य परत्वमिति पूर्वशब्दस्य परप्रयोगः । एतादृशं ज्ञानमन्तरात्मनि संभूतम् । शरीरं पुनरायुषः संवर्धकानि यानि कर्माणि कृत्यानि तेषु योग्यं समर्थं भगवतः प्रसादान्माहात्म्यादन्यस्मिञ्जन्मनि यदि भवेत्स्यात्तत्तस्मात्कारणान्मे मम महाकर्मभिः साध्यं महाकर्माणि साध्यानि यस्मिन्निति वा आयुर्जीवितं केन प्रकारेणाक्षयं भविष्यतीत्येतदाज्ञापयतु कथयतु भगवान् । इत्येवं मया विज्ञापितो विज्ञप्तिविषयीकृतः । तु पुनरर्थे । दिक्षु चक्षुर्विक्षिप्य प्रेर्य भगवानाज्ञापितवान् । किं तदित्याह - एतदिति । एतदपि त्वदुक्तमपि यथा वर्तते तथा त्वं ज्ञास्यस्येवाग्रे, त्वया ज्ञातं भविष्यत्येव । इयं कथा तावदास्तां तिष्ठतु । रसाक्षेपाद्रसाकर्षादस्माभिः प्रभातप्राया रजनी निशाऽचेतितैवाज्ञातैव । प्रभाविरहाद्युतेविरहात्कान्तेरभावादनुन्मृष्टोऽसमार्जितो न स्फोटितो यो रजतकुम्भो रौप्यघटस्तद्वदाभा श्रीर्यस्य तत्तथा । 'आभा राढा विभूषा श्रीः' इति हैमः । इदमपरान्तावलम्बि पश्चिमान्तावलम्बि पश्चिमाशावलम्बि रजनिकरबिम्ब निशाकप्रतिबिम्ब शशाङ्कमण्डलं वर्तते । यथायथमिति । यथा च यथा च यथायथम् । 'नित्यवीप्सयोः' इति द्वित्वम् । यथाप्रकारमुद्गमेनोदयेन विस्तारिणी विस्तरणशीला जरत्पक्वं परिपक्वं यत्तामरसं पद्मम् । रक्तकमलमित्यर्थः । तस्य पत्राणि दलानि पनि तद्वदरुणा रक्ता आ ईषत्पाण्डुच्छविः । 'रक्तोत्पलं तामरसम्' इति हैमः । पूर्वस्याः ककुभ एन्त्र्या दिशस्तमोलक्षणं केशसंघातमलकसमूह सीमन्तयन्तीव सीमन्तं कुर्वन्तीवोल्लसत्युल्लासं प्राप्नोति । अरुणस्य रविसारथिनोऽग्रकरा -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 कस्य अपरान्तम् ? इति सापेक्षमेव । अतः 'अपराम्बरान्तावलम्बि (पश्चिमाकाशविलम्बि) इति पाठो योग्यः ।
पाठा० - १ उपगतम्. २ अस्य. ३ संवर्धनीयम्. ४ अस्मिन्. ५ केनचित्. ६ आस्तां तावदियं कथा. ७ उन्मृष्ट. ८ दर्पणाभम्. ९ अम्बरान्तरावलम्बि. अपराम्भरान्तावलम्बि. १० यथायथोद्गमन. ११ आलोकवर्ति; आलोकान्तरिताः.
(पुनः पूर्वावस्थाप्राप्तिप्रश्नः
उत्तरभागः।