________________
याम्बराकाण्डकलुषं भास्वत्प्रभालोकमारब्धाः क्रमेण यथासूक्ष्मं तारकाः प्रवेष्टुम् । एष पम्पासरःशायिनां प्रबोधाशंसी समुच्चरति कोलाहलः श्रोत्रहारी विहंगमानाम् । एते च निशीथिनीपरिमलशीतलाश्चलितवनकुसुमपरिमलग्राहिणो वातुं प्रवृत्ताः । प्रभातपिशुना वायवः । प्रत्यासन्नाग्निविहारवेला' इत्यभिदधान एव गोष्ठी भक्त्वोदतिष्ठत् ।
अथोत्थिते भगवति जाबालौ वीतरागापि निष्कौतुकापि मोक्षमार्गावस्थानापि समस्तैव सा तपस्विपरिषत्कथारसाद्विस्मृतगुरूचितप्रतिपत्तिः शृण्वतीवोत्कण्ठिततया विस्मयोत्फुल्लमुखी -
***********
णामालोकः प्रकाशस्तस्य ततिः पङ्क्तिः । श्रेणिरित्यर्थः । 'राजितेखा ततिर्वीथिः' इति हैमः । इमाः प्रत्यक्षदृश्याः सह शेषेण वर्तते तत्सशेषम् । स्वल्पमित्यर्थः । एतादृशं यत्तिमिरं ध्वान्तं तस्य भावस्तत्ता तयाम्बरे व्योम्न्याकाशेऽकाण्डकलुषमप्रस्तावमलिनमसमयमलिन भास्वाभालोक सूर्यदीप्तिप्रकाशं सहसदीधितिकान्ति उद्योतं तारकास्ताराः क्रमेण यथासूक्ष्मं सूक्ष्मं यथा स्यात्तथा प्रवेष्टुं प्रवेशं कर्तुमारब्धाः प्रारब्धा आरम्भं कृतवत्यः । एषोऽसौ पम्पाभिधानं सरः पम्पा नाम सरोवरं तत्र तस्मिशायिनां सुप्तानां विहंगमानां पक्षिणां श्रोत्रयोः कर्णयोर्हारी मनोहरः, प्रबोधो विनिद्रत्वं तदाशंसति कथयतीत्येवंशीलः स तथैवंविधः कोलाहलः कलकलः समुच्चरति सम्यक्प्रसरति विस्तरति । एते च प्रत्यक्षगम्या निशीथिन्यां त्रियामायां परिगतो मलो यस्मात्स परिमलोऽङ्गरागस्तेन शीतलाः शिशिराः । माघकाव्य उक्तमस्ति - 'नवपरिमलगन्धः केन शक्यो वरीतुम्' इत्यत्र परिमलशब्देनाङ्गराग एव विवक्षितः । अन्यथा गन्धशब्दस्य वैयर्थ्यं स्यात् । चलितानि कम्पितानि यानि वनानि तेषां कुसुमानां परिमलो गन्धस्तं गृह्णन्तीत्येवंशीलास्ते तथा प्रभातस्य प्रत्यूषस्य पिशुनाः सूचका एवंविधा वायवः पवनाः समीरणा वातुं यातुं प्रवृत्ताः प्रवर्तितवन्तः । 'व्युष्टं विभातं प्रत्यूषम् इति हैमः । प्रत्यासना समीपवर्तिनी निकटस्थायिनी । पदैकदेशे पदसमुदायोपचारात् अग्निशब्देनाग्निहोत्रं तत्र विहारो विहरणम् । गमनमिति यावत् । तस्य वेलावसरः प्रस्तावसमयः । 'वेला वारामवसरे' इति कोशः । इत्यभिदधान एवेतिब्रुवाण एव गोष्ठी श्रवणार्थमिलितजनसमूहात्मिकां भक्त्वा दूरीकृत्योदतिष्ठदुत्थितो बभूव । 'समज्या परिषद्गोष्ठी सभासमितिसंसदः' इत्यमरः ।
अथोत्थिते भगवति जाबालौ वीतरागापि नीरागापि निष्कौतुकापि विगतकुतूहलापि गताश्चर्यापि मोक्षमार्गे निर्वाणमार्गेऽवस्थानमवस्थितिर्यस्या एवंविधाप्येतादृश्यपि समस्तैव सर्वापि तपस्विपरिषन्मुनिजनसभा कथाया वार्ताया रसाद्विस्मृता विस्मरणं प्राप्ता । गुरावुचिता योग्या प्रतिपत्तिः सेवा यस्याः सा तथा । श्रृण्वतीवाकर्णयन्तीवोत्कण्ठिततया रणरणकतया विस्मयेनाश्चर्येणोत्फुल्लं विकसितं मुखं यस्याः सा तथा । युगपदेकवारमा - - टिप्प० - 1 अरुणा सूर्यस्याऽऽलोकराजिः तमोरूपं केशसंचयं सीमन्तयन्तीव (सीमान्त (केशपाश) रूपे परिणमयन्तीव) उल्लसतीत्यर्थः । वास्तवे तु भागद्वयविभाजितस्य केशपाशस्य मध्यवर्तिनी रेखा सीमन्तः । अत एव हि तत्र सिन्दूरारुणतास्पर्शाय तामरसपत्रारुणेति विशेषणम् । एवं सत्त्वे-तमः केशसंघात सीमन्तयन्तीति कवेरुक्तिः - तमःकेशपाशं (प्रति) सीमन्तयन्ती (सीमन्तमिवात्मानमाचरन्ती) इति यथा कथंचित्संगमनीया स्यादिति मार्मिकैर्विमृश्यम् । 2 अकाण्डे कलुषो भास्वत्प्रभालोकः ? किमिति ? 'अम्बरैककाण्डपटकलुषम् इति पाठः । ततश्च - तिमिरावशेषसहिततया अम्बरस्य (आकाशस्य) एककाण्डपट (तिरस्करिणी) वत् कलुषो (मलिनो) यः सूर्यप्रभालोकः तं तारकाः यथासूक्ष्मं प्रवेष्टुमारब्धाः । किञ्चिदन्धकारसहिते सूर्यालोके स्वल्पप्रकाश प्रथम, ततः परमधिकप्रकाशमिति क्रमेण नक्षत्राण्यदृश्यान्यभवन्नित्याशयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अङ्ककलुषम्; एककाण्डपटकलुषम्. २ परिमलने; परिमलम्. ३ विहरण. ४ निष्कामुकापि. ५. उत्कण्टकिततया; उत्कण्टकितकाया.
प
(676
कादम्बरी।
कथायाम्