________________
युगपदागलितशोकानन्दजन्मनयनसलिला हाकष्टशब्दानुबन्धिनी स्तम्भितेव चिरमिव स्थित्वा यथास्थानं जगाम । हारीतस्तु मां संनिहितेऽपि मुनिकुमारकजने निजकरेणैवोत्क्षिप्यात्मपर्णशालां नीत्वा शनैः शनैःस्वशयनीयैकदेशे स्थापयित्वा प्राभातिकक्रियाकरणाय निर्ययौ ।
निर्गते च तस्मिंस्तेन सर्वकार्याक्षमेण तिर्योतिपतनेन देहेन पीडितान्तरात्मा चिन्ता प्राविशम् । अत्र तावदनेकभवसुकृतसहसाधिगम्यं मानुष्यमेव दुर्लभम् । तत्राप्यपरं सकलजातिविशिष्टं ब्राह्मण्यम् । ततोऽपि विशिष्टतरमासन्नामृतपदं मुनित्वम् । तस्यापि विशेषान्तरं किमपि दिव्यलोकनिवासित्वम् । तद्ये नैतावतः स्थानात्स्वदोषैरात्मा पातितस्तेन कथमधुना सर्वक्रियाविहीनेनास्यास्तिर्यग्जातेः समुद्धतः स्यात् । कथं वा पूर्वजन्माहितस्नेहैः सह समागमसुखमनुभूतम् । अननुभवतश्च तन्निष्प्रयोजनेनामुना जीवितेन किं मे परिरक्षितेन । पततु यत्र तत्र क्वापि यातनाशरीरम् । सुखं तु नानुभवितव्यममुना दुःखैकभाजनेन । तत्परित्यजाम्येनम् । पूर्यतामस्मद्व्यसनदानैकचिन्तादुःस्थितस्य विधेर्मनोरथः' इत्येवं च जीवि -
***********
गलितं पतितं शोकानन्दाभ्यां जन्म यस्यैवंभूतं नयनसलिलं यस्याः सा तथा । हाकष्टमिति यः शब्दस्तमनुबन्धितुं शीलं यस्याः सा तथा स्तम्भितेव कीलितेव चिरमिव स्थित्वा बहुकालमिव स्थित्वा यथास्थानं यथास्थलं जगामागमत् । हारीतस्तु मां मुनिकुमारकजने तापसशिशुजने संनिहितेऽपि समीपवर्तिन्यपि सति निजकरेणैवात्मपाणिनेवोत्क्षिप्योत्पाट्यात्मपर्णशाला स्वकीयतृणकुटी नीत्वा प्रापय्य शनैः शनैर्मन्दं मन्दं शयनीयस्य शय्याया एकदेशेन्यतरप्रदेशे स्थापयित्वा संस्थाप्य प्राभातिकक्रियाकरणाय प्रत्यूषविधिविधानाय निर्ययौ निरगात् ।
तस्मिन्हारीतमुनौ निर्गते च सति तेन सर्वाणि समग्राणि यानि कार्याणि कृत्यानि तेष्वक्षमेणासमर्थेन तिर्यग्जातिपतनेन पक्षिजात्यन्तर्गतेन देहेन विग्रहेण शरीरेण पीडितोऽन्तरात्मा यस्यैवंभूतोऽहं चिन्तामार्तिं प्राविशं प्रविष्टोऽभूवम् । अत्रेति । अस्मिल्लोके तावदादावनेकभवानामसंख्यजन्मनां सुकृतसहसैः पुण्यसहसैरधिगम्यं प्राप्यमेवंविधं मानुष्यमेव मनुजत्वमेव मनुष्यत्वं दुर्लभं दुष्प्रापम् । तत्रापि मनुष्यत्वेऽप्यपरमन्यत्सकलजातिषु समग्रवर्णेषु विशिष्टं विशेषेणाधिकं ब्राहाण्यं ब्राह्मणत्वं सारमधिकतरम् । ततोऽपि ब्राह्मण्यतोऽप्यतिशयेन विशिष्टं श्रेष्ठ विशिष्टतरं किंचिदाधिक्यमासनं समीपवर्ति निकटवर्त्यमृतपदं मोक्षपदम् । 'महानन्दोऽमृतं सिद्धिः' इति हैमः । यस्मिन्नेतादृशं मुनित्वं यतित्वमधिकतरम् । तस्यापि मुनित्वस्यापि यतित्वस्यापि किमपि विशेषान्तरं किंचिदाधिक्यं दिव्यलोकनिवासित्वं स्वर्गलोकस्थायित्वम् । तत्तस्मात्कारणायेनैतावतः पूर्वोक्तस्थानात्स्वदोषैर्निजदूषणैरात्मा पातितस्तेन मया सर्वाः समग्राः क्रियाः स्नानादिकास्ताभिर्विहीनेन रहितेनाधुना सांप्रतमिदानीमस्यास्तिर्यग्जातेः कथमात्मा समुद्धृत उद्धारं प्रापितः । स्यादिति शेषः । पूर्वजन्मनि पूर्वभवे गतजन्मन्याहितः स्थापितः स्नेहः प्रीतिर्येषु तैः सह समागमसुखं मेलापकसौख्यं कथमनुभूतं साक्षात्कृतम् । भवतीति शेषः । तत्समागमसुखमननुभूतवतः साक्षादकृतवतश्च मे मम निष्प्रयोजनेन निरर्थकेनामुना जीवितेन परिरक्षितेन किम् । न किंचिदित्यर्थः । यत्र तत्र क्वापीदं यातनाशरीरम् । 'यातना नरकवेदना' इति हैमः । नरकदेहम् । तीव्रवेदनाक्षममित्यर्थः । पततु पतनं करोतु । सुखं तु नानुभवितव्यममुनानेन दुःखस्य कष्टस्यैकभाजनेनैकपात्रेण शरीरेण । अत एतत् शरीरं परित्यजामि मुञ्चामि । अस्माकं व्यसनदानं कष्टप्रदानं तस्यैकाद्वितीया या चिन्ता तया दुःस्थितस्य दुःखितस्य विधेर्विधातुर्मनोरथोऽभिलाषः । पूर्यता परिपूर्णीभूयताम् । चेत्येवं इत्येवं प्रकारेण या जीवित -
-- - टिप्प० . 1 अत्रः 'तिर्यग्रजातिपतितेन' इत्युचितः पाठः । 2 'स्यात्' इत्येव पूर्वानुषङ्गः ।
-
-
-
-
-
-
-
पाटा० - १ अनुबन्धिनी पराधीनेव. २ वेदिदेशे. ३ तीर्यग्जातिपतितेन. ४ परम्. ५ तत्रापि. ६ तत्रापरत्र क्यापि यातु यत्र शरीरम्.
(गोष्ठी भङ्क्त्वा जाबालेरुत्थानम्
उत्तरभागः।
677