________________
कष्टं प्राण्यते । किं करोमि, कथय कथं कथ्यते, कया वृत्त्या वर्ण्यते, कीदृशेनोपायेन प्रदर्श्यते, केन प्रकारेणावेद्यते, कया युक्त्या प्रकाश्यते, कतमया वेदनयोपनीयते । तदुत्कण्ठास्वप्नेषु विगलितवेदनाः स्फुटं प्राणिनः, प्रतिदिवसं दृश्यमानोऽपि यन्न पश्यसि तोमीदृशीमवस्थाम् । प्रचण्डकिरणसहसातपसहानि कमलानि शयनीकृतानि म्लानिमुपनयन्त्या दिवसकरमूर्तिरपि निर्जिता तया निजोष्मणा ।
निष्करुणेन चाकारणवामेन कामेन मNमानास्तास्ताश्चेष्टाः करोति । तथा हि । सासोढमदनवेदने, त्वमतिकठिने मनसि निवससि' इति मृदुनि कुसुमशयने कथमपि सखी -
***********
लिताः प्राणा यत्रेति क्रियाविशेषणम् । अतिकष्टं मया प्राण्यते जीव्यते । किं करोमीति । प्रतिदिवसं प्रतिवासरं दृश्यमानोऽपि साक्षाक्रियमाणोऽपि तामीदृशीं पूर्वव्यावर्णितामवस्था दशा यन्न पश्यसि यन्न जानासि तत्कथय ब्रूहि । किं करोमि किं कुर्वे । कथं कथ्यते केन प्रकारेण भण्यते । कया वृत्त्या आरभट्यादिकया वर्ण्यते वर्णनाविषयीक्रियते । कीदृशेनोपायेन सामादिना प्रदर्श्यते दृग्विषयीक्रियते । केन प्रकारेणावेद्यते निवेद्यते । कया युक्त्या युक्तिरुपपत्तिस्तया केन हेतुना वा प्रकाश्यते प्रकटीक्रियते । कतमया कतरया वेदनया ज्ञानेनोपनीयते प्राप्यते । निश्चयकोटिमिति शेषः । यदा तु 'उपमीयते' इति पाठस्तदा कतमया वेदनया पीडयोपमा प्राप्यत इत्यर्थः । दृश्यमानोऽपि न पश्यसीति तस्य वैगुण्यं परिजिहीर्षुराह - तदुत्कण्ठेति । तदुत्कण्ठालक्षणेषु स्वप्नेषु निद्रादृष्टान्तःकरणजन्येषु ज्ञानेषु विगलितवेदना विगतदुःखाः स्फुटं प्रकटं प्राणिनोऽसुमन्तः स्युः । तेन त्वमप्युत्कण्ठानिद्रां प्राप्तो विगतवेदनो जाननपि न जानासीति फलतीत्यर्थः । प्रचण्डेति । प्रचण्डानि तीव्राणि यानि किरणसहसाणि तेषामातपो वर्चस्तं सहन्त इत्येवंभूतानि शयनीकृतानि शय्यीकृतानि कमलानि पद्मानि म्लानिं ग्लानिमुपनयन्त्या प्रापयन्त्या तया कादम्बर्या निजोष्मणा स्वकीयतापेन दिवसकरमूर्तिरपि दिवसकरबिम्बमपि निर्जिता तिरस्कृता ।
तथा निष्करुणेन निर्दयेनाकारणवामेन निर्हेतुकप्रतिकूलेन । अर्थात्कामेन मथ्यमाना विलोड्यमानास्तास्ताश्चेष्टाः कायव्यापाररूपाः करोति निर्मिमीते । तदेव दर्शयति - तथा हीति । सासोढा मदनस्य कंदर्पस्य वेदना पीडा यया तस्याः संबोधनं हे सासोढमदनवेदने । अतिकठिनेऽतिकर्कशे मनसि चित्ते । चन्द्रापीडस्येति शेषः । त्वं निवसस्यवतिष्ठसीति कृत्वा मृदुनि सुकुमारे कुसुमशयने पुष्पशय्यायां सखीजनेन कथमपि महता कष्टेन - -
- - - - - - - - - - - - - - - - - - - -- टिप्प० - 1 केयूरस्य सेयमुक्तिः , अत एव 'तया' इत्युचितम् । 2 'उपमीयते' इत्युचितः पाठः । 'उपनीयते' इति तु श्रवणेप्यसमञ्जसम् । 3 'कतमया वेदनयोपमीयते । बलवती तदुत्कण्ठा । स्वप्नेषु विगलितचेतनाः स्फुटं प्राणिनः । इति पाठः । 'स्वप्ने दृश्यमानोपि तद्बदनां न दूरीकर्तुमिच्छसि । इति शङ्कायाः परिहारार्थमाह - स्वप्नेषु (दृश्यमानाः) प्राणिनः स्फुटं विगलितचेतनाः चैतन्यविहीना भवन्ति । यतो हि प्रतिदिनं दृश्यमानोपि तस्यास्तादृशीम न पश्यसि । यदि चैतन्यं स्यात्तर्हि अवश्यं तस्या दुर्दशां पश्येः इत्यर्थः । किन्तु टीकाकारचूडामणिः 'बलवती तदुत्कण्ठा' एतद्धटितमुत्कण्ठापदं 'स्वप्नेषु विग०' इत्यग्रिमवाक्यस्थेन 'स्वप्नेषु' इत्यनेन संयोज्य 'उत्कण्ठास्वप्नेषु' इति पदमाविष्कुर्वनलौकिकं तद्वयाख्यानमाह । 4 सोढा मदनवेदना येन तादृशे । अत एव अतिकठिने मनसि (चन्द्रापीडस्य) वससि । ततश्च कठिनस्थले निपतित्वात्ते पीडा स्यादिति सखीभिः सा मूदुनि कुसुमशयने पात्यते । सोढमदनवेदने (सप्तम्येकवचनम्) सा इत्यनयोर्योगेन 'सासोढमदनवेदने !' इति संबोधनजन्म ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ उपमीयते. २ बलवती तदुत्कण्ठा स्वप्नेषु. ३ विगलितचेतनाः. ४ प्रतिदिनम्. ५ तादृशीम्. ६ दिनकरकिरण. ७ वामनेन. ८ कथ्यमानाः.
510
कादम्बरी ।
कथायाम्