________________
प्यनुभवनीय एवायमर्थः । यथा चास्य दुःखैकदानव्यसनिनो दुर्घटघटनापण्डितस्य यत्किंचनकारिणो निष्कारणकुपितस्य हतविधेः सर्वतो विसंस्थुलं समारम्भं पश्यामि, तथा जानामि नैतावता स्थास्यतीति । अन्यथा क्व निष्प्रयोजनाश्वमुखानुसरणेनामानुषभूमिगमनम्, क्व च तंत्र तृषितस्याच्छोददर्शनम्, क्व तत्र तीरे विश्रान्तस्यामानुषगीतध्वनेराकर्णनम्, क्व तज्जिज्ञासागतस्य महाश्वेतावलोकनम्, क्व तत्र तरलिकया सह तवाभिगमनेन मद्गमनप्रस्तावः, क्य महाश्वेतया सह हेमकूटगमनम्, क्व तत्र देवीवदनदर्शनम्, क्व रागोत्पत्तिरस्मिञ्जने देव्याः, क्व वाऽपरिपूर्णमनोरथस्य मे पितुरलङ्घनीयाऽऽगमनाज्ञा । तत्सुदूरमारोप्य पातिता वयं खल्वनेनाकार्यकारिणास्मत्कर्मबलनियोगदक्षेण दग्धवेधसा । तथापि देवीं संभावयितुं प्रयतामहे ।
इत्यभिदधत्येव चन्द्रापीडे 'नितरामयमनेनैव कादम्बरीवृत्तान्तेन संतापितः, तत्किमपरमहमेनमात्मतेजसा संतापयामि इत्युत्पन्नदय इव भगवास्तिग्मदीधितिरुत्तप्तकनकद्रवस्फुलिङ्गपिङ्गलद्युति दिग्विकीर्णधूर्जटिजटामण्डलानुकारि संजहार करसहसम् । अस्तानुसारेण च रवे -
*********** एवानुभवविषयीकरणीय एव । यथा चेति । दुःखस्यैकमद्वितीयं दानं तत्र व्यसनमासक्तिर्विद्यते यस्य स तस्य । दुर्घटेति । दुःखेन घटितुं योग्या दुर्घटा एवंविधा या घटना पदार्थानामन्योन्य संबन्धस्तत्र पण्डितस्य विबुधस्य । यत्किंचन यदेव तदेव करोतीत्येवंशीलस्य यत्किंचनकारिणः । निष्कारणं निर्निमित्तं कुपितस्य कोपं प्राप्तस्यास्य हत विधेर्दुष्टविधातुर्यथा सर्वतः सर्वत्र विसंस्थुलं विसदृशं समारम्भ निर्माण पश्याम्यवलोकयामि । तथेति । तेन प्रकारेणेति जानाम्याकलयामि । इतीति किम् । नेति । एतावतैतावत्कालं न स्थास्यति नावस्थानं करिष्यति । अन्यथेत्युक्तविपर्यये । निष्प्रयोजनेन निष्कारणेनाश्चमुखाः किंनरास्तेषामनुसरणेनानुगमनेनामानुषभूमिगमनं मनुष्यरहितक्षितौ यानम् । क्व क्वेति महदन्तरे । तत्रामानुषभूमौ तृषितस्य पिपासित स्याच्छोददर्शनं क्व । तत्रेति । तत्राच्छोदनाम्नस्तीरे विश्रान्तस्य गृहीतविश्रामस्यामानुषाः किंनरास्तेषां गीतध्वने यशब्दस्याकर्णनं श्रवणं क्व । तस्य ज्ञातुमिच्छा तज्जिज्ञासा तयागतस्य प्राप्तस्य महाश्वेताया अवलोकनं निरीक्षणं क्व । तत्र महाश्वेतावलोकनस्थले तरलिकया सह तव केयूरकस्याभिगमनेनागमनेन मद्गमनप्रस्तावो मदीययानावसरः क्व । महाश्वेतया सह साधु हेमकूटगमनं क्व । तत्र हेमकूटे देवीवदनदर्शनं कादम्बरीमुखावलोकनं क्व । अस्मिन् जने देव्याः कादम्बर्या रागोत्पत्तिः क्व । अपरिपूर्णमनोरथस्यापरिपूर्णाभिलाषस्य मे मम पितुर्जनकस्यालङ्घनीयानतिक्रमणीयागमनाज्ञागमननियोगः क्व । तदिति । तत्तस्माद्धेतोः सुदूरमत्युच्चैरारोप्यारोहणं कारयित्वा अनेनाकार्यकारिणाऽकृत्यकारिणास्माकं यत्कर्मबलं तस्य नियोगो व्यापारणं तत्र दक्षेण विबुधेन दग्धवेधसा ज्वलितधात्रा । खलु निश्चयेन वयं पातिता अधःस्थल प्रापिताः । तथापीति । तथाप्येवं सत्यपि देवीं संभावयितुमाश्चासयितुं प्रयतामहे प्रयत्नं कुर्महे ।
इत्यभिदधत्येवेति कथयत्येव चन्द्रापीडे नितरामतिशयेनायं चन्द्रापीडोऽनेन पूर्वोक्तेनैव कादम्बरीवृत्तान्तेन कुमारिकोदन्तेन संतापितः संताप प्रापितः । तत्किमेनं चन्द्रापीडमात्मतेजसा स्वकीयवर्चसा परं संतापयामि । इत्युत्पन्नदय इवेति संजातकृप इव भगवास्तिग्मदीधितिः सूर्यः करसहसं संजहारापससार । करसहसं विशेषयन्नाह - उत्तप्तेति । उत्तप्तमुष्णीकृतं यत्कनकं सुवर्णं तस्य द्रवो रसस्तस्य स्फुलिङ्गः कणस्तद्वत्पिङ्गला कपिला युतिः कान्तिर्यस्मिंस्तत्तथा । दिग्विकीर्णा विक्षिप्ता या धूर्जटिजटा ईश्वरसटास्तासां मण्डलं तदनुकारि तत्सादृश्यकरणशीलम् ।
अस्तेति । रवेः सूर्यस्यास्तानुसारेणास्तसमयानुसरणेन च वासरोऽपि दिवसोऽपि - टिप्प० - 1 अपसारयामासेत्युचितम् । पाठा० - १ विसंस्थुलं. २ नैवायमेतावता. ३ अश्वमुखमिथुन. ४ तत्तीरे. ५ अनुराग. ६ पर. ७ पिङ्गलगलद्युति. ८ मण्डलाकारी.
-
-
-
-
--
-
-
522
कादम्बरी।
कथायाम्