________________
I
र्वासरोऽपि यथोच्छ्रिततरुशिखरावलम्बिनो रक्तातपच्छेदानाकर्षन्त्रपससार । क्रमेण च संजातकरुणानुबन्धयेव संध्ययाप्युपरि जलार्द्रपट इव प्रसार्यमाणे स्वरागपटले, निशागमेनाप्येवम् 'अस्य शून्यताविक्लवस्य मा भूद्दर्शनम्' इत्याप्तेनेव सर्वतो नीलीपरिलम्बमानायामिव भ्राम्यमाणायां तिमिरलेखायाम्, कमलेष्वपि दुःसहत्वाच्छोषकारिणः संतापस्य तल्पकल्पनाभीतेष्विव संकुचत्सु, कुमुदेष्वपि शुचिस्वभावतयादर्द्विषु शयनसंपादनायेवाहमहमिकयोद्दलत्सु, चक्रवाकेष्वपि सहचरीविरहविधुरेषु कादम्बरीसमीपगमनोपदेशदानायेव कलकरुणमुच्चैर्मुहुर्मुहुर्व्याहरत्सु, चन्द्रमस्यपि भगवति सॅकलभुवनैकातपत्रे सुधारजतकलशे पूर्वदिग्वधूवदनचन्दनतिलके गगनतललक्ष्मीलावण्यमहाहदे सकललोकाह्लादकारिणि सुधालिप्तैः करैरिव स्प्रष्टुम्, उच्छ्वासहेतुना तं ज्योत्स्नाजलेन च सेक्तुम्, उदयगिरिशिखरमारूढे, प्रौढे प्रदोषसमये चन्द्रापीडस्तस्मिन्नेव वल्लभोद्याने, चन्द्रातपस्पर्शदर्शितविशदजललवोद्भेदहारिणि चन्द्रमणिशिला
यथोच्छ्रितं अत्युच्चं यथा स्यात्तथा तरूणां वृक्षाणां शिखराण्यग्राणि तेष्ववलम्बिनो गृहीतावलम्बनो (ना) रक्तो य आतपस्तस्य छेदाः खण्डास्तानाकर्षन्त्राकृष्टिं कृर्वन्नपससारापसृतवान् । क्रमेण चेति । क्रमेण च परिपाट्या च संजातः समुत्पन्नः करुणायाः कृपाया अनुबन्धः संबन्धो यस्यामेवंविधयेव संध्ययाप्युपर्युपरिष्टाज्जलेनार्द्रः स्विन्नो यः पटस्तस्मिन्निव स्वरागपटले व्योमरागसमूहे प्रसार्यमाणे विस्तार्यमाणे । निशेति । एवं निशागमेनापि शून्यता विमनस्कता तया विक्लवस्य विह्वलस्यास्य राज्ञो मा भूद्दर्शनमवलोकनमित्याप्तेनेव शिष्टेनेव सर्वतः सर्वत्र नीली शैवलं तद्वत्सामस्त्येन परिलम्बमानायां प्रसृतायामिव तिमिरलेखायां तमिसवीथ्यां भ्राम्यमाणायामितस्ततो विक्षिप्यमाणायां सत्याम् । कमलेष्वपीति । शोषकारिणः शोषकर्तुः संतापस्य क्लेशस्य दुःसहत्वाद्दुःखेन सोढुं शक्यत्वाद्धेतोर्या तल्पकल्पना शयनीयकल्पना तया भीतेष्विव भयं प्राप्तेष्विव कमलेष्वपि संकुचत्सु संकोचं प्राप्यमाणेषु सत्सु । कुमुदेष्वपीति । कुमुदेष्वपि कैरवेष्वपि शुचिस्वभावतया निर्मलप्रकृतितया । आर्द्राश्चर्द्राश्च आर्द्रार्द्रास्तेष्वत्यन्तं जलसमुन्नेषु । अहं पूर्वमहं पूर्वमित्यहमहमिका तया शयनसंपादनायेव तल्पकल्पनायेवोद्दलत्सून्मिषत्सु सत्सु । चक्रवाकेष्वपि सहचरेष्वपि सहचारिण्यश्चक्रवाक्यस्तासां विरहो वियोगस्तेन विधुरेषु पीडितेषु सत्सु । कादम्बर्याः समीपमभ्यर्णं गमनं यानं तस्योपदेशस्तस्य दानायेव कलं करुणं यथा स्यात्तथोच्चैरुच्चस्वरेण मुहुर्मुहुर्वारंवारं व्याहरत्सु ब्रुवत्सु सत्सु । चन्द्रमस्यपीति । भगवति माहात्म्यवति सकलभुवनस्य समस्तलोकस्यैकमद्वितीयमातपत्रं छत्रं तस्मिन्सुधाया रजतकलशे रौप्यकुम्भे । पूर्वदिगेव वधूः स्त्री तस्या वदनं मुखं तस्मिंश्चन्दनतिलके मलयजपुण्ड्रे । गगनतलमाकाशतलं तस्य लक्ष्मीः शोभा तस्या लावण्यं चातुर्यं तस्य महाहदे । सकललोकस्य समस्तभुवनस्याह्लादं प्रमोदं करोतीत्येवंशीलः स तथा तस्मिन् । सुधालिप्तैरमृतस्निग्धैः करैर्हस्तैः स्प्रष्टुं स्पर्शं कर्तुमिव । तथोच्छ्रासहेतुनादैरकारणेन तं चन्द्रापीडं ज्योत्स्ना कौमुदी सैव जलं पानीयं तेन च सेक्तुं सिञ्चनं कर्तुमिव । उदयगिरिरुदयाचलस्तस्य शिखरं सानुमारूढ आरोहि सति । प्रौढे महति प्रदोषसमये यामिनीमुखलक्षणे चन्द्रापीडस्तस्मिन्नेव पूर्वोक्त एव वल्लभोद्याने वल्लभाभिधाने वने । चन्द्रातपेति । चन्द्रातपस्य चन्द्रालोकस्य यः स्पर्शः संबन्धस्तेन दर्शितः प्रकटीकृतो विशदं निर्मलं यज्जलं तस्य लवोंऽशस्तस्योद्भेदः प्राकट्यं तेन हारिणि मनोहर एवंविधे चन्द्रमणेश्चन्द्रकान्तरत्नस्य शिलातलेऽङ्गानि -
टिप्प० - 1 वस्तुतस्तु 'नीलीपरिलम्बनायामिव' इति पाठः । नीली नीलवर्णयुक्ता या परिलम्बना तिरस्करिणी तस्यामिव तिमिरलेखायां भ्राम्यमाणायाम् । 2 आर्द्राणीति क्लीबतैवोचिता, कुमुदानां नपुंसकलिङ्गत्वात् । 3 उच्छ्वासहेतुना जीवनकारणेन ।
पाठा० - १ क्रमेणैव. २ प्राप्तेनेव ३ मुहुः ४ समस्त. ५ ज्योत्स्नाजलेनेव.
(केयूरकेण सह संलापः
उत्तरभागः ।
523