________________
खलु शठमतेः सर्व एव दोषः, येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमायुष्करं कर्म निर्वर्तितम् । अधुना सिद्धप्रायमेवेदम् । न दुःखासिका भावनीया । मत्पादमूले तावत्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभीर्व्यज्ञोपयम् -
'तात यदि प्रसादोऽस्ति ततो यत्रैवासावुत्पन्नस्तत्रैव गमनायाज्ञापयतु मां तातः इत्येवं विज्ञापितस्तु मया पुनराज्ञापितवान् - 'वत्स, शुकजातावसौ पतितः । तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति । तत्तिष्ठतु तावत् इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान् - 'वत्स कपिजल, महामुनेर्जाबालेराश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिषानुगृह्य वक्तव्योऽसौ - वत्स, यावदिदं कर्म परिसमाप्यते तावत्त्वयास्मिन्नेव जाबालेः पादमूले स्थातव्यमिति । अपि च त्वदुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि परिचारिका वर्तते । तया तु शिरस्युपाघ्रायैतदेव पुनःपुनः संदिष्टम् । एवमुक्त्वाऽकठोरशिरीषकुसुमशिखासूक्ष्माग्रोब्रेदपक्ष्मलानि गात्राणि पुनःपुनः पाणिना परामृश्यान्तर्हदयेनादूयत । तथा दूयमानहृदयं च तमवदम् -
*********** जल, स्वदोषस्य निजदूषणस्य शङ्कारेका परित्यज्यतां मुच्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्यबुद्धेर्ममैवायं दोषः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्तिसमय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं दीर्घजीवितकारि कर्म न निर्वर्तितं न कृतम् । अधुना सांप्रतमिदानीमिदं कार्यं सिद्धप्रायमेव संजातमेव । अतो दुःखासिका न भावनीया । मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थीयतामवस्थानं क्रियतामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगतभीरहं व्यज्ञापयं विज्ञप्तिमकरवम् ।
हे तात हे पितः, यदि प्रसादः प्रसन्नतास्ति ततो यत्रैव यस्मिन्स्थलेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले गमनाय मामाज्ञापयत्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापितवानाज्ञां दत्तवान् । इतियोत्यमाह - वत्स इति । हे वत्स हे पुत्र हे सूनो, शुकजातावसौ पतितस्तस्माद्धेतोगत्वापि तत्र तमय त्वं नैव वेत्सि । नाप्यसौ शुकस्त्वां भवन्तं वेत्ति । तावत्सांप्रतं तद्गमनं तिष्ठत्वास्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय मामाज्ञापितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जाबालेराश्रमपदं सुहृन्मित्रं ते तव प्राप्तः । अस्य शुकस्य जन्मान्तरस्य स्मरणं च भवान्तरज्ञानं चोपजातम् । संप्रतीदानीं तद्गच्छ व्रज तं शुकं द्रष्टुं विलोकयितुम् । मदीययाशिषाऽऽशीवदिनानुगृह्यानुग्रहविषयीकृत्यासौ शुक इति वक्तव्यो भणितव्यः । इतिद्योत्यमाह - हे वत्सेति । हे वत्स, यावदिदं पूर्वोक्तं कर्म परिसमाप्यते परिपूर्णीक्रियते तावत्कालमस्मिन्नेव जाबालेः पादमूले त्वया स्थातव्यं स्थेयम् । अपि च तव दुःखेन दुःखिता पीडिता ते तवाम्बा माता श्रीरप्येतस्मिन्नेव कर्मणि परिचारिका सपर्याकारिणी वर्तते । तयाप्यम्बयापि शिरस्युत्तमाङ्गे मस्तक उपाघ्राय चुम्ब्यैतदेव पूर्वोक्तं पुनः पुनः संदिष्टं कथितमुक्तम् । इत्येवमुक्त्वा प्रतिपाद्याऽकठोराण्यकठिनानि कोमलानि मृदूनि यानि शिरीषकुसुमानि तेषां शिखा तस्याः सूक्ष्मोऽणुरग्रस्य य उद्भेदस्तद्वत्पक्ष्मलानि कोमलानि गात्राणि शरीराणि पुनः पुनः पाणिना हस्तेन परामृश्य परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं खिद्यमानचेतसं च - - - -
-- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 दुःखपूर्विका आसनक्रिया (धात्वर्थनिर्देशे ण्वुल), दुःखेनाऽवस्थानमित्याशयः । 2 यदा 'अस्मिन्नेव' इति विशेष्यते तर्हि 'पादमूले' इति न युज्यते । अत एव 'आश्रमे इत्येव पाठो योग्यः । 3 अनुपपदात् ल्यब् न युज्यते .
-
-
पाठा० - १ आयुःकामं कर्म. २ निवर्तितम्. ३ व्यज्ञपयम्. ४ तदा. ५ न परिसमाप्यते. ६ आश्रमे. ७ गात्राणि मे.
(कपिज्जलस्य श्वेतकेत्वादिवृत्तनिवेदनम्
उत्तरभागः।
Y681)