________________
विरहितमिव कालपुरुषम्, अतिकठिनतया कालिम्ना च वपुषः कालायसपरमाणुभिरिव केवलैर्निर्मितम्, प्रेतपतिमिवापरम्, प्रतिपक्षमिव पुण्यराशेः, आशयमिव पाप्मनः, विनापि क्रोधकारणादाबद्ध भीषणभृकुटिरौद्रतरेणाननेनौरक्तकेकरतरकनीनिकेन च चक्षुषा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिवोपजनयन्तम्, आशये केशेषु चास्निग्धम्, आनने ज्ञाने चान्धकारितम्, वर्णे चरिते च कृष्णम्, निवसने कर्मणि च मलिनम्, वचसि वपुषि च पूरुषम्, अदृष्टाश्रुतानुरूपमप्याकारप्रत्ययादेवानुमीयमानक्रौर्यदोषं पुरुषमद्राक्षम् । आलोक्य च तं तादृशमात्मन निष्प्रत्याश एवापृच्छम् - ‘भद्र कस्त्वम् ? किमर्थं वा त्वया बद्धोऽस्मि । यद्यामिषतृष्णया, तत्किमिति सुप्त एव न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन । अथ केवलमेव कौतुकात् । ततः कृतं कौतुकम् । मुञ्च मामिदानीं त्वं भद्रमुखः । मया खलु वल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालक्षेपक्षमं वर्तते मैं हृदयम् । भवानपि प्राणिधर्मे वर्तते' एवमुक्तः स मामुक्तेवान् -
तश्च पाशविरहितं कालपुरुषमिव यममिवातिकठिनतयातिकठोरतया वपुषो देहस्य कालिम्ना कृष्णत्वेन च केवलैः कालायस परमाणुभिर्लेहाणुभिरिव निर्मितं रचितमपरं प्रेतपतिं यममिव पुण्यराशेः सुकृतसङ्घातस्य प्रतिपक्षमिवासहनमिव पाप्मनः पापिष्ठस्याशेयमिवाभिप्रायमिव । क्रोधकारणाद्विनापि मन्युहेतुं विनाप्याबद्धा या भीषणा भैरवा भृकुटयस्ताभिः रौद्रतरेण भीषणतरेणाननेन मुखेनारक्ता लोहिता केकरतरा अतिवक्रा कनीनिका यस्यैवंभूतेन च चक्षुषा नयनेन कृत्वा सकलजनभयंकरस्य भगवतः कृतान्तस्यापि भयमिव भीतिमिवोपजनयन्तमुत्पादयन्तं निष्पादयन्तम्, आशयेऽभिप्राये केशेषु चालकेषु चास्निग्धं रूक्षमानने मुखे ज्ञाने चावबोधे चान्धकारितं प्राप्तान्धकारम्, वर्णे देणे चरित आचरणे च कृष्णं श्यामम्, निवसने वस्त्रे कर्मणि क्रियायां च मलिनं कश्मलम्, वचसि वाचि वपुषि शरीरे च परुषं कठिनम्, अदृष्टश्रुतमनुरूपं स्वैरूपं यस्यैवंभूतमप्याकारप्रत्ययादाकृतेर्ज्ञानादेवानुमीयमानमनुमानेन ज्ञायमानं क्रौर्यदोषं क्रूरतादूषणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलोकयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः स्वस्योपरि निष्प्रत्याशी निराश एवाहमपृच्छमप्रश्नयम् । हे भद्र, कस्त्वम् । किमर्थं किंप्रयोजनं वाहं बद्धोऽस्मि । यद्यामिषतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपराधिना । अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । भद्रमुखः कल्याणकृद्वदनस्त्वमिदानीं सांप्रतं मां मुञ्च त्यज । वल्लभजने प्रणयिनि जन उत्कण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्ठं गन्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमकालक्षेपक्षमं कालविलम्बे समर्थं न वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एवमुक्तः कथितो मामित्युक्तवान्भणितवान् । टिप्प० - 1 आश्रयमित्येव पाठः । 2 'अदृष्टाश्रुताननुभूतमपि आकारप्रत्ययादेवानुमीयमानक्रौर्यदोषम्' इत्युचितः पाठः । न दृष्टं न श्रुतं न अनुभूतमपि, इति तदर्थः ।
पाटा० - १ आश्रयम्. २ भ्रुकुटी. ३ आरक्तकेकरतल; रक्ततर. ४ चक्षुषा च ५ अदृष्टश्रुतानुरूपम्; अदृष्टश्रुतानुभूतम्. ६ च ७ अनुभावितेनापि. ८ जनदर्शन. ९ मद्धृदयम्. १० प्राणिधर्मे प्रवर्तते; प्राणिधर्मेषु वर्तत एवेति ११ स त्वेवमुक्तः. १२ प्रत्यवादीत्.
(वृक्षे निद्रितस्य तस्य चण्डालहस्ते गमनम्
उत्तरभागः ।
685