________________
वस्थश्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवानेवान्यतमस्य तमस्विनीतिमिरसंघातस्येवार्ककरतिरस्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीरतरुनिकुञ्जस्योपर्यात्मानममुञ्चम् । चिरादिवोन्मुक्ताध्वश्रमक्लमोऽवतीर्य शीतलतरुतलच्छायास्थितो दलगहनसंरोधशिशिरमरविन्दकिंजल्करजोवाससुरभि बिसरसर्कैषायमापीयमानमेवोत्पादितर्पुनरुत्कपानस्पृहमा तृप्तेः पयो निपीय, यथाप्राप्तैरकठोरकमलकर्णिकाबीजैर्वीरैतरुपर्णाङ्कुरर्फलैश्च कृत्वा क्षुधः प्रतीकारम्, अपराह्णसमये पुनः कियन्तमप्यध्वानं यास्यामीति मनसि कृत्वा, अध्वश्रमनिः सहान्यङ्गानि विश्रामयितुमन्यतमामविच्छिन्नच्छायां शाखामारुह्य तरोर्मूलभाग एवावातिष्ठम् । तथास्थितश्चाध्वश्रमसुलभां निद्रामगच्छम् । चिरादिवं च लब्धप्रबोधो बद्धमात्मानमनुन्मोचनीयैस्तन्तुपाशैरपश्यम् । अग्रतश्च पाश -
-
***
1
नेनकम्पितः प्रचलितः कण्टो निगरणो यस्य स तादृश्यवस्था यस्य सः । तदवस्थश्च शिथिलायमाना श्लथायमाना पक्षतिः पक्षमूलं यस्यैवंभूतः । 'स्त्री पक्षतिः पक्षमूलम्' इत्यमरः । अत्र पतामि अत्र पतामीति परवानेव परायत्त एव सरस्तीरे यस्तरुनिकुञ्जस्तस्योपर्यात्मानं स्वममुञ्चं मुक्तवान् । 'निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे' इत्यमरः । इतो निकुञ्ज विशेषयन्नाह - अन्येति । अन्यतमस्यानिर्दिष्टनामकस्य तमस्विनी यामिनी तस्यास्तिमिरसंघातस्येव ध्वान्तसमूहस्येवार्ककरतिरस्कारिणो रविकिरणन्यक्कृतिविधायिनो घनो निबिडो हरितो नीलो यः पल्लवभरः किसलयसंभारस्तेनावनम्रस्यावनतस्यासन्नतरस्यातिसमीपवर्तिनोऽतिनिकटवर्तिनः । चिरादिव चिरकालेनं बहुवर्षेण दिवसेोन्मुक्तो गतः अध्वश्रमक्लमः प्रवासखेदो यस्य सोऽवतीर्यावरोहणं कृत्वा शीतला शिशिरा या तरोश्छाया आतपाभवस्तस्यां स्थितः कृतावस्थानः । 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः । दलैः पत्रैर्गहनं निबिडम् । अर्थाद्वनान्तरस्य संरोधेनावरणेन शिशिरं शीतलम् अरविन्दं कमलं तस्य किंजल्कं केसरं तस्य रजः परागस्तस्य वासो गन्धस्तेन सुरभि सुगन्धं बिसरसेन तन्तुलमधुना कषायं वरसम् । ‘तुवरस्तु कषायोऽस्त्री' इत्यमरः । आपीयमानमेवास्वाद्यमानमेवोत्पादिता पुनरुत्कयोर्कण्टया पानस्पृहा वाञ्छा येन तत् । यद्वानुत्पादिता पुनः पानस्पृहा वाञ्छा येन तदित्यर्थः । आ तृप्तेः सौहित्यपर्यन्तं पयो जलं निपीय पानं कृत्वा जलं पीत्वा, यथाप्राप्तैर्यथालब्धैरकटोरा सुकुमाराऽकठिना या कमलकर्णिका वराटकस्तस्या बीजैः फलैर्वीरतरुररुष्करः । 'वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिषु' इत्यमरः । तस्य पर्णानि पत्राण्यङ्कुराः प्ररोहा नवाङ्कुराः फलानि सस्यानि च तैः क्षुधो बुभुक्षायाः प्रतीकारं तत्प्रशमनोपायं कृत्वा विधायापराह्नसमये तृतीयप्रहरे पुनः कियन्तमप्यध्वानं मार्गं यास्यामि गमिष्यामीति मनसि कृत्वेति चित्ते विचिन्त्य विचारयित्वाध्वश्रमेण मार्गखेदेन निःसहान्यशक्तान्यसमर्थान्यङ्गानि विश्रामयितुं विश्रामं कारयितुमन्यतमामन्यतरामविच्छिन्नात्रुटिता छाया यस्यां निरन्तरा छाया यस्यामेतादृशीं शाखामारुह्यारोहणं कृत्वा तरोर्मूलभाग एवावातिष्ठैमुपाविशम् । तथास्थितश्च तथावस्थश्चाध्वश्रमेण मार्गखेदेन सुलभां सुप्रापां निद्रां प्रमीलामगच्छमप्रापम् ।
चिरादिव च चिरकालसदृशमिव बहुकालसदृशमिव । अत्रेवशब्दः सदृशार्थे । लब्धः प्रातः प्रबोधो जागरो येन सोऽनुन्मोचनीयैरुन्मोचयितुमशक्यैस्तन्तुपाशैरात्मानं स्वं बद्धं संयमितमपश्यं व्यलोकयम् । अग्रतश्च पुर
-
टिप्पo - 1 दलगहन (निबिड ) तया यः सूर्यरश्मीनां संरोधस्तेन शिशिरम्, इति स्पष्टोर्थः । 2 उत्कण्ठापर्याय उत्काशब्दो न प्रसिद्धः ( उत्कण्ठितापर्यायोस्ति) तस्मात् 'पुनरुक्तपानस्पृहम्' (पुनरुक्ता द्विरावृत्ता) ( अधिका) पानस्पृहा येन) इति पाठः । 3 अतिष्ठमित्येव ग्रन्थपाठः । 'अवपूर्वकत्वे तु आत्मनेपदं स्यात् ।'
पाठा० - १ पतन्नेवाहितगमनप्रयत्नः २ दृष्टिहारिणां हरितघननिबिडपलब भरावनप्रासन्नतरस्य सरस्तीरजम्बूनिकुञ्जस्य. ३ निबिड ४ कषायमधुरम् ५ अपुनरुक्तः ६ निपीयमानप्राप्तैः. ७ तीरतरु. ८ अङ्कुरपत्रैश्च; अङ्कुरैः फलैश्च ९ विश्रमयितुम्. १० इव.
684
कादम्बरी ।
कथायाम्