________________
'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिषलुब्धेन कुतूहलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः । तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरात्मना कथितो यैथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठतीति । तया च श्रुत्वोत्पन्नकौतुकात्त्वद्ग्रहणाय बहेव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादितोऽसि । तदहं तत्पादमूलं त्वां प्रापयामि । बन्धमोक्षे चाधुना सा ते प्रभवति' इति ।
अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि, संविग्नान्तरात्मा चेतस्यकरवम्- 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरः शेखराभ्यर्चितचरणसरसिजायाः श्रियो जातेन, जगत्त्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन, दिव्यलोकां श्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पक्कणं 'प्रवेष्टव्यम् ।'
किं तदित्याह - महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चयेन क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । ‘जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिषलुब्धेन मांसगृधुना कुतूहलेन कौतूहलेन वा त्वं बद्धः संदानितः । खलु निश्चये । मम स्वामी पक्कणाधिपतिः पक्कणः शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठे मातङ्गकैरन्त्यजैः प्रतिबद्धायां कृतगृहादिरचनायां भूमौ कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कणः शबरावासो घोषस्त्वाभीरपल्लिका' इति हैमः । तस्य पक्कणाधीशस्य दुहिता सुता कौतुकमय आश्चर्यमयेऽत्यद्भुतरूपवत्त्वाठप्रथम आद्ये वयसि दशायां वर्तते । केनाप्यज्ञाताभिधानेन दुरात्मना तस्या दुहितायास्त्वं कथितो निवेदितो यथा जाबालेर्मुनेराश्रम एवंगुणैर्विशिष्टो महाश्चर्यकारी महाकौतुककृच्छुकस्तिष्ठत्यास्त इति । तया च पक्कणाधिपतिसुतया श्रुत्वाकर्ण्योत्पन्नकौतुकात्संजातकुतूहलात्त्वद्ग्रहणाय त्वदानयनाय बहव एवापरे मादृशा मत्सदृशाः समादिष्टा आज्ञापिताः । तदिति हेत्वर्थे । अद्य पुण्यैः सुकृतैस्त्वं समासादितः प्राप्तोऽसि तत्तस्माद्धेतोस्तस्याः पादमूलं चरणसमीपमहं श्वपचस्त्वां प्रापयामि नयामि । अधुना सांप्रतमिति हेतोस्ते तव बन्धमोक्षे सैव चाण्डालसुतैव प्रभवति समर्था भवति । नाहम् ।
अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वज्रं तेन शिरस्युत्तमाङ्गे ताडित इव संविग्न उद्विग्नोऽन्तरात्मा यस्यैवंभूत इति चेि चित्तेऽकरवं व्यथामन्वतिष्ठम् । अहो इति खेदे । मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदैत्यानां शिरः शेखरैर्मौलिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवंविधायाः श्रियो लक्ष्म्या जातेनोत्पन्नेन जगत्त्रयनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निजपाणिभिः संवर्धितेन वृद्धिं प्रापितेन दिव्यो देवयुक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनावस्थानशीलेन भूत्वा 'पुलिन्दा नाहला निष्ठा शबरा बरुटा भटाः । माला भिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः ॥' एतैर्लेच्छजातिभिरपि दूरतः परित्यक्तः प्रवेशो यस्मिन्त्रेतादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र -
टिप्प० - 1 पूर्वं धर्मिनिर्देशादत्रापि समविशेष्यः 'कुतूहलिना (कौतुकयुक्तेन ) ' इत्येव पाठः सम्यक् । 2 कौतुकमये कौतुकबहुले । प्रथमे वयसि (कौमारे ) सर्वस्य कि कौतुकानि प्रतिपदं भवन्ति । 3 विद्यार्थिभिस्तु 'दुहितुः' इति रूपं ज्ञेयम् । 4 'उत्पन्नकौतुकया' इत्येव पाठः । 5 बन्धे मोक्षे चेत्येव पाठः ।
पाठा० - १ कुतूहलिना. २ मातङ्ग ३ यथा किल. ४ तिष्ठतीति. ५ बहब एवापरेऽपि; अपरिमिता. ६ नयाम्यहम् ७ बन्धमोक्षे च ८ शुष्काशनिना. ९ सुरासुरशिखराभ्यर्चिते चरणसरसिजया श्रिया जनित्वा. १० आश्रय ११ द्रष्टव्यम्.
686
कादम्बरी ।
कथायाम्