SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तया गत्या गच्छतश्चातिमलिनपटच्चराच्छादितानसंस्कारमलिनकायाननेकोद्धाध्वधूलिपरुषमूर्धजान्, ध्वजानिवाध्वक्लेशस्य, आश्रयानिव श्रमस्य, पदन्यासानिव दौर्मनस्यस्य, आवासानिव प्रवासस्य, संदर्भानिव सर्वदुःखानाम्, दूरत एव त्वरितकसमेतांस्ताँल्लेखहारकान् । आलोक्य च तस्मिन्नेव मातृगृहाङ्गणे स्थिता तेषामाह्वानायादिदेश । अनन्तरं चातर्कितापतितदर्शनद्विगुणितदुःखावेगान्मुषितानिव, उन्मुक्तानिवेन्द्रियैः, दारुमयानिव शून्यशरीरान्, निर्जीवानिवोपसर्पतः पुरस्तात्पतन्तीव बाष्पान्धा साध्वसस्खलितचरणकमला कतिचिद्गत्वा पदानि, गद्गदतरमुच्चैरकृतप्रणामानेवावादीत् - 'भद्राः, कथयताशु वत्सस्य मे वार्तामात्रम् । इदं त्वन्यथैव किमपि कथयति मे हृदयम्, अप्रत्ययमेवाश्रयते । वत्सो दृष्टो वा न भवद्भिः ?' इत्येवं पृष्टास्तु ते सहसागतबाष्पवेगमवनिनिवेशितोत्तमाङ्गाः प्रणामापदेशेनोत्सृज्य कृच्छ्रादिवाभिमुखमुन्नमितवदना व्यज्ञापयन् - ‘देवि, दृष्टोऽस्माभिरच्छोदसरस्तीरे युवराजः । शेषमेष त्वरितको निवेदयिष्यति । इत्यभिवदत एव तानुद्वाष्पमुखी प्रत्युवाच - *********** उद्योगस्तेनायासितयायासं प्राप्तया गत्या गच्छतो व्रजतोऽतिमलिनं यत्पटच्चरं जीर्णवस्त्रम् । 'पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ' इत्यमरः । असंस्कारेणानधिवासनेन मलिनो मलाक्रान्तः कायो येषां तान् । अनेका विविधा उत्प्राबल्येन बद्धा लग्ना अध्वधूलयो मार्गरणवस्ताभिः परुषाः कठिना मूर्धजाः केशा येषां ते तथा तान् । लग्नधूलिसाम्यादृप्रेक्षते - अध्वक्लेशस्य मार्गखेदस्य ध्वजानिव चिह्नानीव । 'ध्वजश्चिह्न पताकायां ध्वजः शौण्डिकशेफसोः' इति विश्वः । श्रमस्याश्रयानिवाधारानिव, दौर्मनस्यस्याप्रसन्नचित्तस्य पदन्यासानिव, प्रवासस्य परदेशगमनस्यावासानिवालयानिव, सर्वदुःखानां संदर्भानिव गुम्फानिव । अनन्तरं चेति । तदाह्वानानन्तरमतर्कितमचिन्तितमापतितं संजातं यद्दर्शनमवलोकनं तेन द्विगुणितो दुःखावेगो येषां ते तथा तान् । मुषितानिव चौटुंण्टितानिव, इन्द्रियैः करणैरुन्मुक्तानिव त्यक्तानिव, दारुमयानिव काष्ठनिर्मितानिव शून्यशरीरान्, निर्जीवानिव विगतात्मन इव, उपसर्पतः समीप आगच्छतः पुरस्तात्पतन्तीव संसन्तीव बाष्पेणाश्रुणान्धा गताक्षा साध्वसं भयं किं कथयिष्यन्त्येत इति वितर्कजनितं तस्मात्स्खलितं स्खलनां प्राप्तं चरणकमलं यस्याः सा तथा कतिचित्पदानि गत्वा गद्गदतरं यथा स्यात्तथा उच्चै ढस्वरेणाकृतप्रणामानेवाविहितनमस्कारानेव तानवादीत् । भद्राः, यूयमाशु शीघ्रं मे मम वत्सस्य वार्तामात्रं कथयत । इदं तु मे मम हृदयं चेतोऽन्यथैव किमपि कथयत्यप्रत्ययमेवाविश्वासमेवाश्रयते । मे मम वत्सो दृष्टोऽवलोकितो भवद्भिर्युष्माभिर्न वेति । इत्येवं पृष्टास्तु ते लेखहारकाः सहसैव सद्य एवागतो बाष्पवेगो यथा स्यात्तथावनौ निवेशितं स्थापितमुत्तमाङ्ग शिरो यैस्ते तथा प्रणामापदेशेन नमस्कृतिमिषेणोत्सृज्य कृच्छादिव कष्टादिवाभिमुखं संमुखमुत्रमितमुच्चैःकृतं वदनं यैस्ते तथा व्यज्ञापयन्विज्ञप्तिं चक्रुः । किं कथयामासुरित्याकाङ्क्षायामाह - देवीति । हे देवि, अच्छोदसरस्तीरेऽस्माभिर्युवराजो दृष्टः । शेषमवशिष्टमेष त्वरितको युवराजभृत्यो निवेदयिष्यति कथयिष्यति इत्यभिवदत एवेति ब्रुवत एव तानुदूर्ध्वं बाष्पो नेत्राम्बु यस्मिन्नेवंभूतं मुखमाननं यस्याः सा विलासवती प्रत्युवाच प्रत्यब्रवीत् । - - - - - - - - - - टिप्प० - 1 तेन आच्छादितान् संवीतानित्यर्थो बोध्यः । 2 सहसाऽऽगतं बाष्पवेगं प्रणामापदेशेनोत्सृज्य इत्यन्वयः । - - - - - - - पाठा० - १ अनेकधैवोद्वद्धः. २ आश्रमानिव; श्रमस्यावासानिव. ३ अदूरतः. ४ पतन्ती. ५ चरणानि. ६ सगद्गदस्वरम्. ७ वार्ताम्. ८ कथमपि करोति मे हृदयम्. ९ ध्रियते गम वत्सो दृष्टो वा भवद्धिः, १० उपसृत्य उपसृज्य. ११ व्यज्ञापयन्. (650 कादम्बरी। कथायाम
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy