________________
'किमपरमयं तपस्वी निवेदयिष्यति ? दूरतः प्रभृत्यपसृतप्रहर्षेणैवोपसर्पणेन, प्रतिलेखमालिकाशून्यैः शिरोभिः, आविषण्णदीनैराननैः, प्रयत्नसंरक्षिताश्रुमोक्षदुःखिताभ्यां लोचनाभ्याम्, मन्मुखसमक्षमधारणेन च दृष्टेर्यदावेदितव्यं तद्भवद्भिरेवावेदितम् । हा वत्स, जगदेकचन्द्र, चन्द्रापीड, चन्द्रानन, चन्द्रशीतलप्रकृते, चन्द्राभिरामगुण, लोचनानन्दभूत, किंभूतं ते येन नांगतोऽसि ? तात चन्द्रापीड ! पीडिता ब्रवीमि न कोपादुपालभमाना - न युक्तमेतत्तव 'अम्ब, न परिलम्बं मनागपि करोमि इति तथा मे पुरः प्रतिज्ञायान्यत्र क्वाप्यवस्थातुम् । वत्स, गच्छत एव ते मयाऽस्य हतहृदयस्य शङ्कयैव ज्ञातं दुष्करं मे वत्सस्य पुनर्मुखावलोकनमिति । बलाद्गतोऽसि । किं करोमि । को वात्र दोषो वत्सस्य । मन्दभाग्याया ममैवैतान्यपुण्यानां विलसितानि । भवन्त्यपुण्यवत्योऽपि लोके न पुनर्मया सदृशीपापकारिणी, यस्यास्त्वमेक एवमकाण्ड एवाच्छिद्य क्वापि नीतोऽसि । विप्रलब्धास्मि दग्धवेधसा । वत्स, सुदूरस्यापि पादयोः पतामि ते । निवर्तस्वैकवारम् । अम्बेत्यालपतस्ते वद -
***********
किमपरमन्यदयं तपस्वी वराकः । शोच्य इचि यावत् । निवेदयिष्यति । दूरतः प्रभृति दूरादारभ्यापसृतो दूरीभूतः प्रहर्षो यस्मादेवंभूतेनोपसर्पणेन समीपागमनेन प्रतिलेखानां ततः प्रहितपत्राणां मालिकाशून्यैः संग्रहितैः शिरोभिरुत्तमाङ्गरासमन्ताद्विषण्णानि विलक्षाणि च दीनानि दुःखितानि च विषण्णानि दीनान्येवंभूतैराननैर्मुखैः, प्रयत्नेनोद्यमेन संरक्षितमश्रुमोक्षणं तेन दुःखिताभ्यां लोचनाभ्यां नयनाभ्यां नेत्राभ्यां, दृष्टेशो मन्मुखसमक्षं यदधारणमस्थापनं तेन च यदावेदितव्यं निवेदनाहँ तत्सर्वं भवद्भिरावेदितं कथितम् । हा इति खेदे । हे वत्स हे पुत्र, हे जगति लोक एकोऽद्वितीयश्चन्द्र, हे चन्द्रापीड । चन्द्रवदाननं मुखं यस्य तस्य संबोधनम् । चन्द्रवच्छीतला शिशिरा प्रकृतिः स्वभावो यस्य तस्य संबोधनम् । चन्द्रवदभिरामा उज्ज्वला गुणा यस्य तस्य संबोधनम् । लोचनानां नेत्राणामानन्दभूतः । प्रमोदभूतस्तस्य संबोधनम् । ते तव किं भूतं किं जातं येन हे तात हे पुत्र, चन्द्रापीड, त्वं नागतोऽसि नायातोऽसि । 'तातः पितरि पुत्रे च' इत्यनेकार्थः । पीडिताहं ब्रवीमि । न कोपात्क्रोधादुपालभमानोपालम्भं ददाना । किं कथितवतीत्याह - न युक्तमिति । हे अम्ब हे मातः, न परिलम्बं विलम्ब मनागपि करोमीति तथा तेन प्रकारेण पुरोऽग्रे प्रतिज्ञाय प्रतिज्ञा कृत्वान्यत्रान्यस्मिन्स्थले क्वाप्येवमवस्थातुं न युक्तमेतत् । हे वत्स हे पुत्र, ते तव गच्छत एव व्रजत एव मयास्य हतहृदयस्य हतचेतसः शङ्कयैवारेकयैवेति ज्ञातमवगतम् । इतिज्ञाप्यमाह - दुष्करमिति । दुष्करं कठिनं मे वत्सस्य पुनर्मुखावलोकनमिति वक्त्रनिरीक्षणमपि । बलाद्धठात्त्वं गतोऽसि । किं करोम्यहम् । अत्र वत्सस्य पुत्रस्य को वा दोषोऽपराधः । मन्दभाग्यायाः स्वल्पदैवाया ममैवापुण्यानामश्रेयसामेतानि विलसितानि विचेष्टितानि । लोकेऽपुण्यवत्योऽपि भवन्ति नार्यः । न पुनर्मया सदृशी पापकारिणी । तत्रार्थे हेतुमाह - यस्या इति । यस्या विलासवत्यास्त्वमेक एवमकाण्ड एवाप्रस्ताव एवाच्छिद्योद्दाल्य क्वाप्यनिर्वचनीयस्थले नीतोऽसि प्रापितोऽसि । दग्धवेधसा ज्वलितविधानाहं विप्रलब्धास्मि वञ्चितास्मि । 'विप्रलब्धस्तु वञ्चितः इति हैमः । हे वत्स, सुदूरस्याप्यतिदविष्ठस्यापि ते तव पादयोश्चरणयोः पतामि पतनं करोमि नमस्करोमि । एकवारं निवर्तस्व पश्चादागच्छ । अम्बेत्यालपतो - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'आविषण्णदूनः (दुःखितैः), इति पाठः । 2 'किंभूतं ते येन नागतोसि । इति पृथग्वाक्यम् । 'तात चन्द्रापीड पीडिता ब्रवीमि न कोपाद्' इत्यादि पृथग्वाक्यम् । 3 'अपुण्यवत्योऽपि भवन्तु, न पुनर्मया सदृशी' इति पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ परतरम्. २ अकृत; अनुद्गत. ३ दुःखिताभ्याम्. ४ मन्मुखसमवधारणेन. ५ आयासि; आयातोऽसि. ६ अपुण्यवन्त्यः. ७ अवच्छिय. ८ दूरं गतस्यापि.
अशुभमनुमाय तस्या विलापः
उत्तरभागः।