________________
श्रुत्वा समुच्छसितचेताश्चकार चेतसि - 'अहो धन्योऽस्मि । अहो विधेर्भगवतोऽनुग्राह्योऽस्मि, यस्य मेऽनुध्यानानन्तरमेव परागतो द्वितीयं हृदयं वैशम्पायनः' इति । प्रहर्षपरवशश्च प्रविशन्तमालोक्य दूरत एव कृतप्रणाम केयूरकमवादीत् - 'केयूरक, करतलवर्तिनी सिद्धिमधुनावधारय । प्राप्तो वैशम्पायनः' इति । स तु तदाकर्ण्य गमनपरिलम्बकृतया चिन्तयान्तःशून्य एव 'भद्रकमापतितम्, महती हृदयनिर्वृतिर्देवस्य जाता' इत्यभिदधदेवोपसृत्योपविश्य पार्थे, वैशम्पायनागमनालापमेवानुबध्य मुहूर्तमिव संज्ञोत्सारितसमस्तपरिजनं चन्द्रापीडं व्यज्ञपयत् - 'देव, सर्वतो विस्फुरन्ती तडिदिव बलाहकोब्राहम्, उपारूढश्यामिका मेघलेखेव सलिलागमनम्, उपदर्शितपाण्डुच्छविः प्राचीव चन्द्रोदयम्, परिमलग्राहिणी मलयानिलागतिरिव वसन्तमासावतारम्, समुच्छसितमकरध्वजा मधुमासलक्ष्मीरिव पल्लवोद्भेदम्, उल्लसितरागा पल्लवोद्गतिरिव कुसुमनिर्गमम्, विकसितकाशकुसुममञ्जरीव शरदारम्भम्, अवस्थैवेयमावेदयति निःसंशयं देवस्य गमनम् । अवश्यं च देवस्य देवीप्राप्त्या भवितव्यम् । केन कदा -
***********
श्रुत्वाकर्ण्य समुच्छसितमुल्लसितं चेतः स्वान्तं यस्यैवंविधश्चेतसि चित्ते चकार कृतवान् । इतीति शेषः । तदेव दर्शयन्नाह - अहो इति । अहो इत्याश्चर्ये । अहं धन्यः कृतपुण्योऽस्मि । अहो इति पूर्ववत् । भगवतो महात्म्यवतो विधेर्विधातुरनुग्राह्योऽनुग्रहविषयीकरणयोग्योस्मि । तन्निदानमाह - यस्येति । यस्य मे मम चन्द्रापीडस्यानुध्यानानन्तरमेवानुस्मरणानन्तरमेव द्वितीयं हृदयं वैशम्पायनो मन्त्रिपुत्रः परागतः समायातः । अमुना प्रकारेण प्रहर्षपरवशः प्रमोदपरतन्त्रः । च पुनरर्थे । प्रविशन्तं प्रवेशं कुर्वन्तं दूरत एव दविष्टप्रदेशादेव कृतप्रणामं विहितनमस्कार केयूरकमालोक्य निरीक्ष्येत्यवादीदिदमब्रवीत् । इतिवाच्यमाह - केयूरक इति । हे केयूरक, अधुना सांप्रतं करतलवर्तिनी हस्ततलगतां सिद्धिं कार्यनिष्पत्तिमवधारय जानीहि । यतो वैशम्पायनः प्राप्तः समागतः । स त्विति । स केयूरकस्तत्पूर्वोक्तमाकर्ण्य निशम्य गमनस्य यात्रायाः परिलम्बो विलम्बस्तेन कृतयोत्पादितया चिन्तयाान्तःशून्य एव 'भद्रकं कल्याणमापतितं संजातम् । देवस्य भवतो महत्यत्यायता हृदयनिवृतिश्चित्तसंतुष्टिर्जाता ।' इत्यभिदधदेवेति कथयन्नेवोपसृत्योपसरणं कृत्वा पार्थेऽन्तिक उपविश्यास्थाय मुहूर्तमिव मुहूर्तमात्रं वैशम्पायनस्यागमनमर्थादभिमुखयानमालापं संलापमनुबध्यारभ्य संज्ञयोत्सारितो दूरीकृतः समस्तपरिजनः समग्रसेवकजनो येनैवंभूतं चन्द्रापीडं व्यज्ञपयद्विज्ञप्तिविषयीचक्रे । देव इति । हे देव हे स्वामिन्, इयमवस्थैव निःसंशयं निरारेक देवस्य भवतो गमनं यानमावेदयति कथयतीति दूरेणान्वयः । केवेत्यपेक्षायामाह - सर्वत इति । बलाहकस्य मेघस्योबाहमागमनं सर्वतोऽभितो विस्फुरन्ती देदीप्यमाना तडिदिव विद्युदिव । आवेदयतीत्यस्य सर्वत्र संबन्धः । तथा सलिलस्याम्भस आगमनमुपारूढा प्राप्ता श्यामिका ययैवंविधा मेघस्य लेखा पङ्क्तिरिव । तथा चन्द्रस्य शशिन उदयमुद्गमनमुपदर्शिता पाण्ड्वी छविः कान्तिर्ययैवंविधा प्राचीव पूर्वदिगिव । तथा वसन्तमासस्य मधुमासस्यावतारं प्रादुर्भावं परिमलमामाद गलातीत्येवंशीला मलयानिलस्य मलयाचलवायोरागतिरिवागमनमिव । तथा पल्लवस्य किसलयस्योद्भेदमुद्गमनं समुच्छसितो वृद्धिं प्राप्तो मकरध्वजो मदनो यस्यामेतादृशी मधुमासलक्ष्मीरिव वसन्तमासश्रीरिव । तथा कुसुमस्य पुष्पस्य निर्गमं निःसरणमुल्लसित उल्लासं प्राप्तो रागो रक्तता यस्यामेतादृशी पल्लवोद्गतिरिव किसलयोद्भेद इव । तथा शरदारम्भं घनात्ययप्रारम्भ विकलिता विनिद्रिता काशकुसुममञ्जरीव । इयमवस्थैव देवस्य गमनं यानमावेदयतीत्यन्वयस्तु प्रागेवोक्तः । अवश्यं चेति । देवस्य स्वामिनोऽवश्यं निश्चयेन देवीप्राप्त्या भवितव्यम् । अवार्थ उपपत्तिमाह - केनेति । केन पुरुषेण कदा वा कस्मिन्काले ज्योत्स्नारहितश्चन्द्रिकावर्जितश्चन्द्रमाः कुमुदबा -
पाठा० -१ प्राप्तो हि. २ गगन. ३ उन्नादम्. ४ अभ्युच्छ्रित. ५ रागपल्लव. ६ आवेदयति देवस्य.
(वैशम्पायनस्यागमनश्रवणम् ।
। उत्तरभागः।।
529