________________
तीर्य सिप्रां तस्मिन्नेव भगवतः कार्तिकेयस्यायतने तत्प्रतिवार्ता प्रतिपालयन्नतिष्ठत् । तत्रस्थश्च कुतूहलात्तस्मिन्नेव वाजिवन्दे निक्षिप्तदृष्टिः पार्थस्थितां हस्तेनाकृष्य पत्रलेखामवादीत् - 'पत्रलेखे, पश्य । य एष पुर एवार्ककिरणनिवारणोल्लासितया प्रेङ्खदालोललम्बशिखया मयूरपिच्छमय्या वङ्किकया दुर्विभाव्यवदनोऽश्चवारो ज्ञायते, केयूरकोऽयम् इति । यावत्तया सहैव निरूपयत्येव, तावत्तस्मात्प्रहितपुरुषादुपलब्धात्मावस्थानं दृष्टिपथ एवावतीर्य तुरंगमादापतन्तं दूराद्दुतागमनधूलिधूसरश्यामीकृतशरीरं परिवर्तितमिवेतराकारेणोज्झिताङ्गरागसंस्कारमलिनेन वपुषा विषादशून्येन च मुखेनान्तर्दुःखसंभारपिशुनया च दृष्ट्या दूरत एवापृष्टामपि कष्टां कादम्बरीसमामवस्थामनक्षरमावेदयन्तं केयूरकमद्राक्षीत् ।
दृष्ट्वा च दर्शितप्रीतिरेह्येहीत्याहूय संसंभ्रमप्रणतोपसृतमतिदूरप्रसारिताभ्यां दोर्थ्यां पर्य -
***********
प्रतिवार्ता प्रत्युत्तरं प्रतिपालयन्विलोकयन्नतिष्ठत्तस्थौ । तत्रस्थ इति । तत्र चैत्ये स्थितश्च कुतूहलात्कौतुकात्तस्मिन्नेव पूर्वप्रतिपादित एव वाजिवृन्देऽश्वसमूहे निक्षिप्ता स्थापिता दृष्टिदृग्येनैवंभूतः पार्थस्थितां समीपस्थां पत्रलेखां हस्तेन करेणाकृष्याकर्षणं कृत्वावादीदवोचत् । किमवादीदित्याह - पत्रलेखे इति । हे पत्रलेखे, पश्यावलोकय । य एष पुरोऽग्र एवार्ककिरणाः सूर्यरश्मयस्तेषां निवारणे दूरीकरण उल्लासितयोल्लासं प्राप्तया प्रेजन्ती दीप्यन्ती आलोला चञ्चला लम्बायता शिखाग्रं यस्याः सा तथा तया । मयूरपिच्छैः कलापिबर्हनिष्पन्ना मयूरपिच्छमयी । 'प्राचुर्यविकारार्थे इति मयट् । तयैवंविधया वङ्किकया शीकरिण्या दुर्विभाव्यं दुःखेन ज्ञातुं शक्यं वदनमाननं यस्यैवंभूतोऽश्चवारोऽयं केयूरक इति ज्ञायते संभाव्यते । स यावद्यावत्कालं तया सह. पत्रलेखया सममेवं निरूपयत्येव कथयत्येव, तावत्कालं तस्मात्प्रहितपुरुषात्प्रेषितनरादुपलब्धं ज्ञातमात्मनः स्वस्यावस्थानमुपवेशनं येनैवंभूतं केयूरक कादम्बर्या अनुचरमद्राक्षीदपश्यदिति दूरेणान्वयः । किं कुर्वन्तं केयूरकम् । दूरादापतन्तमागच्छन्तम् । किं कृत्वा । अवतीर्यावरोहणं कृत्वा । कस्मात् । तुरंगमादधात् । कस्मिन् । दृष्टिपथ एव दृग्विलोकन एव । चन्द्रापीडस्येति शेषः । दृष्टेः पन्था दृष्टिपथः । 'ऋक्पूरब्धःपथामानक्षे' इत्यच् । इतः केयूरक विशेषयन्नाह - द्रुत इति । द्रुतं शीघ्रं यदागमनं तेन धूल्या रजसा धूसरमीषत्पाण्डुरमत एव श्यामीकृतं शरीरं यस्य सः । उत्प्रेक्षते - इतरो भिन्नो य आकार आकृतिस्तेन परिवर्तितमिव विनिमयीकृतमिव । उज्झितो दूरीकृतो योऽङ्गरागो विलेपनं संस्कारश्चाधिवासनं ताभ्यां मलिनेन कश्मलेन वपुषा शरीरेण विषादो हर्षाभावस्तेन कृत्वा शून्येन निस्तेजसा मुखेनाननेन चान्तमध्ये यदुःखमसातं तस्य संभारः समूहस्तस्य पिशुनया ज्ञापिकया दृष्ट्वा च चक्षुषा च दूरत एव दूरप्रदेशादेवापृष्टामप्यप्रश्नविषयीकृतामपि कष्टं विद्यते यस्यां सा कष्टा ताम् । अस्त्यर्थेऽप्रत्ययः । एवंविधां कादम्बर्याः समां अवस्था दशामनक्षरं वाग्व्यापाररहितं यथा स्यात्तथावेदयन्तं ज्ञापयन्तमद्राक्षीदिति । अन्वयस्तु पूर्वमेवोक्तः।
दृष्ट्वा चेति । दृष्ट्वा च विलोक्य च तं केयूरकं दर्शिता प्रकटिता प्रीतिः स्नेहो येनैवंभूतो दोर्त्यां भुजाभ्यां पर्यष्वजताश्लिष्यत् । किं कृत्वा । एह्यह्यागच्छेत्याहूयाह्वानं कृत्वा । कीदृशं केयूरकम् । ससंभ्रमेणादरेण प्रणतश्चासावुपसृतश्च तम् । न त्वपसरन्तमित्यर्थः । कथंभूताभ्यां दोाम् । अतिदूरं प्रसारिते विस्तारिते ताभ्याम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प०- 1 छत्रिकया । स्वल्पं छत्रम् । 2 'कादम्बरीसमवस्थाम इत्यपि पाठः । कादम्बर्याः समवस्थाम् (अवस्थितिम्) इति तदर्थः ।
पाठा० - १ य एव पुरुषः पुरः. २ छत्रिकया. ३ अवस्थानम्. ४ अपृष्टम्. ५ ससंभ्रमप्रणयप्रणत.
lllllllll
(आगच्छतः केयूरकस्यावलोकनम्
उत्तरभागः ।
505