________________
पततः पुत्रत्वमुपगतस्य चन्द्रापीडनाम्नान्तरितस्य लोकपालस्येव चन्द्रमसो दर्शनेनौजन्मकृतमेव संतापं परित्यक्ष्यति देवः । तयोरेवं शापोऽस्माकं पुनर्वर एव ।
तदस्मिन्वस्तुनि मनागपि न देवेन देव्या वा शोकः कार्यः । मङ्गलान्यभिधार्यन्ताम् । अभिमतदेवताराधनेन धनातिसर्जनेन चान्यजन्मोपार्जितं कुशलमभिवर्थ्यताम् । अकुशलमपि यमनियमकष्टव्रतोपवासादिना तपःक्लेशेन क्षयमुपनीयताम् । अपरमपि यद्यदेवंगते श्रेयस्करं श्रूयते ज्ञायते वा तत्तदद्यैवारभ्य क्रियतां कार्यतां च कर्म । न खलु वैदिकानामवैदिकानां वा कर्मणामसाध्यं नाम किंचिदपि । उत्पत्तिरपि च तयोः कृच्छ्रलब्धयोरीदृशेनैव प्रकारेणोपजाता ।
इत्युक्तवति शुकनासे सशोक एव राजा प्रत्यवादीत् - 'सर्वमेतद्यदार्येणाभिहितं कोऽन्योऽवबुध्यते ? केन वाऽपरेण वयं परिबोधनीयाः ? कस्य वापरस्यास्माभिर्वचनं करणीयम् ? किंतु तद्वत्सस्य मे वैशम्पायनदुःखात्स्फुटनं हृदयस्याग्रतो दृष्टिलग्नं सर्वमेवान्यदन्तरयति । तदेव पश्यामि । तदेव श्रृणोमि । तदेवोत्प्रेक्षे । तदेवमप्रत्यक्षिते वत्सस्य वदने -
***********
नयनयोर्लोचनयोः पयो जलं यस्य स तस्य वध्वा सह पादयोश्चरणयोः पततोऽभिवादनं कुर्वतः पुत्रत्वं सुततामुपगतस्य प्राप्तस्य चन्द्रापीडनाम्नान्तरितस्य व्यवहितस्य लोकपालस्येव सोमयमवरुणकुबेरस्येव चन्द्रमसचन्द्रस्य दर्शनेनावलोकनेन निरीक्षणेनाजन्मनः कृतं जन्ममर्यादीकृत्य कृतमाजन्मकृतमेव संतापहेतुत्वात्संतापं पापं देवः परित्यक्ष्यति दूरीकरिष्यति निष्पापो भविष्यति । विगतपापो भविष्यतीत्यर्थः । तयोर्बयोश्चन्द्रापीडपुण्डरीकयोरेवं शापोऽस्माकं पुनर्वर एव ।
तदस्मिन्वस्तुनि मनागपीषदपि स्वल्पमपि देवेन देव्या वा न शोकः कार्यः । मङ्गलानि श्रेयांस्यभिधार्यन्तामभिध्रियन्ताम् । युष्माभिरभिमतदेवताया इष्टवाञ्छितदेवताया आराधनेन सेवनेन धनस्य द्रव्यस्यातिसर्जनेनातिवितरणेन चान्यजन्मोपार्जितं परभवोपार्जितं गतभवनिष्पादित कुशलमभिवर्ध्यताम् । यमा अहिंसासत्यास्तेयब्रह्माकिंचनतालक्षणाः । 'अहिंसासत्यमस्तेयब्रह्माकिंचनता यमाः इति हैमः । कष्टव्रतं चान्द्रायणादि, उपवासा औपवस्तानि, एतान्यादौ यस्यैवंभूतेन तपःक्लेशेन कष्टेनाकुशलमप्यकल्याणमप्यशिवमपि क्षयं नाशमुपनीयतां प्राप्यताम् । अपरमप्यन्यदपि यद्यदेवंगते श्रेयस्करं कल्याणजनकं शुभकारणं श्रूयते आकर्ण्यते ज्ञायतेऽवबुध्यते वा, तत्तदद्यैवारभ्यायदिनात्प्रभृति क्रियता विधीयताम् । कार्यतां काराय्यतां च कर्म यज्ञादि शुभकर्मादि । खल्विति निश्चयेन निर्धारणेन । नामेति कोमलामन्त्रणे । वैदिकानामवैदिकानां वा कर्मणां किंचिदपि नासाध्यं वर्तते कष्टतरं वर्तते । अपि चेति युक्त्यन्तरे । तयोः कृच्छ्रलब्धयोः कष्टप्राप्तयोरुत्पत्तिरपीदृशेनैव प्रकारेण पूर्वोक्तहेतुना उपजातोत्पन्ना।
इत्युक्तवति शुकनासे सशोक एव राजा तारापीडः प्रत्यवादीप्रत्यब्रवीत् । सर्वमेतद्यदार्येण भवताभिहितं प्रतिपादितं तत्कोऽन्योऽवबुध्यते जानाति । केन वापरेण त्वदन्येन वयं परिबोधनीयाः परिबोधयितुं योग्याः समर्थाः । कस्य वापरस्य द्वितीयस्यास्माभिर्वचनं वाक्यं करणीयं निष्पादनीयम् । किंत्वित्यव्ययमङ्गीकारे स्वीकारे । तन्मे मम वत्सस्य वैशम्पायनदुःखावृदयस्य स्फुटनमग्रतो दृष्टिलग्नमन्यत्सर्वमेवान्तरयत्याच्छादयति व्यवहितं करोति । तदेव हृदयस्फुटनमेव पश्याम्यवलोकयामि । तदेव श्रृणोम्याकर्णयामि । तदेवोत्प्रेक्षे वितर्कयामि । तद -
पाठा० - १ एव. २ जन्म. ३ तत्तयोरयम्. ४ मङ्गलान्यभिध्यायन्ताम्. ५ अभिवर्धताम्; अभिवर्ध्यताम्. ६ उपार्जितेन कष्टतमेनोपवासादिधर्मनियमेन. ७ यद्देवगतेः; यादवगतम्. ८ कर्मणां खलु वैदिकानामवैदिकानां वासाध्यं नाम किंचिदपि नास्ति. ९ चोत्पत्तिः. १० अन्तरपतितम्. ११ तदेवमप्रत्यक्षमेव मद्वत्सस्य वदनम्.
(शुकनासस्य सान्त्वनम्
उत्तरभागः।
661