________________
ययातेस्तारुण्ये एव जरसा भङ्गः । त्रिशङ्कोश्च पितृशापाच्चाण्डालभावः । श्रूयते च स्वर्गवासी महाभिषो नाम राजास्मिल्लोके शन्तनुरुत्पन्नः । तत्पत्नीत्वमुपगताया गङ्गायाः शापदोषादष्टानामपि वसूनां मनुष्येषत्पत्तिः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतामुपगतः । श्रूयते च पुनश्चतुर्धात्मानं विभज्य राजर्षेर्दशरथस्य तथैव मथुरायां वसुदेवस्य । तन्मनुष्येषु देवतानामुत्पत्तित्रैवासंभाविनी । न च पूर्वमनुष्येभ्यो गुणैः परिहीयते देव । न चापि भगवतः कमलनाभादतिरिच्यते चन्द्रमाः । किमत्रासंभावनीयम् । अपि च गर्भारम्भसंभवे देवेन देव्या वदने विशंश्चन्द्रमा एव दृष्टः, तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । तदुत्पत्तिं प्रति तयोस्त्येिव संदेहः । विनष्टयोः शरीरस्याविनाशः कथम्, कथं वा पुनर्जीवितप्रतिलम्भ इत्यत्राखिललोकप्रत्याख्यातप्रभावममृतमेवैकं कारणमावेदितम् । तच्चन्द्रमसि विद्यत इत्येषास्त्येव वार्ता । तत्सर्वमेतदित्थमेवावगच्छतु देवः । अन्यच्च तादृशाकारकान्तेरखिललोकाह्लादकारिणोऽन्यत्र संभव एव नास्ति । तत्कल्याणैर्नचिराच्छापावसाने निर्वर्तितगन्धर्वसुतोद्वाहमङ्गलस्य गलनयनपयसो वध्वा सह पादयोः -
***********
सया कृत्वा भङ्गो हानिः । त्रिशङ्कोच पितृशापाच्चाण्डालभावः । श्रूयते चाकर्ण्यते च स्वर्गवासी देवलोकवासी महाभिषो नाम राजास्मिल्लोक इहलोकेशन्तनुर्नाम राजोत्पन्नोऽवतरितोऽवतारं प्राप्तः । शापदोषाच्छापप्रभावात्तत्पत्नीत्वं तत्स्त्रीत्वमुपगतायाः प्राप्ताया गङ्गायाः शापदोषादष्टानामष्टसंख्यानामपि वसूनां मनुष्येषत्पत्तिर्जन्म प्रादुर्भावः प्रकटीभावः । तिष्ठतु तावदन्यः । अयमादिदेवो भगवानजः स एव जमदग्नेरात्मजतां पुत्रतां पुत्रभावमुपगतः प्राप्तो जातः । श्रूयते चाकर्ण्यते च पुनरात्मानं चतुर्धा चतुःप्रकारेण विभज्य विभागीकृत्य राजर्षेर्दशरथस्य तनयत्वमुपगतः प्राप्तः । तथैव मथुरायां मधुपुरि वसुदेवस्य तनयत्वमुपागतः पुत्रत्वं प्राप्तः । तदिति हेत्वर्थे । मनुष्येषु नरेषु देवतानां देवानामुत्पत्तिनिष्पत्ति३वासंभाविनी नासंभाव्यैव । न च पूर्वमनुष्येभ्यो देवो गुणैः परिहीयते परिहीनो भवति सामस्त्येन न्यूनो भवति । न चापि भगवतः कमलनाभात्सकाशाच्चन्द्रमाः शशाङ्कश्चन्द्रोऽतिरिच्यतेऽधिकीभवति । अतः किमत्रासंभावनीयमसंभाव्यम् । अपि चेति प्रकारान्तरे । गर्भस्यारम्भसंभवे च प्रारम्भसमये देवेन भवता देव्या विलासवत्या वदने मुखे विशन्प्रवेशं कुर्वंश्चन्द्रमा एव दृष्टोऽवलोकितः । तथा ममापि स्वप्ने पुण्डरीकस्य दर्शनं समुपजातम् । ततस्तदुत्पत्तिं प्रति तयोर्दयोः पूर्वोक्तयोर्नास्त्येव संदेहो द्वापरः । विनष्टयोः कथं शरीरस्याविनाशः । कथं वा पुनर्जीवितस्य प्रतिलम्भः प्राप्तिरिति । अत्रापीहाप्यखिललोकेषु समग्रलोकेषु प्रत्याख्यातः प्रसिद्धः प्रभावो यस्यैवंभूतममृतमेव पीयूषमेव एकं कारणं निदानमावेदितं कथितम् । तदमृतं चन्द्रमसि चन्द्रे विद्यत इत्येषा वार्ता प्रवृत्तिः किंवदन्त्यस्त्येव । तत्तस्मात्कारणादेतत्सर्वमित्थमेवेति देवोऽवगच्छतु जानातु । अन्यच्च तादृशाकारकान्तेर्युतेरखिललोकस्य समग्रजनस्याह्लादकारिणः प्रमोदजननस्यानन्दकारकस्यान्यत्र संभव एव नास्ति । तदिति हेत्वर्थे । कल्याणैर्मङ्गलैनचिरादल्पकालेन शापस्याक्षेपवचनस्यावसाने प्रान्ते सति विनिर्वर्तितं विहितं गन्धर्वसुतायाः कादम्बर्या उद्घाहमङ्गलं विवाहमाङ्गल्यं येन स तस्य गलत्क्षर -
- - - - टिप्प० -1 'प्रख्यात इत्युचितः पाठः । 2 'संभव एव तस्य (चन्द्रस्य) इति पाठः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ चण्डालभावः. २ महाधिषः. ३ शान्तनुः; शान्तनुपत्नीत्वम्. ४ उपागतायां च गङ्गायाम्; उपागतायाः स्वर्गङ्गायाः, उपगतायां गङ्गायाम्. ५ जामदग्नेः. ६ उपागतः. ७ असंभाविता. ८ संभावनीयम्. ९ कथम्. १० प्रलम्भः. ११ प्रख्यात. १२ अमृतमनेककारणम्; अमृतमेव कारणम्. १३ सत्यमित्थमे. १४ ईदृशस्याकारस्य कान्तेः; ईदृशाकारकान्तेः. १५ अचिरात्. १६ निवर्तित.
1660
कादम्बरी।
कथायाम्