________________
राजा तु तच्छ्रुत्वा समुपजाताभ्यधिककुतूहलस्तदाबानाय पुरःस्थितां प्रतीहारीमादिदेश । नचिरादेव तयोपदिश्यमानमार्गा प्रविश्य सा, पुरस्तादूर्ध्वस्थितैव राजानमभिभवन्ती धाम्ना, प्रागल्भ्येन बभाषे - 'भुवनभूषण, रोहिणीपते, तारारमण, कादम्बरीलोचनानन्द, चन्द्र, सर्वस्त्वयाऽस्य दुर्मतेरात्मनश्च पूर्वजन्मवृत्तान्तः श्रुत एव । अत्रापि जन्मनि यथायं निषिद्धोऽपि पित्रा, कामरागान्धः पितुराज्ञामुल्लङ्घय वधूसमीपं प्रस्थितस्तथाप्यनेन स्वयमेव कथितम् । तदहमस्य दुरात्मनो जननी श्रीस्तथा प्रस्थितमेनं दिव्येन चक्षुषा दृष्ट्वाऽस्य पित्राहं समादिष्टास्मि - ‘सर्व एव ह्यविनयप्रवृत्तोऽनुतापाद्विना न निवर्तते । तदयं ते तनयः कदाचिदस्या अपि तिर्यग्जातेरधस्तानिपतति । तद्यावदिदं कर्म न परिसमाप्यते तावदेनं मर्त्यलोक एव बद्ध्वा धारय । यथा चानुतापोऽस्य भवति तथा प्रतिविधेयमस्य इति । तदस्य विनयायेदं विनिर्मितं मया । सर्वमधुना तत्कर्म परिसमाप्तम् । शापावसानसमयो वर्तते । शापावसानेन च युवयोः सममेव सुखेन भवितव्यमिति त्वत्समीपमानीतो मयायम् । अत्रापि यच्चाण्डालजातिः ख्यापिता तल्लोकसंपर्कपरिहाराय । तदनुभवतां संप्रति द्वावपि सममेव -
***********
राजा तु नृपोऽपि तछ्रुत्वा समुपजातमभ्यधिकं कुतूहलमाश्चर्यं यस्य स तस्याश्चाण्डालदारिकाया आह्वानायामन्त्रणं कृत्वाहूतिकृते पुरःस्थितामग्रस्थितां प्रतीहारी द्वारपालिकामादिदेशाज्ञां दत्तवान् । नचिरादेव स्तोककालेनैव तयोपदिश्यमानमार्गा कथ्यमानपथा सा प्रविश्य प्रवेशं कृत्वा पुरस्तादूर्ध्वस्थितैव धाम्ना तेजसा राजानमभिभवन्ती तिरस्कुर्वन्ती प्रागल्भ्येन धाष्टर्येन बभाषेऽवोचत् । किं तदित्याह - भुवनेति । हे भुवनभूषण हे जगद्विभूषण हे विष्टपश्रृङ्गार, हे रोहिणीपते हे रोहिणीनाथ हे चन्द्र, हे तारारमण हे तारकाविनोदक, हे कादम्बरीलोचनानन्द हे गन्धर्वकन्यकानयनप्रमोदक, हे रजनिकर हे चन्द्र कुमुदबान्धव, सर्वः समग्रस्त्वयास्य दुर्मतेः पुण्डरीकस्यात्मनः स्वस्य च पूर्वजन्मवृत्तान्तः पूर्वभवोदन्तः श्रुत एवाकर्णित एव । अत्रापि जन्मनि यथायं पित्रा जनकेन निषिद्धोऽपि प्रतिषिद्धोऽपि कामरागान्धः कन्दर्परागान्धः पितुराज्ञां जनकादेशमुल्लङ्ख्यातिक्रम्य वधूसमीपं पत्नीपार्धं युवतीनिकटं प्रस्थितश्चलितः, तथाप्यनेन स्वयमेव कथितमात्मनैव निवेदितम् । तत्तस्मात्कारणादस्य दुरात्मनः पुण्डरीकस्य जननी माता दिव्येन चक्षुषा ज्ञानदृशा तथा प्रस्थितं तथा चलितमेनं वैशम्पायनं दृष्ट्वा विलोक्यास्य पुण्डरीकस्य पित्रा घेतकेतुना समादिष्टा दत्ताज्ञाहं श्रीरस्मि । सर्व एव हि जनोऽविनयेन प्रवृत्तोऽनुतापात्पश्चात्तापाद्विना न निवर्तते न निवृत्तो भवति । तत्तस्माद्धेतोरयं ते तव तनयोऽसौ भवदीयसुतः कदाचिदस्या अपि तिर्यग्जातेर्विहंगमजातेरधस्तानिपतत्यधः प्रयाति । तद्यावदिदं कर्म न परिसमाप्यते न परिपूर्णीभवति, न संपूर्णीभवति, तावदेन वैशम्पायनं मर्त्यलोक एव बद्ध्वा बन्धनं कृत्वा धारयावस्थापय । यथा चानुतापः पश्चात्तापोऽस्य भवति, तथा प्रतिविधेयं तथा करणीयमिति । तदस्य वैशम्पायनस्य विनयाय मर्यादायै इदं मया सर्वं विनिर्मितं विहितम् । अधुना सर्वं तत्कर्म तत्कृत्यं परिसमाप्तं परिपूर्णीकृतम् । शापस्यावसानसमयः प्रान्तकालो वर्तते । शापावसानेन च युवयोर्भवतोः सममेव सुखेन सातेन भवितव्यमित्यतस्त्वत्समीपं त्वदभ्यर्णं मयायमानीतः प्रापितः । अत्रापि यच्चाण्डालजातिः ख्यापिता कथितोक्ता तल्लोकानां जनानां संपर्कः संबन्धस्तस्य परिहाराय दूरीकरणाय । तत्संप्रतीदानी द्वावपि शूद्रकवैशम्पाय - टिप्प० -1 'तदप्यनेन इत्यपि पाठः । 2 पञ्जरबन्धनादिकम् । 3 'शापावसाने' इत्युचितः पाठः ।
------------
-
-
-
-
-
-
-
पाठा० - १ अदिशत्. २ अचिरात्. ३ अभिभवन्तीव. ४ स्वधाम्ना. ५ प्रागल्भ्येन च. ६ तदपि. ७ स्वावियन. ८ समाप्यते. ९ च निर्मितम्. १० मया सर्वं कृतम्; अधुना तु तत्कर्म समाप्तम्.
694
कादम्बरी।
कथायाम्