________________
जन्मजराव्याधिमरणादिदुःखबहुले तनू परित्यज्य यथेष्टजनसमागमसुखम्' इत्यभिदधानैव सा झटिति रणभूषणारवबैधिरितान्तरिक्षमुत्फुल्ललोकलोचनोदीक्षिता क्षितेर्गगनमुदपतत् ।
अथ राज्ञस्तद्वचनमाकर्ण्य संस्मृतजन्मान्तरस्य ‘सखे वैशम्पायनाख्यपुण्डरीक, दिष्ट्या तुल्यकालक्षयमेवावयोः शापावसानं संजातम्' इत्यभिदधत एवाकर्णाकृष्टकार्मुको मकरकेतुरग्रतः परमास्त्रं कादम्बरी कृत्वा जीवितापहरणाय प्रतिरोधक इव निरुद्धसर्वांशोऽऽन्तरा पदं चकार । तत्पदाक्रान्तिनिर्वासितमिव कादम्बरीशरणमुपजगामान्तःकरणम् । तन्मार्गणाभिहतिभीता इव देहमुत्सृज्य निर्जग्मुरजडाः धासमरुतः । तद्धाणपक्षवाताहतमिवाकम्पत तरलं शरीरम् । तच्छरशल्यभरालसोत्कण्टकिनी तनुरजायत । तद्विशिखरजोरूषितमिव नयन -
*********** नावपि सममेव समकालमेव जन्मोत्पत्तिर्जरा विससा व्याधिरामयो मरणं मृत्युरेवंभूतं दुःखं तेन बहुले दृढेऽस्मिल्लोके तनू शरीरे परित्यज्यानुभवता यथेष्टजनानां समागमो मेलापकस्तस्मात्तस्य वा सुखं सातम् । इत्यभिदधानेतिब्रुवाणैव सा चाण्डालदारिका झटिति शीघ्रं रणन्ति यानि भूषणान्याभरणानि तेषां रवः शब्दस्तेन बधिरीकृतमन्तरिक्षमाकाशं यथा स्यात्तथोत्फुल्लानि विकसितानि यानि लोकलोचनानि जननयनानि तैरुप्राबल्येन वीक्षितावलोकिता निरीक्षिता क्षितेः पृथिव्याः सकाशाद्गगनमाकाशमुदपतदुत्पतिता बभूव ।।
अथेति । तदनन्तरं तद्वचनमाकर्ण्य श्रुत्वा संस्मृतं स्मृतिगोचरीभूतं जन्मान्तरं भवान्तरं यस्य स तथा तस्य । हे सखे वयस्य हे भ्रातः, वैशम्पायन इत्याख्ययेतिनाम्ना पुण्डरीक, दिष्ट्या भाग्येन पुण्येनावयोः पुण्डरीकचन्द्रमसोः तुल्यकालक्षयमेव समकालमेव युगपदेवैककालमेव शापावसानं संजातं शापमुक्तिः संजातेत्यभिदधत एवेति कथयत एव राज्ञः शूद्रकस्य मकरकेतुः कामः कन्दर्पोऽन्तरा मध्ये । अर्धाद्धृदयस्येति बोध्यम् । पदं निवासं चकार निर्ममे । कीदृशो मकरकेतुः । आकर्णं कर्णं यावदाकृष्टं कर्षितं कार्मुकं धनुर्येन सोऽग्रतः पुरः परमास्त्रमत्युत्कृष्टशस्त्र कादम्बरी कृत्वा विधाय शापावसानत्वाद्यजीवितस्यापहरणं ग्रहणं तस्मै प्रतिरोधक इव प्रतिबन्धक इव निरुद्धा आवृताः सर्वे अंशा अवयवा येन सः । अथवा संरुद्धा आशा दश दिशो येनेत्यर्थः । मकरकेतुरन्तः पदं चकारेत्यन्वयस्तु प्रागेवोक्तः । तस्य कामस्य पदं स्थानं तेनाक्रान्तिराक्रमणं तेन निर्वासितमिव बहिःकृतमिवान्तःकरणं मनः कादम्बर्याः शरणं त्राणमुपजगामोपागमत् । 'शरणं गृहरक्षित्रोः' इत्यमरः । तस्य कामस्य मार्गणास्तेषामभिहतिरुपघातस्तस्या भीताः त्रस्ता इव देहं शरीरमुत्सृज्य त्यक्त्वाऽजडाः सचेतनाः श्वासमरुतः वसितवायवो निर्जग्मुर्निर्गतवन्तः । तस्य कन्दर्पस्य बाणाः शरास्तेषां पक्षवातास्तैराहतमिव ताडितमिव तरलं चञ्चलं शरीरमकम्पतावेपत । तस्य शरस्य बाणस्य शल्यं तस्य भरस्तेनालंसेव मन्थरेवोत्कण्टकिनीरोमाञ्चिनी तनुरजायताभूत । तस्य कामस्य विशिखा बाणास्तेषां रजो धूलिस्तेन रूषितमिव रुक्षमिव नयनयुगलं - टिप्प० - 1 जन्म-जरादिदुःखं बहुलम् (अधिकम्) ययोः ईदृश्यौ नरतन परित्यज्य, इत्यर्थः । 2 प्रतिरोधकः मार्गमवरुध्य स्थितो दस्युरिव निरुद्धाः सर्वा आशाः दिशो जीवनप्रत्याशाश्च येन ईदृशो मकरकेतुरित्युभयपक्षेऽर्थः । 3 'कादम्बरीं शरणमुपजगाम करणम्' इत्युचितः पाठः । करणं शरीरम् इन्द्रियं वा, कादम्बरी शरणम् (रक्षकत्वेन) उपजगाम इत्यर्थः । 'करणं साधकतम क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः । 4 शल्याऽऽघाते सति कस्यचिदालस्यं भवति ? अत एव - 'तच्छरशल्यनिकरकीलितेवोत्कण्टकिनी तनुरजायत' इत्येव पाठः । तस्य शराणां शल्यनिकरैः (फलकनिचयैः) कीलितेव (संजातकीलकेव, शकुनिचितेव) उत्कण्टकिनी रोमाञ्चवतीत्यर्थः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा०- १ बहुलां तनुम्. २ झगिति; झणिति. ३ रोघत. ४ आकर्णयतस्तदैवाकृष्टकार्मुकः, ५ अन्तः पदम्. ६ करणम्. ७ तच्छल्य. ८ भरालसेवोत्कण्टकिनी; निकरकीलितेवोत्कण्टकिनी.
(राज्ञो जन्मान्तरस्मरणम् ।
उत्तरभागः।
695