SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्वप्नेऽपि भूमिरियमालोकिता' इत्यभिधाय चरणाभ्यामेवाच्छोदसरस्तीरमयासीत् । तत्र चातिरम्यतयैव सर्वतो दत्तदृष्टिः संचरन्, अमरकामिनीश्रोत्रशिखरारोहणप्रणयोचितैस्तरङ्गानिलाहतिविलोलवृत्तिभिः किसलयैरविरलकुसुममकरन्दलोभपुञ्जितानां च मत्तमधुलिहां मञ्जना सिञ्जितरवेण दूरादाह्वयन्तमिव, मरकतमणिश्यामया प्रभयानुलिम्पन्तमिव समं दशदिग्भागान्, अदत्तदिवसकरकिरणप्रवेशतया दिवाप्यन्तर्निशीथिनीमिव बिभ्राणम्, चिरपरिचितैरपि मेघोद्गमाशङ्कया मुहुर्मुहुरुन्मुक्तमधुरकेकारवैर्वनशिखण्डिभिरुत्कंधरैरवलोक्यमानम्, पदमिव जलदकालस्य, प्रतिपक्षमिव सर्वसंतापानाम्, निजावासमिव जडिम्नः, निर्गममार्गमिव सुरभिमासस्य, आश्रयमिव मकरध्वजस्य, उत्कण्ठाविनोदस्थानमिव रतेः, आस्पदमिव सर्वरमणीयानाम्, अनवरतेवलितसुरभिशीतलाच्छोदसरस्तरङ्गमारुताभिवीजिताभ्यन्तरशिलातलमन्यतम तटलतामण्डपमद्राक्षीत् । दृष्ट्वा च तमतिचिरान्तरितदर्शनं भ्रातरमिव तनयमिव सुहृदमिव चानन्यदृष्टिविस्मृत - *********** रुद्रं प्रणम्य नमस्कृत्य च व्रजामो गच्छामः । दिव्यजनसेविता केनास्मत्पक्षपातिना स्वप्नेऽपि स्वापदशायामपि कदा कस्मिन्काले पुनः 'पुनर्विशेषयोः' इयं भूमिरियं वसुधाऽऽलोकितावलोकितेत्यभिधायेत्युक्त्वा चरणाभ्यामेव पादचारेणेत्यर्थः । अच्छोदसरस्तीरमयासीदाययौ । तत्र च तस्मिन्नच्छोदसरस्यतिरम्यतयातिमनोहरतयैव सर्वतो दत्ता न्यस्ता दृष्टिदृग्येनैवंभूतो वैशम्पायनः संचरन्गच्छन्नन्यतमं यत्तट तीरं तत्र लतामण्डपमद्राक्षीट्यलोकयदिति दूरेणान्वयः । इतो लतामण्डपं विशेषयन्नाह - अमरेति । अमराणां देवानां कामिन्यः स्त्रियस्तासां श्रोत्रशिखराणि कर्णाग्राणि तेष्वारोहणे यः प्रणयः स्नेहस्तवोचितैर्योग्यैस्तरंगाणां कल्लोलानामनिलो वायुस्तस्याहत्या आहननेन विलोला चञ्चला वृत्तिर्येषां तैरेवंभूतैः किसलयैः पल्लवैरविरलो निबिडो यः कुसुमानां पुष्पाणां मकरन्दो मरन्दस्तस्य लोभस्तृष्णा तेन पुजितानामेकीभूतानां च मत्तमधुलिहां क्षीबभ्रमराणां मञ्जुना रुचिरेण सिञ्जितं ध्वनितं तस्य रवेण शब्देन करणभूतेन दूरादाह्वयन्तमिवाहूतिं कुर्वन्तमिव । मरकतेति । मरकतमणिरश्मगर्भरत्नं तद्वच्छ्यामया श्यामलया प्रभया कान्त्या सममेकपदे दशदिग्भागान्दशककुभां प्रदेशाननुलिम्प(य)न्तमिवानुलिम्पनं कुर्वन्तमिव । न दत्तो दिवसकरस्य सूर्यस्य किरणप्रवेशः करप्रवेशो येन तस्य भावस्तत्ता तया दिवापि दिवसेऽप्यन्तर्मध्ये निशीथिनीमिव रात्रिमिव बिभ्राणं धारयन्तम् । 'निशा निशीथिनी रात्रिः' इति हैमः । चिरपरिचितैरिति । चिरपरिचितैरपि चिरपरिशीलितैरपि मेघस्योद्गम उदयस्तस्याशकारेका तया मुहुर्मुहुरिवारमुन्मुक्तो मधुरो मिष्टः केकारवो यैरेवभूतैर्वनशिखण्डिभिररण्यमयूरैरुत्कंधरैरुग्रीवैरवलोक्यमानं निरीक्ष्यमाणम्, जलदकालस्य प्रावृट्समयस्य पदमिव स्थानमिव, सर्वसंतापानां समग्रतापानां प्रतिपक्षमिव शत्रुमिव, जडिम्नः शैत्यस्य निजावासमिव स्वाश्रयमिव, सुरभिमासस्य वसन्तमासस्य निर्गममार्गमिव निर्गमनपन्थानमिव, मकरध्वजस्य कंदर्पस्याश्रयमिव निवासमिव, रतेः कंदर्पस्त्रिय उत्कण्ठाविनोदस्थानमिवोत्कलिकाविलासपदमिव, सर्वरमणीयानां समग्रमनोहराणामास्पदमिव गृहमिव, अनवरतं निरन्तरं वलिताः पश्चादायाता ये सुरभयः सुगन्धाः शीतलाः शिशिरा अच्छोदसरसस्तरंगाः कल्लोलास्तेषां मारुतेन वायुनाभिवीजितमभ्यन्तरशिलातलं यस्य स तमन्यतमं तटलतामण्डपमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः । दृष्ट्वा चेति । अतिचिरकालेनान्तरितं व्यवहितं दर्शनमवलोकनं यस्यैवंभूतं तं लतामण्डपं दृष्ट्वा विलोक्य च भ्रातरमिव सहोदरमिव, तनयमिव सुतमिव, सुहृदमिव मिनमिव, न विद्यतेऽन्यस्मिन्दृष्टियस्यैवंभूतो विस्मृतो - पाठा० - १ निशीथम्. २ चलित. (552 कादम्बरी । MM MMML कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy