________________
देवशरीरमिव साग्रं वर्षशतं ध्रियते वैशम्पायनः । इत्येतदाकर्ण्य चोज्जीवित इवानन्दबाष्पनिर्भरः संभाव्य तान्सर्वानेव कण्ठग्रहेणावादीत् - 'जीवतो वैशम्पायनस्यान्यत्र क्षणमप्यवस्थानमसंभावयता मयैवं पृष्टा भवन्तस्तज्जीवतीत्येतानि तु तावत्कणे कृतान्यक्षराणि । अधुना कि वृत्तमस्य येनासौ नागतः, क्व वा स्थितः, केन वा प्रसङ्गेन, कथं वा तमेकाकिनमुत्सृज्यायाता भवन्तः, कथं वा भवद्भिर्बलादपि नानीतोऽसावित्येतदवगन्तुमुत्ताम्यति मे हृदयम्' इति ।
ते चैवं पृष्टा व्यज्ञपयन् - "देव, श्रूयतां यथावृत्तम् । पृष्ठतः स्कन्धावारमनुपालयद्भिः शनैः शनैवैशम्पायनेन सह भवद्भिरागन्तव्यमित्यादिश्य गतवति देवे तस्मिन्दिवसे सुगृहीतत्वाद्धासेन्धनादिकस्योपकरणजातस्य न दत्तमेव प्रयाणं स्कन्धावारेण । अन्यस्मिन्नहन्याहतायां प्रयाणभेर्यां सज्जीक्रियमाणे साधने प्रातरेवास्मान्वैशम्पायनोऽभ्यधात् - 'अतिपुण्यं ह्यच्छोदाख्यं सरः पुराणे श्रूयते । तदस्मिन्स्नात्वा प्रणम्य चास्यैव तीरभाजि सिद्धायतने भगवन्तं भवानीप्रभु महेश्वरं शशाङ्कशकलशेखरं व्रजामः । दिव्यजनसेविता केन कदा पुनः -
***********
वैशम्पायनः साग्रं वर्षशतं पञ्चविंशत्यधिकहायनशतं ध्रियते । आयुः कर्मणेति शेषः । किमिव । देवशरीरमिव । इत्येत्पूर्वोक्तमाकर्ण्य श्रुत्वा चोज्जीवित इवोत्याणित इवानन्दस्य हर्षस्य बाष्पो नेत्राम्बु तस्य निर्भरो यस्मिन्नेवंभूतस्तान्सर्वानेव कण्ठग्रहेण गलालिङ्गितेन संभाव्य संतुष्टान्कृत्वावादीदब्रवीत् । किमवादीदित्याशयेनाह - जीवत इति । जीवतः प्राणान्धरतो वैशम्पायनस्यान्यत्रान्यस्मिन्प्रदेशे क्षणमप्यवस्थानमसंभावयताऽसंभावनां कुर्वता मया चन्द्रापीडेनैवं पूर्वोक्तप्रकारेण भवन्तो जनाः पृष्टाः प्रश्नितास्तज्जीवतीत्येतानि त्वक्षराणि वर्णांस्तावदादौ कर्णे श्रोत्रे कृतानि । अधुना सांप्रतमस्य वैशम्पायनस्य किं वृत्तं जातम्, येन हेतुनासौ वैशम्पायनो नागतो नायातः । क्व वेति । कुत्र वा स्थितोऽवस्थानं कृतवान्, केन वा प्रसङ्गेन संबन्धेन स्थितः, कथं वा केन प्रकारेण तं वैशम्पायनमेकाकिनमुत्सृज्य त्यक्त्वा भवन्त आयाता आगताः । कथं वा भवद्भिर्युष्माभिर्बलादपि हठात्कारेणासौ मन्त्रिसुतो नानीतः । इत्येतदवगन्तुं ज्ञातुं मे मम हृदयमुत्ताम्यति । उत्पीडयतीत्यर्थः । ते चैवममुना प्रकारेण पृष्टाः प्रश्नविषयीकृताः सन्त इति व्यज्ञपयनिति विज्ञप्तिं चक्रुः । एतद्दर्शयन्नाह - हे देव हे स्वामिन्, यथावृत्तं यथाभूतं श्रूयतामाकर्ण्यताम् । पृष्ठतः पश्चाद्भागे स्कन्धावारं सैन्यं शनैः शनैर्मन्दं मन्दमनुपालयद्भिरनुरक्षद्भिशम्पायनेन सह भवद्भिर्युष्माभिरागन्तव्यमित्यादिश्य कथयित्वा देवे चन्द्रापीडे गतवति चलिते सति तस्मिन्दिवसे देवप्रयाणकदिने घासो यवसमिन्धनमिम । आदिशब्दादस्त्यवादीनां भक्ष्यम् । एतत्प्रभृत्युपकरणजातस्य सामग्रीसमूहस्य सुगृहीतत्वात्सुलभत्वात्स्कन्धावारेण न दत्तमेव न कृतमेव प्रयाणं चलनम् । अन्यस्मिनहनि तद्व्यतिरिक्तदिने प्रयाणभेर्यां गमनदुन्दुभावाहतायां ताडितायामचादिके साधने सज्जीक्रियमाणे सति आरोहणार्थमारोप्यमाणपर्याणादिके सति, प्रातरेव प्रत्युष एवास्मान्वैशम्पायन इत्यभ्यधादित्यूचिवान् । इतियोत्यमाह - अतीति । अतिपुण्यमतिपवित्रं ह्यच्छोदाख्यमच्छोदाभिधानं सरस्तटाकं पुराणे श्रूयत आकर्ण्यते । तस्माद्धेतोरस्मिन्सरसि स्नात्वा स्नानं कृत्वास्यैव सरसस्तीरभाजि तटभाजि सिद्धायतने चैत्ये शशाङ्कस्य चन्द्रस्य शकलं खण्डं तदेव शिखरो मुकुटो यस्यैवंभूतं भगवन्तं माहात्म्यवन्तं भवान्याः पार्वत्याः प्रभुं स्वामिनम् । क्वचित् ‘भवाभवप्रभुम्' इति पाठोऽपि दृश्यते । तेन तत्र नित्यानित्यस्वामिनमित्यर्थः । महेश्वरं -
पाठा० - १ साग्र. २ तु. ३ प्रसङ्गेन स्थितः. ४ ते पृष्टाः. ५ आगतवति. ६ तस्मिंस्तु दिवसे. ७ वास. ८ तदच्छोदसरः. ९ वा.
स्कन्धावारलोकेभ्यो वैशम्पायनवृत्तान्तश्रवणम्
उत्तरभागः।
551