________________
तुमात्मना पारयन्तीम्, श्रोत्रहृदयग्राहिणाऽनुभूतपूर्वेण स्वरेणानन्दयन्नवादीत् - 'भीरु, परित्यज्यतां भयम् । प्रत्युज्जीवितोऽस्मि तवैवामुना कण्ठग्रहेण । त्वं खल्वमृतसंभवादप्सरसां कुलादुत्पन्ना । किं न स्मरसि तन्मे वचनमिदम् । तत्तेजोमयं वपुः स्वत एवाविनाशि विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितमिति । तदेतावन्त्येव दिनानि पाणिना ते स्पृश्यमानोऽपि न यत्प्रत्युज्जीवितोऽस्मि तच्छापदोषात् । अद्य स तु मे द्वितीयवारं त्वदर्थमेवानुभूतदुःसहमदनज्वरदाहवेदनापरमदुःखस्य व्यपगतः शापः । परित्यक्ता सा मया त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः । एषापि च तवास्यां रुचिरुत्पन्नेति त्वत्प्रीत्या प्रतिपन्ना प्रतिपालिता च । तदयं लोकश्चन्द्रलोकश्च ते द्वावप्यधुना चरणतलप्रतिबद्धौ । अपि च प्रियसख्या अपि ते महाश्वेतायाः प्रियतमो मयैव सह विगतशापः ।' इत्यभिदधत्येव चन्द्रापीडशरीरान्तरितवपुषि चन्द्रमसि, चन्द्रलोकावस्थानलग्नममृतपरिमलमेव केवलमधिकमुदहन, अगैरन्यतमस्तादृशेनैव वेषण यादृशेन महावेतौत्कण्ठ्योपरतः, तथैव कण्ठेनैकावली धार -
***********
इत्येवंशीलेनानुभूतपूर्वेणाकर्णितपूर्वेण स्वरेण शब्देनानन्दयन्प्रमोदयन्नवादीदवोचत् । किं तदित्याह - भीविति । हे भीरु हे कातरे, भयं त्रास परित्यज्यतां दूरीक्रियताम् । तवैवामुना कण्ठग्रहेणाहं प्रत्युज्जीवितः पुनर्जीवनं प्रापितोऽस्मि । खल्विति निश्चये । त्वममृतसंभवात्पीयूषोत्पन्नादप्सरसामुर्वशीप्रभृतीनां कुलादभिजनादुत्पन्ना संजाता । इदं तन्मे मम वचनं किं न स्मरसि न स्मृतिगोचरीकरोषि । इदं किमित्याशयेनाह - तदिति । तच्चन्द्रापीडवपुस्तेजोमयं ज्योतिर्मयं स्वत एव स्वभावत एवाविनाश्यविनश्वरम् । विशेषतोऽमुना कादम्बरीकरस्पर्शेनाप्यायितं शीतलीकृतमिति । तत्तस्मात्कारणादेतावन्त्येव दिनानि ते तव पाणिना करेण स्पृश्यमानोऽप्याश्लिष्यमाणोऽपि कृतदर्शनोऽपि यन्न प्रत्युज्जीवितोऽस्मि तच्छापदोषादेवेति मन्तव्यम् । अद्य त्वस्मिनहनि द्वितीयवारं त्वदर्थमेवानुभूतं दुःसह उत्कटो यो मदनचरदाहस्तस्य वेदना पीडा तस्याः परमदुःखं येनैवंभूतस्य मे मम स शापो व्यपगतो नाशं गतो दूरं गतः । त्वद्विरहदुःखदायिनी मानुषी शूद्रकाख्या तनुः सा मया परित्यक्तोज्झिता । तव भवत्या अस्यां चन्द्रापीडतनौ रुचिरुत्पन्ना । अत एषा मया प्रतिपन्नाङ्गीकृता प्रतिपालिता च रक्षिता च । तदिति हेत्वर्थे । अयं लोको मर्त्यलोकश्चन्द्रलोकश्च द्वावपि लोकावधुना सांप्रतं ते तव चरणतलप्रतिबद्धौ पादतलाश्रितौ । अपि चान्यच्च ते तव प्रियसख्या वल्लभवयस्यया अपि महाश्वेतायाः प्रियतमो वल्लभो मयैव चन्द्रापीडेनैव सह विगतशापः संजात इत्यभिदधत्येव कथयत्येव चन्द्रापीडशरीरेणान्तरित व्यवहितं वपुर्यस्य स तस्मिंश्चन्द्रमसि सति, चन्द्रलोके यदवस्थानं गतं तेन लग्नमासक्तममृतपरिमलमेव पीयूषामोदमेव केवलमधिकमुखहन्धारयन् । तादृशेनैव वेषेण नेपथ्येन यादृशेन वेषेण महाचेताया उत्कण्ठयोत्कलिकयोपरतो मृतस्तथैव पूर्वोक्तप्रकारेणैव कण्ठेन निगरणेनैकावलीमेकयष्टिकां धारय -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०.1 'किं न स्मरसि तत् मे (चन्द्ररूपस्य) वचनम् ? 'इदं तत्तेजोमयं वपुः स्वतः' इति वाक्यविभागः । परोक्षे भूतकालिके चन्द्रवचने तदिति विशेषणस्यैव, तस्मिन् काले प्रत्यक्षं वर्तमानस्य चन्द्रेणाङ्गल्या निर्दिश्यमानस्य वपुषः कृते तु 'तदिदम्' इति परामर्शस्यैवौचित्यात् । 2 'अद्य तु स मे व्यपगतः शापः' इत्येव सुस्पष्टः पाठः । 3 मूले स्वयं स्वीकृतम् 'अङ्गः 'अन्यतमः' इतिपदद्वयम् । ततश्च - 'अमृतपरिमलमेव केवलमुबहनङ्गः, अन्यतमः (भित्ररूपः, पूर्वतोप्यधिकसौन्दर्यशाली) तादृशेनैव वेषेण०' इत्यादिरन्वयो व्याख्यार्थश्च बोध्यः ।
702
कादम्बरी।
कथायाम्