________________
वती, परित्याजिता बलाल्लज्जया सहाबलाजनसहजां भीतिं भगवता भुवनत्रयोन्मादकारिणा मन्मथेन, आत्मानमपारयन्ती संधारयितुमेकान्ते निःसहा सहसा तमभिपद्य मुकुलितनयनपङ्कजा जीवन्तमिव निर्भरं कण्ठे जग्राह ।
चन्द्रापीडस्य तु तेनामृतसेकाह्लादिना कादम्बरीकण्ठग्रहेण सद्यः सुदूरगतमपि कण्ठस्थानं पुनर्जीवितं प्रत्यपद्यत । दिर्वसक्लमामीलितं कुमुदमिव शरज्ज्योत्स्नानिपातादुच्छसितमा बन्धनाद्धृदयम् । उषः परामृष्टेन्दीवरमुकुललीलयोदमीलत्कर्णान्तायतं चक्षुः । अम्भोरुहविभ्रमेण वाजृम्भत वदनम् । एवं च सुप्तप्रतिबुद्ध इव प्रत्यापन्नसर्वाङ्गचेष्टश्चन्द्रापीडस्तथा कण्ठलग्नां कादम्बरीं चिरविरहदुर्बलाभ्यां दोर्भ्यां गाढतरं कण्ठे गृहीत्वा, वाताहतां बालकदलीमिव भयोत्कम्पमानाङ्गयष्टिम्, उद्गाढतरामीलिताक्षीं वक्षस्येव प्रवेष्टुमीहमानाम्, न मोक्तुं न ग्रही -
कृत्वाविष्टा भूतग्रस्तेव । परवती परायत्ता बलाद्धटाल्लज्जया त्रपया परित्याजिता परित्यक्ता अबलाजनः स्त्रीजनस्तस्य सहजा सहोत्पन्नां भीतिं भगवता माहात्म्यवता भुवनत्रयस्योन्मादकारिणा चित्तविप्लवजनकेन मन्मथेन कंदर्पेणात्मानं संधारयितुं धारणां कर्तुमपारयन्त्यसमर्था एकान्ते विजने निःसहा परिश्रान्ता सहसा एकपदे तमभिपद्य गत्वा मुकुलिते संकुचिते नयनपङ्कजे यस्याः सा । जीवन्तमिव श्वसन्तमिव निर्भरं यथा स्यात्तथा कण्ठे निगरणे जग्राह गृहीतवती ।
I
चन्द्रापीडस्य तु तेनामृतस्य सेकः सिञ्चनं तद्वदाह्लादिना प्रमोदजनकेनैवंविधेन कादम्बरीकण्ठग्रहेण सद्यस्तत्कालं सुदूरगतमपि दविष्ठदेशप्राप्तमपि जीवितं प्राणितं पुनः कण्ठस्थानं निगरणदेशं प्रत्यपद्यत स्वीचक्रे । दिवसक्लमं वासरसंबन्धिश्रमस्तेनामीलितं संकुचितं शरत्कालीना या ज्योत्स्ना चन्द्रिका तस्या निपातात्पतनादाबन्धनादावृन्तात्कुमुदमिव कैरवमिवोच्छ्रसितमुल्लसितं हृदयं भुजान्तरम् । उषसा प्रत्यूषेण परामृष्टं कृतस्पर्शं यदिन्दीवरमुकुलं नीलसरोजकुडुमलं तस्य लीलयेवेति लुप्तोपमा । कर्णं यावदायतं विस्तीर्णं चक्षुः । जात्येकवचनम् । उदमीलद्विकस्वरं बभूव । 'व्युष्टं विभातं प्रत्यूषं कल्यप्रत्युषसी उषः' इति हैमः । अम्भोरुहं कमलं तस्य विभ्रमेण विलासेनेव अत्र वाशब्द इवार्थे । वदनमजृम्भत विकसितमभूत् । एवं चादौ सुप्तः पश्चाप्रतिबुद्धो जागरित इव प्रत्यापन्ना सर्वाङ्गचेष्टा येनैवंभूतश्चन्द्रापीडस्तथा तेन प्रकारेण कण्ठलग्नां कादम्बरी चिरकालीनो यो विरहस्तेन दुर्बलाभ्यां कृशाभ्यां दोर्भ्यां भुजाभ्यां गाढतरं कण्ठे गृहीत्वा, वाताहतां समीरान्दोलितां बालकदलीमिव भयेनोत्कम्पमाना वेपमानाङ्गयष्टिर्यस्याः सा । उत्प्राबल्येन गाढतरं दृढतरमामीलिते संकोचिते अक्षिणि यया सा । वक्षसि भुजान्तरे प्रवेष्टुं प्रवेशं कर्तुमीहमाना स्पृहमाना न मोक्तुं न ग्रहीतुमादातुमात्मना स्वेनापारयन्तीमप्रभवतीं श्रोत्रे कर्णे हृदयं भुजान्तरं ताभ्यां गृह्यत -
टिप्प० - 1 मन्मथेन लज्जया सह अबलाजनसहजां भीतिं बलात् परित्याजिता ( कादम्बरीकर्तृके भीतिकर्मकपरित्यागे मन्मथः प्रयोजकः कर्ता, मन्मथः कादम्बरीद्वारा भीतिं परित्याजितवान् इति तात्पर्यम्), अत एव आत्मानं संधारयितुमपारयन्ती । 2 वस्तुतस्तु 'उच्छसितमाबबन्ध हृदयम्' इति पाठः । हृदयम् (कर्तृ) शरज्ज्योत्स्नाऽभिपातात्कुमुदमिव, उच्छ्रासं निश्वासम् आबबन्ध तत्याज | 3 वेपमाना अङ्गयष्टिर्यस्यास्ताम्, आमीलिते आक्षिणी यया ताम्, प्रवेष्टुम् ईहमानाम्, चन्द्रापीडं न मोक्तुम् (उत्कण्ठावशात्), न च ग्रहीतुम् ( लज्जावशात) आत्मना स्वेन पारयन्तीम्, इति सर्वत्र द्वितीया ।
पाटा० - १ लोचन. २ दिवसनिमीलितम्; दिवसक्लमनिमीलित. ३ आ निबन्धनात्; आबध्नन्. ४ लोचनाभ्यां पिबन्निव.
चन्द्रापीडस्योज्जीवनं पुण्डरीकस्यागमनं च
उत्तरभागः ।
701