SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ दुर्दिनोन्मादितसकलजीवलोकहृदयो मदाकुलंभ्रमद्भ्रमरझंकारकातरितविरहातुरमनोवृत्तिरात्मसंभवैकोल्लासकारी भराव्यावर्तत सुरभिमासः । येन च कुसुमधन्वनः परमास्त्रेण मधुना पर्याकुलितहृदया कादम्बरी, संप्राप्ते भगवतः कामदेवस्य मैहे, महता प्रयत्नेन कथंकथमप्यतिवाहितदिवसा, श्यामायमानदशदिशि सायाह्ने स्नात्वा, निर्वर्तितकामदेवपूजा तस्य पुरश्चन्द्रापीडमतिसुरभिशीतलैः स्नापयित्वाम्भोभिरा चरणाद्विलिप्य मृगमदामोदिना हरिचन्दनेन, सुरभिकुसुमसग्भिरुग्रथितं कुन्तलकलापं कृत्वा, एककर्णार्पितैसत्किंसलयाशोकस्तबककर्णपूरं कर्पूरकुसुमप्रचुरैः प्रसाध्याभरणविशेषैः, विस्मृतनिमेषा पिबन्तीव भावार्द्रया दृशा सुचिरमालोक्य, उत्कण्ठानिर्भरा, पुनः पुनर्निश्वस्योत्कम्पमाना साध्वसेन स्विन्नसर्वाङ्गी, समुत्कण्टकिततनूरुच्छुष्यदधरवदना महाश्वेतावलोकन भयान्मुहुर्मुहुर्दिक्षु विक्षिप्तोच्चकितदृष्टिः, अतिचिरमिवोपसृत्य, पुनः पुनः स्थित्वाविष्टेव पर - यस्मिन्सः । अनवरतं निरन्तरं यो मकरन्दसीकरासारो मकरन्दवातास्तबिन्दुवेगवदृष्टिस्तदेव दुर्दिनं मेघजं तमस्तेनोन्मादितान्युन्मादं प्रापितानि सकलजीवलोकहृदयानि येन सः, मदाकुला ये भ्रमन्तो भ्रमराः शिलीमुखास्तेषां झंकारा झंकृतयस्तैः कातरिता कातरीकृता विरहातुरजनानां मनोवृत्तिर्येन सः । आत्मसंभवस्य कामस्यैकोऽद्वितीय उल्लासकारी प्रकाशकारी सुरभिमासः प्रावर्ततेत्यन्वयस्तु प्रागुक्त एव । येन कुसुमधन्वनः । कंदर्पस्य परमास्त्रेणात्युत्कृष्टशस्त्रेण मधुना वसन्तेन पर्याकुलितहृदया व्याकुलितचित्ता कादम्बरी भगवतः कामदेवस्य मह उत्सवे संप्राप्ते समागमे सति महता प्रयत्नेनोद्यमेन कथंकथमपि महता कष्टेनातिवाहितदिवसा अतिक्रान्तवासरा । श्यामायमानाः कृष्णायमानाः दशदिशो यस्मिन्नेवंभूते सायाह्ने संध्यायां स्नात्वा स्नानं कृत्वा निर्वर्तिता विहिता कामदेवस्य पूजार्चा यया सा, तस्य कामदेवस्य पुरोऽग्रे चन्द्रापीडमतिसुरभिशीतलैरतिसुगन्धिशिशिरैरम्भोभिः पानीयैः स्नापयित्वा स्नानं कारयित्वा चरणाच्चरणावभिव्याप्य मृगमदः कस्तूरिका तस्या आमोदः परिमलो विद्यते यस्मिन्नेवंभूतेन हरिचन्दनेन विलिप्य विलेपनं कृत्वा । 'हरिचन्दनमाख्यातं गोशीर्षे सुरपादपे । ज्योत्स्नायां कुङ्कुमे च' इति विश्वः । सुरभीणि यानि कुसुमानि तेषां सग्भिर्मालाभिरुद्ग्रथित उद्बद्धः कुन्तलकलापः केशसमूहो यस्य स तं कृत्वा विधायैककर्णेऽर्पितो न्यस्तः सन्ति शोभनानि किसलयानि यस्मिन्नेवंभूतोऽशोकस्तबकः कङ्केलिगुच्छकः स एव कर्णपूरो यस्य स तम् । कर्पूरकुसुमप्रचुरैराभरणविशेषैः प्रसाध्य प्रसाधनं कृत्वा विस्मृतनिमेषा त्यक्तनिमेषोन्मेषा पिबन्तीव । अत्यादरेणावलोकनं पानमुच्यते । भावेन चित्तसमुद्भवेनार्द्रया सजलया दृशा सुचिरं बहुकालं चिरकालमालोक्य निरीक्ष्योत्कण्ठाया निर्भरोऽतिशयो यस्यां सा । पुनः पुनर्निश्वस्य निश्वासं मुक्त्वोव्प्राबल्येन कम्पमानातिवेपमाना साध्वसेन भयेन स्विन्नं प्रस्विन्नं सर्वाङ्गं यस्याः सा । समुत्कण्टकिता तनूः शरीरं यस्याः सा । उच्छुष्यन्ती शोषं प्राप्यमाणेऽधेरा वदने दन्तच्छदमुखे यस्याः सा । महाश्वेताया अवलोकनं तस्माद्भयं भीतिस्तस्मान्मुहुर्मुहुर्वारंवारं दिक्षु विक्षिप्तप्रेरितोच्चकितोत्त्रस्ता दृष्टिर्यया सा । अतिचिरमिव बहुकालमिवोपसृत्य समीपमागत्य पुनः पुनः स्थित्वावस्थानं - टिप्पo - 1 उच्छुष्यन्त्रधरो यस्मिन्नीदृशं वदनं यस्याः सा, इति बहुव्रीहिगर्भो बहुव्रीहिः । अन्यथा वदनस्य शोष एवाधरस्यापि शोषो निरूपितो भवेत्, अधरस्य वदनान्तर्गतत्वात् । पाठा० - १ भ्रमयन्. २ चकित. ३ महोत्सवे. ४ निवर्तित. ५ कृत्वैव कर्णा. ६ आरोपित ७ प्रसरत्किसलय सकिसलय. ८ दृष्ट्या ९ तनुः १० परवतीव. 700 कादम्बरी । कथायाम्
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy