________________
तस्मिन्नेव चान्तरे तत्संधुक्षणायेव प्रवर्तयन्सरसकिसलयलतालास्योपदेशदक्षं दक्षिणानिलम्, आलोलरक्तपल्लवप्रालम्बान्कम्पैयन्नशोकशाखिनः, वाञ्छितमुकुलमञ्जरीभरेण नम्रयन्बालसहकारान्, उत्कोरकयन्कुरुबकैः सह बकुलतिलकचम्पकनीपान्, आपीतयन्किकिरातैः ककुभान्, विकिरन्नतिमुक्तकामोदम्, उद्दामयन्किंशुकवनानि, निरङ्कुशयन्कामिजनमनांसि, निर्मूलयन्मानम्, अपमार्जयँल्लज्जाम्, अपाकुर्वन्कोपम्, अपनयन्ननुनयव्यवस्थाम्, व्यवस्थापयन्हेंठचुम्बनालिङ्गनरतस्थितिम्, समुल्लासयन्मकरध्वजरक्तध्वजानिव किंशुकानि, सकलमेव महारजतमयमिव रागमयमिव मदनमयमिवोन्मादमयमिव प्रेममयमिवोत्सवमयमिवौत्सुक्यमयमिव जनयञ्जीवलोकम्, किसलयितसकलकान्तारकाननोपवनतरुरुत्फुल्लचूतडुमामोदवासितदशाशान्तरो मधुमदमधुरकोकिलापदुःखिताध्वगजनश्रुतिरनवरतमकरन्दसीकरासार -
***
तस्मिन्नेव चान्तरे विचाले तस्य॑ संधुक्षणायेव तदुद्दीपनायेव सुरभिमासो वसन्तः प्रावर्तत प्रवृत्तो बभूव । 'सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः । गन्धोत्पले सौरभेय्यां शल्लकीमातृभेदयोः । सुगन्धे च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्' इति विश्वः । किं कुर्वन् । प्रवर्तयन्प्रवृत्ति कारयन् । कम् । दक्षिणानिलं मलयमारुतम् । कीदृशम् । सरसानि रसोपयुक्तानि किसलयानि यासामेवंविधा लता वल्ल्यस्तासां लास्योपदेशो नृत्योपदेशस्तत्र दक्षं चतुरम् । आलोलाश्चपलाश्चञ्चला रक्तपल्लवा लोहितकिसलयास्तेषां प्रालम्बाः समूहा येषु तानशोकशाखिनः केसरवृक्षान्कम्पयन् । वाञ्छिते मुकुलमञ्जर्यौ कुड्मलवल्लर्यौ तयोर्भरण बालसहकारान्नवीनचूतान्नम्रयन्नम्रतां नयन् । कुरबकैर्वृक्षविशेषैः सह बकुलः केसरः, तिलको वृक्षविशेषः, चम्पको हेमपुष्पकः, नीपः कदम्बः, एतानुट्याबल्येन कोरकयन्कलिकामुत्पादयन् । 'कलिका कोरकः पुमान्' इत्यमरः । किंकिरातैः कुरण्टकैः सह ककुभानर्जुनवृक्षानापीतयन्पीतान्कुर्वन् । 'ककुभो वीणाप्रसवे रागभेदेऽर्जुनद्रुमे' इत्यनेकार्थः । अतिमुक्तकस्य माधवीलताया आमोदं परागं विकिरन्विक्षिपन् । किंशुका ब्रह्मपादपास्तेषां वनान्युद्दामयन्नुत्कटयन् । कामिनो जनास्तेषां मनांसि चेतांसि निरङ्कुशयनुच्छृङ्खलयन् । मानं गर्वं निर्मूलयन्बुध्नत उत्पाटयन् । लज्जां त्रपामपमार्जयन्फोटयन् । कोपं क्रोधम् । अर्थात् कामिजनकृतम् । अपाकुर्वन्दूरीकुर्वन्निराकुर्वन् । अनुनयव्यवस्थां प्रणिपातमर्यादामपनयन्निराकुर्वन् । हठेन बलेन चुम्बनमास्यलेहनम्, आलिङ्गनमुपगूहनम्, रतिः संभोगः, एतासां स्थितिं मर्यादां व्यवस्थापयन्व्यवस्थां कुर्वन् । मकरध्वजस्य कामस्य रक्तध्वजानिव किंशुकानि किंशुकपुष्पाण्यरुणवैजयन्त्य इव समुल्लासयन्प्रकाशयन् । महारजतमयमिव सुवर्णमयमिव, रागमयमिवानुरागमयमिव मदनमयमिव कंदर्पमयमिव, उन्मादमयमिव चित्तविप्लवमयमिव, प्रेममयमिव स्नेहमयमिव, उत्सवमयमिव महोमयमिव, औत्सुक्यमयमिव रणरणकमयमिव, एवंविधं सकलमेव समग्रमेव जीवलोकं विष्टपं जनयन्विदधन् । किसलयिताः संजातकिसलयाः सकलाः समग्राः कान्तारकाननोपवनतरवो येन सः । तत्र कान्तारं शून्याटवी काननं निर्मानुषं वनमुपवनं नगरसमीपवर्तिवनम् । उत्फुल्लाः प्रफुल्ला ये चूतडुमा आम्रवृक्षास्तेषामामोदः परिमलस्तेन वासितं सुरभीकृतं दशदिशामन्तरं विचालं येन सः । मधुनो यो मदस्तेन मधुरो मिष्टो यः कोकिलालापस्तेन दुःखिता अध्वगजनाः पान्थजनास्तेषां श्रुतिः श्रवणं -
टिप्पo - 1 कामानलस्य । 2 'विकसितमुकुलमञ्जरीभरेण' इत्येव । 2 वसन्ते हि मानशैथिल्ये सति अनुनय ( मानमोचन) व्यवस्था क्रियते, न त्वपनीयते । अतएव - 'उपनयन्त्रनयव्यवस्थाम् (अविनीतचेष्टाम्) ' इति पाठः । 4 उत्सववाचको 'मह' शब्द एव दृष्टः । 5 दुःखिता अध्वगजनानां कर्णा यत्र ।
पाठा० - १ तत्क्षणमेव. २ प्रलम्बान्. ३ स्तबकयन्. ४ विकसित ५ आनम्रयन्; आनंमयन्. ६ आपातयन्. ७ ककुभः ८ उपनयन्. ९ उपस्थापयन्; आस्थापयन्. १० दृढ. ११ रक्तध्वजांशुकानि रक्तांशुकानि. १२ रतिमयमिवोत्सवमयमिव दानमयमिव प्रेममयमिव कलिमयमिवौत्सुक्य. १३ मधुकर. १४ उल्लाप.
(वसन्तागमने कादम्बर्युत्कण्
उत्तरभागः ।
699