SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ निर्गतायां च केयूरकेण सह पत्रलेखायाम् ‘किं शीघ्रमेते यास्यन्ति न वेति, अन्तरा वा गच्छतां परिलम्ब उत्पत्स्यते न वेति, कियद्भिर्वा दिवसैः परापतिष्यन्ति' इत्यनयैव चिन्तया शून्यहृदयः क्षणमिव स्थित्वा स्कन्धावारवार्तास्फुटीकरणाय वार्ताहरं विसर्च्य बहुदिवसान्तरितदर्शनस्य वैशम्पायनस्य प्रत्युद्गमनायात्मानं मोचयितुं पितुः पादमूलमयोत् । तत्र चोभयतः ससंभ्रमापसृतप्रतीहारमण्डलवितीर्णविस्तीर्णालोकनमार्गो दूरादेवापसव्यजानुकरतलावलम्बितविमलमणिकुट्टिमोदरसंक्रान्तप्रतिमो द्विगुणायमानायतकुन्तलकलापः पितुः प्रणाममकरोत् । अथ तारापीडस्तथा दूरत एव कृतप्रणामं चन्द्रापीडमालोक्य निर्भरस्नेहगर्भेण सलिलभरमन्थरेणेवं जलधरध्वानेनिभेन स्वरेण संधीरम् ‘एोहि' इत्याहूय ससंभ्रमप्रधावितमपि संभावितशुकनासप्रणाममुपसृत्य पार्श्वे भूमावुपविशन्तमाकृष्य हठात्पादपीठे समुपवेश्यापरिसमाप्तावलोकनस्पृहेण चक्षुषा सुचिरमालोक्यास्योपारूढयौवनभराभिरामतराण्यङ्गप्रत्य *********** केयूरकेण सह पत्रलेखायां निर्गतायां सत्यां किमेते केयूरकप्रभृतयः शीघ्रमाशु यास्यन्ति गमिष्यन्ति न वा । अथवा गच्छतां व्रजतामन्तरा मध्ये परिलम्बो विलम्ब उत्पत्स्यते भविष्यति न वा । कियद्भिः कियन्मात्रैर्दिवसैर्वासरैः परापतिष्यन्त्यागमिष्यन्ति । अनयैव चिन्तयाा शून्य मूढ़ हृदयं यस्यैवंभूतः क्षणमिव क्षणमात्रं स्थित्वा स्कन्धावारस्य सैन्यस्य वार्ता प्रवृत्तिस्तस्याः स्फुटीकरणं प्रकटीकरणं तस्मै वार्ताहरं सदेशहारक विसर्ग्य गमनायादेशं दत्त्वा बहुदिवसैरन्तरितं व्यवधानीकृतं दर्शनमवलोकनं यस्यैवंविधस्य वैशम्पायनस्य प्रत्युद्गमनायाभिमुखयानायात्मानं स्वं मोचयितुमुत्कलीकर्तुं पितुस्तारापीडस्य पादमूलं चरणसमीपमयाद् गतवान् । तत्रेति । उभयत उभयपाधै ससंभ्रमेणापसृतं किंचित्पश्चाद्गतं यत्प्रतीहारमण्डलं द्वारपालसमूहूं तेन वितीर्णो दत्तो विस्तीर्णो विशाल आलोकनमार्गो निरीक्षणपन्था यस्य सः । दूरादेवेति । दूरादेव दविष्ठादेवापसव्यो दक्षिणो जानुर्नलकीलकः करतलं हस्ततलं ताभ्यामवलम्बितमालम्बनीकृतं विमलं निर्मलं यन्मणिकुट्टिमस्य मणिबद्धभूमेरुदरं मध्यं तत्र संक्रान्ता प्रतिबिम्बिता प्रतिमा मूर्तिर्यस्य सः, अत एवोभयत्र दृश्यमानत्वाद् द्विमुणायमानो द्विगुणवदाचरमाण आयतो विस्तीर्णः कुन्तलकलापः केशसमूहो यस्यैवंभूतश्चन्द्रापीडः पितुस्तारापीडस्य प्रणामं नमस्कारमकरोदसृजत । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । अथेति । प्रणामानन्तरं तारापीडस्तथा तेन प्रकारेण दूरत एव दविष्ठादेव कृतप्रणाम विहितनमस्कार चन्द्रापीडमालोक्य निरीक्ष्य निर्भर यथा स्यात्तथा स्नेहो हाद गर्भे मध्ये यस्मिन्नेतादृशेन सलिलभरः पानीयभरस्तेन मन्थरेणेव स्निग्धेनेव जलधरस्य मेघस्य ध्यानो ध्वनिस्तस्य निभेन सदृशेन स्वरेण शब्देन सधीरं यथा स्यात्तथा एह्यह्यागच्छागच्छेत्याहूयाह्वानं कृत्वा ससंभ्रम सादरं सचकितं वा प्रधावितमपि त्वरितगत्या चलितमपि संभावितः संभावनाविषयीकृतः शुकनासस्य प्रणामो नमस्कारो येन स तमुपसृत्योपसरणं कृत्वा पार्श्वे भूमौ पृथिव्यामुपविशन्तं निषीदन्तं हठादाकृष्याकर्षणं कृत्वा पादपीठे पदासने समुपवेश्योपवेशनं कारयित्वाऽपरिसमाप्ताऽपरिपूर्णाऽवलोकनस्य निरीक्षणस्य स्पृहा वाञ्छा यस्यैवंविधेन चक्षुषा नेत्रेण सुचिरं चिरकालं यावत्, आलोक्य निरीक्ष्यास्य चन्द्रापीडस्योपारूढं प्राप्तं यद्यौवनं तारुण्यं तस्य भरः संभारस्तेनाभिरामतराण्यतिमनोहराण्यङ्गप्रत्यङ्गानि हस्ता - टिप्प० - 1 ससंभ्रमम् संभ्रमेण सहितम् अपसृतमित्यर्थः । - - - - - - - - - - - - - - - - - - - - - - - पाठा० - १ विलम्बः. २ अगात्. ३ तत्रैव. ४ एव; नव. ५ ध्वनिना ध्वनिगम्भीरेण. ६ धीरम्. ७ उपसृज्य. ८ अङ्गोपाङ्गानि. 536 कादम्बरी। कथायाम
SR No.002412
Book TitleKadambari Part 02
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages246
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy