________________
काष्ठानि काष्ठिकाः । किं तिष्ठतैवं संकुचिताः कञ्चुकिनः ? गत्वा निष्कामयत हुताशनप्रवेशोपकरणानि । निष्कारणरुदितेन किमधुना ? उपरोधपरिलम्बाद्विना दापयाशेषं देवि, द्विजेभ्यः कोषम् । कस्य कृतेऽद्यापि पाल्यते ? पालनादिकं करणीयमधुना क्षीणं क्षीणपुण्यस्य मे । यात यथाभूमिं भूमिपतयः । उत्सृष्टाः स्थ, यथा च नाद्यैवास्य दुःखं जानन्ति प्रजास्तथा करिष्यथ । कथावशेषीभूतो ते वत्सः, कॅमपरं संविधाय यामि' एवमार्तप्रलापिनं तारापीडमचेतितात्मपीडया विलासवत्यैव धृतशरीरमार्ततरस्त्वरितको व्यज्ञापयत् - 'देव, स्फुटिते हृदये ध्रियते शरीरेण युवराजः । शापदोषाद्वैशम्पायनस्य च यथा जन्म तथा निरवशेषं श्रृणोतु तावद्देवः' इति ।।
तारापीडस्तु तदद्भुतमाकर्ण्य कौतुकान्तरितशोकावेगो विगतनिमेषेण चक्षुषाऽऽविष्ट इव दत्तावधानस्तेन कथ्यमानं यथादृष्टं यथाश्रुतं यथानुभूतं च निरवशेष सत्सर्वमश्रौषीत् । श्रुत्वा -
***********
पेऽभ्यणे निकटे सपदि शीघ्रं परिचारकान्भृत्यान्सेवकांश्चिताया रचनं करणं तदर्थमादिशाज्ञां कुरु । झटिति शीघ्रं भो काष्ठिका दारुरक्षकाः काष्ठरक्षणकारकाः, काष्टान्येधासि रचयत रचनां कुरुत गृहाकारेण गृहबद्रचनां कुरुत । भोः कञ्चुकिनः । 'सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश्च ते' इति कोशः । एवं संकुचिताः संकोचं प्राप्ता यूयं किं तिष्ठत स्थितिं कुरुत । गत्वा गमनं कृत्वा हुताशने वहावग्नौ यः प्रवेशः पतनं तत्रोपकरणानि यन्त्राणि निष्कामयत बहिःकर्षणं कारयत । गृहाद्वढेः पूजासामग्रीमानयत समानयतेत्यर्थः । निष्कारणं निष्प्रयोजनं रुदितेन विलपितेन किम् । न किमपीत्यर्थः । हे देवि, अमुनोपरोधेन यः परिलम्बो विलम्बस्तेन विनाशेष समग्रं कोशं भाण्डागारं द्विजा ब्राह्मणास्तेभ्यो दापय वितरणं कारय । अद्यापि कस्य कृते पाल्यते रक्ष्यते । अधुना सांप्रतं क्षीणपुण्यस्य क्षामश्रेयसो मे मम पालनादिक रक्षणादिकं क्षीणं रीणम् । भो भूमिपतयो वसुधाधीशा राजानः, यथाभूमिमात्मीयस्थलं यात व्रजत यूयमुत्सृष्टाः स्थ । लटि परस्मैपदे मध्यमपुरुषबहुवचनम् । यथा चाद्यैवास्य चन्द्रापीडस्य प्रजा दुःखं न जानन्ति नावबुध्यन्ते तथा यूयं करिष्यथ विधास्यथ । कथैव वार्तेवावशेष उर्वरितांशो यस्य स तथा एवंभूतो मे मम वत्सश्चन्द्रापीडः । ततः कमपरमन्यमधीशं संविधाय कृत्वा यामि व्रजामि । एवंप्रकारेणार्तं च प्रलापिन चार्तालापिनं तारापीडमचेतिताऽज्ञातात्मपीडा स्वपीडा ययैवंविधया विलासवत्यैव धृतं धारितं शरीरं विग्रहो यस्य स तं नृपमार्ततरोऽतिपीडितस्त्वरितकः सेवको व्यज्ञापयत् । किं तदित्याह - देवेति । हे देव, हृदये वक्षसि स्फुटितेऽपि पाटितेऽपि युवराजः शरीरेण ध्रियते धार्यते । वैशम्पायनस्य च शापदोषादाक्रोशवचनदोषायथा जन्म येन प्रकारेणान्यत्रोत्पत्तिस्तथा निरवशेषं सर्वं देवो भवास्तावदादौ पूर्व श्रृणोत्वाकर्णयत्विति ।
तारापीडस्त्वद्भुतं चित्रमाकर्ण्य श्रुत्वा कौतुकेनाश्चर्येणान्तरितो व्यवहितः शोकावेगो यस्य स तथा विगतनिमेषेण गतनिमेषोन्मेषेण चक्षुषा नेत्रेणात एवाविष्ट इव भूतग्रस्त इव दत्तमवधानं चित्तं येन सः । राज्ञो विशेषणम् । तेन त्वरितकेन कथ्यमानं निवेद्यमानं यथादृष्टं यथावीक्षितं निरीक्षितं यथाश्रुतं यथाकर्णितं यथानुभूतं साक्षा -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 'पुरोधः ! (ह पुरोहित) परिलम्बात् (विलम्बात्) विना' इत्येव पाठः । 2 'यात यथाभूमि (अव्ययीभावः भूमिपतयः' इत्येव पाठः । नीचैःपाठो मध्यगतोस्ति । अर्थात् - 'देव यथा त्वं हृदये संभावयसि न तथा, स्फुटितेपि हृदये ध्रियते शरीरेण युवराजः' इति ।
पाठा० - १ अवरोधपटलं दापय, पुरोधःपरिलम्बाद्विना प्रविश्य दापय. २ काशम्. ३ करणीयमेव. ४ यात यथाभूमि भूमिपालः; यात यथाभूमिपतयः. ५ तथोत्सृष्टाः स्थ; दृष्टाः स्थ. ६ अस्य वा दुःखम्; अनाथतादुःखम्. ७ कथमपरं संविधाय यामि; कमपरं संविधापयामि. ८ आर्त प्रलपन्तं च. ९ आर्तः. १० व्यज्ञपत्. ११ देव, यथा त्वं हृदये संभावयसि न तथा.
(सर्वं वृत्तं श्रुत्वा राज्ञो मरणाध्यवसायः
उत्तरभागः।